||Sundarakanda ||

|| Sarga 15||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ पंचदशस्सर्गः

सवीक्षमाण स्तत्रस्थो मार्गमाणश्च मैथिलीम्।
अवेक्षमाणश्च महीं सर्वां तामन्ववेक्षत॥1||

संतानकलताभिश्च पादपैरुपशोभितम् ।
दिव्यगंधर्वसोपेतां सर्वतः समलंकृताम्॥2|

तां स नंदनसंकाशां मृगपक्षिभि रावृतां।
हर्म्यप्रासाद संभाधां कोकिलाकुलनिस्वनाम्॥ 3||

कांचनोत्पलपद्माभि र्वापीभि रुपशोभिताम्।
बह्वासनकुथोपेतां बहुभूमि गृहायुताम्॥4||

सर्वर्तुकुसुमै रम्यां फलवद्भिश्च पादपैः।
पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम्॥5||

प्रदीप्तमिव तत्रस्थो मारुति स्समुदैक्षत।
निष्पत्रशाखां विहगैः क्रियमाना मिवासकृत्॥6||

विनिष्पतद्भिः शतशः चित्रैः पुष्पावतंसकैः।
अमूलपुष्पनिचितैः अशोकैः शोकनाशनैः॥7||

पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीं।
कर्णिकारैः कुशुमितैः किंशुकैश्च सुपुष्पितैः॥8||

स देशः प्रभया तेषां प्रदीप्त इव पर्वतः।
पुन्नगा सप्तवर्णाश्च चंपकोद्दालकास्तथा॥9||

विवृद्धमूला बहवः शोभंते स्म सुपुष्पिताः।
शातकुंभनिभाः केचित् केचिदग्नि शिखोपमाः॥10||

नीलांजननिभाः केचित् तत्राsशोका सहस्रशः।
नंदनं विविधोद्यानं चित्रं चैत्ररथं यथा॥11||

अतिवृत्त मिवाचिंत्यं दिव्यं रम्यं श्रिया वृतं।
द्वितीय मिव चाकाशं पुष्पज्योति र्गणायुतम् ॥12||

पुष्परत्नशतै श्चित्रं पंचमं सागरं यथा ।
सर्वर्तु पुष्पैर्निचितं पादपैर्मधुगंदिभिः॥13||

नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः।
अनेक गंधप्रवहं पुण्यगंधं मनोरमम्॥14||

शैलेंद्रमिव गंधाढ्यं द्वितीयं गंधमादनम्।
अशोकवनिकायां तु तस्यां वानरपुंगवः ॥15||

सददर्शा विदूरस्थं चैत्यप्रासाद मुछ्छ्रातम्।
मध्ये स्तंभ सहस्रेण स्थितं कैलासपांडुरम्॥16||

प्रवाळाकृत सोपानं तप्तकांचनवेदिकं।
मुष्णंत मिव चक्षूंषि द्योतमान मिव श्रिया॥17||

विमलं प्रांशुभावत्वा दुल्लिखंत मिवांबरम्।
ततो मलिन संवीतां राक्षसीभि समावृताम्॥18||

उपवासकृशां दीनां निश्स्वसंतीं पुनः पुनः।
ददर्श शुक्लपक्षादौ चंद्ररेखामिवामलाम्॥19||

मंदं प्रख्यायमानेन रूपेण रुचिरप्रभां।
पिनद्धां धूमजालेन शिखामिव विभावसोः॥20||

पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा।
सपंकां अनलंकारं विपद्मामिव पद्मिनीम् ॥21||

व्रीळितां दुःखसंतप्तां परिम्लानां तपस्विनीम्।
ग्रहेणांगारकेणेव पीडिता मिव रोहिणीम्॥22||

अश्रुपूर्णमुखीं दीनां कृशामनशनेन च।
शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्॥23||

प्रियं जनमपश्यंतीं पश्यन्तीं राक्षसीगणम्।
स्वगणेन मृगीं हीनां श्वगणाभिवृता मिव॥24||

नीलनागाभयावेण्या जघनं गत यैकया।
नीलया नीरदापाये वनराज्या महीमिव॥25||

सुखार्हं दुःखसंतप्तां व्यसनानां अकोविदाम्।
तां समीक्ष्य विशालाक्षीं अधिकं मलिनां कृशाम् ॥26||

तर्कयामास सीतेति कारणैरुपपादिभिः।
ह्रियमाणा तदा तेन रक्षसा कामरूपिणा॥27||

यथारूपाहि दृष्टा वै तथा रूपेय मंगना।
पूरचंद्राननां सुभ्रूं चारुवृत्तपयोधराम्॥28||

कुर्वंतीं प्रभया देवीं सर्वा वितिमिरा दिशः।
तां नीलकेशीं बिंबोष्टीं सुमध्याम् सुप्रतिष्टिताम्॥29||

सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा।
इष्टां सर्वस्य जगतः पूर्णचंद्र प्रभामिव॥30||

भूमौ सुतनुमासीनां नियतामिव तापसीं।
निश्स्वासबहुळां भीरुं भुजगेंद्र वधूमिव ॥31||

शोकजालेन महता विततेन न राजतीं।
संसक्तां धूमजालेन शिखामिव विभावसोः॥32||

तां स्मृतीमिव संदिग्धां वृद्धिं निपतितामिव।
विहता मिव च श्रद्धां आशां प्रतिहतामिव॥33||

सोपसर्गां यथासिद्धिं बुद्धिं स कलुषामिव।
अभूतेनापवादेन कीर्तिं निपतितामिव ॥34||

रामोपरोधव्यधितां रक्षोहरण कर्शिताम्।
अबलां मृगशाबाक्षीं वीक्षमाणां तत स्ततः॥35||

बाष्पांबुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा।
वदने नाप्रसन्नेन निश्स्वसंतीं पुनः पुनः॥36||

मलपंकधरां दीनां मंडनार्हां अमंडिताम्।
प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम्॥37||

तस्य संदिदिहे बुद्धिः मुहुः सीतां निरीक्ष्यतु।
आम्नायनां अयोगेन विद्यां प्रशिथिलामिव॥38||

दुःखेन बबुधे सीतां हनुमानवलंकृताम्।
संस्कारेण यथा हीनां वाचं अर्थांतरं गतम्॥39||

तां समीक्ष्य विशालाक्षीं राजपुत्रीं अनिंदिताम्।
तर्कयामास सीतेति कारणैरुपपादिभिः॥40||

वैदेह्या यानि चांगेषु तदा रामोsन्वकीर्तयत्।
तान् आभरणजालानि शाखाशोभीन् अलक्षयत्॥41||

सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ।
मणिविद्रुम चित्राणि हस्तेष्वाभरणानि च ॥42||

श्यामानि चिरयुक्तत्वात् तथा संस्थानवंति च।
तान्ये वैतानि मन्येsहं यानि रामोsन्वकीर्तयत्॥43||

तत्रया न्यवहीनानि तान्यहं नोपलक्षये ।
यान्यस्या नावहीनानि तान् इमानि नसंशयः॥44||

पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्।
उत्तरीयं नगासक्तं तदा द्रष्टुं प्लवंगमैः॥45||

भूषणानि च मुख्यानि दृष्टानि धरणी तले।
अनयै वासविद्दानि स्वनवंति महंति च॥46||

इदं चिरगृहीतत्वात् व्यसनं क्लिष्टवत्तरम्।
तथाsपि नूनं तद्वर्णं तथा श्रीमत् यथेतरत्॥47||

इयं कनकवर्णांगी रामस्य महिषी प्रिया ।
प्रणष्टापि सती याsस्य मनसो न प्रणस्यति॥48||

इयं सा यत्कृते रामश्चतुर्भिः परितप्यते।
कारुण्ये नानृशंस्येन शोकेन मदनेन च॥49||

स्त्री प्रणष्टेति कारुण्यात् आश्रितेत्यानृशंस्यतः।
पत्नी नष्टेति शोकेन प्रियेति मदनेन च॥50||

अस्या देव्या यथा रूपं अंगप्रत्यंग सौष्टवम्।
रामस्य च यथारूपं तस्येय मसितेक्षणा॥51||

अस्या देव्या मनस्तस्मिं स्तस्य चास्यां प्रतिष्टितम्।
तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति॥52||

दुष्करं कृतवान् रामो हीनोयदनया प्रभुः।
धारय त्यात्मनो देहं न शोके नावसीदति॥53||

दुष्करंकुरुते रामो य इमां मत्तकासिनीम्।
सीतां विना महाबाहुः मुहूर्तमपि जीवति॥54||

एवं सीता तदा दृष्ट्वा हृष्टः पवन संभवः।
जगाम मनसा रामं प्रशशंस च तं प्रभुम्॥55||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत्सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे पंचदशस्सर्गः॥

 

|| Om tat sat ||