||Sundarakanda ||

|| Sarga 14||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ चतुर्दशस्सर्गः

समुहूर्तमिव ध्यात्वा मनसा चाधिगम्यताम्।
अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः॥1||

सतु संहृष्ट सर्वांगः प्राकारस्थो महाकपिः।
पुष्पिताग्रान् वसंतादौ ददर्श विविधान् द्रुमान्॥2||

सालान् अशोकान् भव्यांश्च चंपकांश्च सुपुष्पितान्।
उद्दालकान् नागवृक्षां श्चूतान्कपिमुखानपि॥3||

अथाम्रवण संच्चन्नां लताशतसमावृताम्।
ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम्॥4||

सप्रविश्य विचित्रां तां विहगैरभिनादिताम्।
राजतैः कांचनैश्चैव पादपः सर्वतो वृताम्॥5||

विहगैर्मृगसंघैश्च विचित्रां चित्रकाननाम्।
उदितादित्य संकाशां ददर्श हनुमान् कपिः॥6||

वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः।
कोकिलै र्भृंगराजैश्च मत्तैर्नित्य निषेविताम्॥7||

प्रहृष्ट मनुजे काले मृगपक्षि समाकुले।
मत्तबर्हिणसंघुष्टां नानाद्विजागणायुताम्॥8||

मार्गमाणो वरारोहां राजपुत्त्रामनिंदिताम्।
सुखप्रसुप्तान् विहगान् बोधयामास वानरः॥9||

उत्पतत्भि र्द्विजगणैः पक्षैः सालाः समाहताः।
अनेक वर्णा विविधा मुमुचुः पुष्पवृष्टयः॥10||

पुष्पावकीर्ण श्शुशुभे हनुमान् मारुतात्मजः।
अशोकवनिका मध्ये यथा पुष्पमयो गिरिः॥11||

दिशः सर्वाः प्रधावंतं वृक्ष षंडगतं कपिः।
दृष्ट्वा सर्वाणि भूतानि वसंत इति मेनिरे॥12||

वृक्षेभ्यः पतितै पुष्पैरवकीर्णा पृथग्विधैः।
रराज वसुधा तत्र प्रमदेव विभूषिता॥13||

तरस्विना ते तरवस्तरसाभि प्रकंपिताः।
कुसुमानि विचित्राणि ससृजुः कपिना तदा॥14||

निर्दूत पत्रशिखरा श्शीर्णपुष्पफलाद्रुमाः।
निक्षिप्त वस्त्राभरणा धूर्त इव पराजितः॥15||

हनुमता वेगवता कंपितास्ते नगोत्तमाः।
पुष्प पर्ण फलान्यासु मुमुचुः पुष्पशालिनः॥16||

विहंग संघैर्हीनास्ते स्कंधमात्राश्रया द्रुमाः।
बभूवुरगमा स्सर्वे मारुतेनेव निर्थुताः॥17||

निर्दूत केशी युवति र्यथा मृदित वर्णिका।
निष्पीतशुभ दंतोष्ठी नखदंतैश्च विक्षता ॥18||

तथा लांगूलहस्तैश्च चरणाभ्यांच मर्दिता।
बभूवाशोकवनिका प्रभग्नवरपादपा॥19||

महालतानां दामानि व्यथमत्तरसा कपिः।
यथा प्रावृषि विंध्यस्य मेघजालानि मारुतः॥20||

स तत्र मणि भूमीश्च राजतीश्च मनोरमाः।
तथाकांच भूमीश्च ददर्श विचरन् कपिः॥ 21||

वापीश्च विविधाकाराः पूर्णाः परमवारिणा।
महार्हैः मणिसोपानैः उपपन्नास्ततस्ततः॥22||

मुक्ताप्रवाळसिकताः स्पाटिकांतर कुट्टिमाः ।
कांचनैस्तरुभिश्चित्रैः तीरजैरुपशोभिताः॥23||

पुल्लपद्मोत्तलवनाः चक्रवाकोपकूजिताः।
नत्यूहरुत संघूष्टा हंससारसनादिताः॥24||

दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समंततः।
अमृतोपम तोयाभिः शिवाभिरुपसंस्कृताः॥25|

लताशतैरवतताः संतान कुसुमावृताः।
नानागुल्मावृतघनाः करवीर कृतांतराः॥26||

ततोs‍ंबुधर संकाशं प्रवृद्ध शिखरं गिरिम्।
विचित्रकूटं कूटैश्च सर्वतः परिवारितम्॥27||

शिलागृहैरवततं नानावृक्षै स्समावृतम्।
ददर्श हरिशार्दूलो रम्यं जगति पर्वतम्॥28||

ददर्श च नगात्तस्मान्नदीं निपतितां कपिः।
अंकादिव समुत्सत्य प्रियस्य पतितं प्रियाम्॥29||

जले निपतिताग्रैश्च पादपैरुपशोभिताम्।
वार्यमाणामिव क्रुद्धां प्रमदां प्रिय बंधुभिः॥30||

पुनरावृत्ततोयां च ददर्श स महाकपिः।
प्रपन्नामिव कांतस्य कांतां पुनुरुपस्थिताम्॥31||

तस्याsदूरात् सपद्मिन्यो नानाद्विजगणायुताः।
ददर्श हरिशार्दूलो हनुमान् मारुतात्मजः॥32||

कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा।
मणिप्रवर सोपानां मुक्तासिकतशोभिताम्॥33||

विविधैर्मृगसंघैश्च विचित्रां चित्रकाननाम्।
प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा॥34||

काननैः कृतिमैश्चापि पर्वत समलंकृताम्।
ये केचित् पादपा स्तत्र पुष्पोपगपलोपमाः॥35||

सच्चत्राः सवितर्दीका स्सर्वे सौवर्णवेदिकाः।
लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम्॥36||

कांचनीं शिंशुपामेकाम् ददर्श हरियूधपः।
वृतां हेममयीभिस्तु वेदिकाभिः समंततः॥37||

तेषां द्रुमाणां प्रभया मेरो रिव दिवाकरः।
अमन्यत तदा वीरः कांचनोsस्मीति वानरः॥38||

सोsपश्यत् भूमिभागांश्च गर्तप्रस्रवणानि च।
सुवर्णवृक्षान् अपरान् ददर्श शिखिसन्निभान् ॥39||

तां कांचनैस्तरुगणैः मारुतेन च वीजिताम्।
किंकिणीशतनिर्घोषाम् दृष्ट्वा विस्मय मागमत्॥40||

स पुष्पिताग्रां रुचिरां तरुणांकुर पल्लवाम्।
ता मारुह्य महाबाहुः शिंशुपां पर्णसंवृताम्॥41||

इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम्।
इतश्चेतश्च दुःखार्तां संपतंतीं यदृछ्छया॥42||

अशोकवनिका चेयं दृढं रम्या दुरात्मनः।
चंपकैः चंद नैश्चापि वकुळैश्च विभूषिता॥43||

इयं च नळीनी रम्या द्विजसंघनिषेविता।
इमा सा राममहिषी नूनमेष्यति जानकी॥44||

सा रामा राममहिषी राघवस्य प्रिया सती।
वनसंचार कुशला नूनमेष्यति जानकी॥45||

अथवा मृगशाबाक्षी वनस्यास्य विचक्षणा।
वनमेष्यति साssर्येह रामचिंतानुकर्शिता॥46||

रामशोकाभि संतप्ता सा देवी वामलोचना।
वनवासे रता नित्यमेष्यते वनचारिणी॥47||

वने चरानां सततं नूनं स्पृहयते पुरा।
रामस्य दयिता भार्या जनकस्य सुता सती॥48||

संध्याकालमना श्श्यामा ध्रुव मेष्यति जानकी।
नदीं चेमां शिवजलां संध्यार्थे वरवर्णिनी॥49||

तस्याश्चानुरूपेयं अशोकवनिका शुभा।
शुभाया पारिवेंद्रस्य पत्नी रामस्य सम्मता॥50||

यदिजीवति सा देवी ताराधिपनिभानना।
आगमिष्यति साs वश्य मिमां शिवजलां नदीम्॥51||

एवंतु मत्वा हनुमान् महात्मा
प्रतीक्षमाणो मनुजेंद्रस्य पत्नीम्।
अवेक्षमाणाश्च ददर्श सर्वम्
सुपुष्पिते पर्णघने निलीनः॥52||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे चतुर्दशस्सर्गः॥

 

|| Om tat sat ||