||Sundarakanda ||

|| Sarga 16||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ षोडशस्सर्गः

प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगव।
गुणाभिरामं रामं च पुनः चिंतापरोsभवत् ॥1||

स॥ हरिपुंगवः प्रशस्तव्यं तां सीतां प्रशस्य गुणाभिरामं रामं च ( प्रशस्य) पुनः चिंतापरः अभवत् ॥

The best among Vanaras having praised the praise worthy Sita as well as Rama with embellished virtues , then started thinking again.

स मुहूर्तमिव ध्यात्वा भाष्पपर्याकुलेक्षणः।
सीता माश्रित्य तेजस्वी हनुमान्विललाप ह॥2||
मान्या गुरुवीनीतस्य लक्ष्मणस्य गुरुप्रिया।
यदि सीताsपि दुःखार्तो कालोहि दुरततिक्रमः॥3||

स॥ सः हनुमान् भाष्पपर्याकुलेक्षणः मुहूर्तं इव ध्यात्वा सीतां आश्रित्य विललाप ह॥ गुरुविनीतस्य लक्ष्मणस्य मान्या गुरुप्रिया सीता अपि दुःखार्ता यदि (तदि) कालः दुरतिक्रमः॥

Having meditated for a moment Hanuman started lamenting about Sita, with his eyes filled with tears. ’If Sita worshipped by well trained Lakshmana, and loved by elders is drenched in sorrows then it is indeed impossible to overcome time”.

रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ।
नात्यर्थं क्षुभ्यते देवी गंगेव जलदागमे॥4||
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्।
राघवोsर्हति वैदेहीं तं चेयमसितेक्षणा॥5||

स॥ रामस्य धीमतः लक्ष्मणस्य व्यवसायज्ञा ( ज्ञात्वा) अत्यर्थं न क्षुभ्यते जलदागमे गंगा इव॥ तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् राघवः वैदेहीं अर्हति । तं च इयं असितेक्षणा॥

Knowing the prowess of Rama and Lakshmana's might, Sita is not agitated like Ganga seeing the rain bearing clouds. Equal in character , age and behaviour , perfect match in birth and auspicious marks Raghava deserves Sita . That black eyed one too deserves him.

तां दृष्ट्वा नवहेमाभां लोककांतामिव श्रियम्।
जगाम मनसा रामं वचनं च इदमब्रवीत्॥6||
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः।
रावण प्रतिमो वीर्ये कबंधश्च निपातितः॥7||
विराधश्च हत स्संख्ये राक्षसो भीमविक्रमः।
वने रामेण विक्रम्य महेंद्रेणेव शंबरः॥8||

स॥ नवहेमाभां श्रियमिव तां ( सीतां ) दृष्ट्वा मनसा रामं जगाम च । (ततः इदं वचनं अब्रवीत्॥ अस्याः विशालाक्ष्याः हेतोः महाबलः वाली हतः। वीर्ये रावण प्रतिमः कबंधः च निपातितः॥वने संख्ये भीमविक्रमः राक्षसः विराधः रामेण हतः।यथा महेंद्रेण शंबरः इव॥

Seeing Sita shining like gold, like the riches themselves , Hanuman reached Rama in his thoughts. Then he said the following. 'For the sake of this large eyed lady the powerful Vali was killed. Kabandha who is equal in prowess to Ravana was slain too.The fearsome warrior Viradha was killed in a war in the forest , like Sambara killed by Mahendra'.

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
निहतानि जनस्थाने शरै रग्निशिखोपमैः॥9||
खरश्च निहत स्संख्ये त्रिशिराश्च निपातितः।
दूषणश्च महातेजा रामेण विदितात्मना॥10||
इश्वर्यं वानराणां च दुर्लभं वालिपालितम्।
अस्या निमित्ते सुग्रीवः प्राप्तवान् लोक सत्कृतम्॥11||

स॥ जनस्थाने अग्निशिखोपमैः शरैः चतुर्दश सहस्राणि रक्षसां भीमकर्मणां निहतानि॥ महातेजा विदितात्मना रामेण संख्ये खरः च निहतः त्रिशिराः च निपातितः (तदैव) दूषणः च॥ अस्याः निमित्ते सुग्रीवः वालिपालितं दुर्लभं लोक सत्कृतं प्राप्तवान् । वानराणां इश्वर्यं अपि प्राप्तवान्॥

'In Janasthana with arrows equal to flames of fire, fourteen thousand fearsome Rakshasas were killed. Khara was killed in a war by the powerful Rama who is a realized self. Trisira was slain too and so was Dushana. Because of her Sugriva got the difficult to obtain supremacy of the world ruled by Vali. The Vanaras too obtained prosperity.

सागरश्च मया क्रांत श्श्रीमान् नदनदी पतिः ।
अस्याहेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता॥12||
यदि रामस्समुद्रांतां मेदिनीं परिवर्तयेत् ।
अस्याः कृते जग च्चापि युक्तं इत्येव मे मतिः॥13||
राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा।
त्रैलोक्य राज्यं सकलं सीताया नाप्नुयत्कलाम्॥14||

स॥ अस्याः विशालक्ष्याः हेतोः मया नदनदीपतिः श्रीमान् सागरस्य क्रांतः। इयं पुरी च निरीक्षिता॥अस्याः कृते यदि रामः समुद्रांतं मेदिनीं जगत् च अपि परिवर्तयेत् (तत्) युक्तं इति एवं मे मतिः॥ त्रिषु लोकेषु राज्यं वा जनकात्मजा सीता वा सकलं त्रैलोक्यराज्यं सीतायाः कलां न आप्नुयात्॥

For this large eyed lady, the Lord of rivers rivulets namely Sagara , the ocean has been crossed by me. This city was surveyed too (by me). For her sake if Rama turns upside down the lands stretching to the ocean or the whole world it is appropriate I think. The sovereignty of the three worlds or Sita, the three worlds kingdom will not measure upto even one sixteenth of her.

इयं सा धर्मशीलस्य मैथिलस्य महात्मनः।
सुता जनकराजस्य सीता भर्तृदृढव्रता ॥15||
उत्थिता मेदिनीं भित्वा क्षेत्रे हलमुखक्षते ।
पद्मरेणुनिभैः कीर्णाशुभैः केदारपांसुभिः॥16||
विक्रांतस्यार्य शीलस्य संयुगे ष्वनिवर्तिनः।
स्नुषा दशरथ स्यैषा ज्येष्ठा राज्ञो यशस्विनी॥17||

स॥ सा मैथिलस्य महात्मनः धर्मशीलस्य जनकराजस्य सुता इयं सीता भर्तृ दृढव्रता ॥ क्षेत्रे हलमुखक्षते पद्मरेणु निभैः शुभैः केदारापांशुभिः कीर्णा मेदिनीं भित्वा उत्थिता ॥ एषा यशस्विनी विक्रांतस्य आर्यशीलस्य संयुगेषु अनिवर्तिनः राज्ञः दशरथस्य ज्येष्ठा स्नुषा॥

Daughter of King Janaka, a great soul and a follower of right conduct , Sita is a lady of unswerving devotion to her Husband. She has risen up breaking the field tilled by the plough covered with dust particles of paddy , the dust resembling the pollen dust of the lotus. This celebrated lady is the elder daughter-in-law of King Dasaratha a man of right conduct ,a person who never turned away from battles ( without victory).

धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः।
इयं सा दयिता भार्या राक्षसीवशमागता॥18||
सर्वान्भोगान् परित्यज्य भर्तृ स्नेहबलात्कृता।
अचिंतयित्वा दुःखानि प्रविष्ठा निर्जनं वनम्॥19||
संतुष्टा फलमूलेन भर्तृ शुश्रूषणे रता।

स॥ धर्मज्ञस्य कृतज्ञस्य विदितात्मनः रामस्य दयिता भार्या सा इयं राक्षसी वशं आगता॥सर्वान् भोगान् परित्यज्य भर्तृस्नेहात् कृता दुःखानि अचिन्तयित्वा निर्जनं वनं प्रविष्ठा॥फलमूलेन संतुष्ठा भर्तृ शुश्रूषेण रता ।

This Sita, wife of righteous, ever grateful Rama has fallen under the control of Rakshasa women. Having given up all comforts , committed to the love of her husband , not thinking of any concerns she entered the forest uninhabited by people. She is happy with fruits and roots and delighted in serving her husband.

या परां भजते प्रीतिं वनेsपि भवने यथा॥20||
सेयं कनकवर्णांगी नित्यं सुस्मित भाषिणी।
सहते यातनामेतां अनर्थानां अभागिनी॥21||
इमां तु शीलसंपन्नां द्रष्टुमर्हति राघवः।
रावणेन प्रमथितां प्रपामिव पिपासितः॥22||

स॥ या वने अपि भवनं यथा परं प्रीतिं भजते सा इयं कनकवर्णांगी नित्यं सुस्मित भाषिणी येतां अनर्थानां यातनां सहते अभागिनी ॥राघवः शीलसंपन्नां रावणेन प्रमथिताम् इमाम् पिपासितः प्रपामिव द्रष्टुं अर्हति॥

She lived happily in the forest as if she was in palace. This lady of golden complexion ever smiling with her speech , never having experienced calamities she is tolerating all the agony. Raghava deserves to see this highly virtuous lady troubled by Ravana like a thirsty man waiting to see a source of water.

अस्यानूनं पुनर्लाभात् राघवः प्रीतिमेष्यति।
राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम्॥23||
कामभोगैः परित्यक्ता हीना बंधुजनेन च।
धारयत्यात्मनो देहं तत् समागमकाक्षिणी॥24||
नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान्।
एकस्थ हृदया नूनं राममेवानुपश्यति॥25||

स॥ राघवः पुनः अस्याः लाभात् नूनं राज्यपरिभ्रष्टः राजा मेदिनीं पुनः प्राप्येव प्रीतिं एष्यति ॥कामभोगैः परित्यक्ता बंधुजनेन हीना च तत् समागम आकांक्षिणी देहं धारयति॥ एषा राक्षस्यो न पश्यति। इमान् पुष्प फलद्रुमान् न। एकस्थः हृदया रामं एव अनुपश्यति नूनं॥

Raghava after getting her will be delighted like a king regaining a lost kingdom. This lady having forsaken all comforts, separated from her near and dear , is holding her life only with the hope of meeting them again. This lady does not see the Rakshasas. Neither does she see the fruit and flower laden trees. Surely with single minded focus she is thinking of Rama only.

भर्ता नाम परं नार्या भूषणं भुषणादपि।
एषातु रहिता तेन भूषणार्हा नशोभते ॥26||
दुष्करं कुरुते रामो हीनो यदनया प्रभुः।
धारयत्यात्मनो देहं न दुःखे नावसीदति॥27||
इमां असितकेशांतां शतपत्र निभेक्षणा।
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः॥28||

स॥ भर्ता नाम नार्याः भूषणात् अपि भूषणं। एषा तु रहिता तेन भूषणार्हा अपि न शोभते॥रामः अनया हीनः आत्मनः देहं धारयति यत् दुःखेन नावसीदति यत् प्रभुः दुष्करं कुरुते॥असितकेशांताम् शतपत्रनिबेक्षणां सुखार्हां इमाम् दुःखितां दृष्ट्वा मम मनः अपि व्यथितं॥

Husband is the ornament of ornaments. Without that ( ornament in the form of husband) even if she deserves to wear other ornaments she does not shine. By sustaining himself without her and not being despondent Rama is performing a difficult task. Seeing this sorrowing dark haired lady, endowed with eyes resembling a lotus of hundred petals,though she deserves to be happy , my mind is also worried.

क्षितिक्षमा पुष्करसन्निभाक्षी
या रक्षिताराघव लक्ष्मणाभ्याम्।
सा राक्षसीभि र्विकृतेक्षणाभिः
संरक्ष्यते संप्रति वृक्षमूले॥29||
हिमहतनळिनीव नष्टशोभा
व्यसन परंपरया निपीड्यमाना।
सह चर रहितेव चक्रवाकी
जनकसुता कृपणां दशां प्रपन्ना॥30||

स॥ क्षितिक्षमा पुष्करसन्निभाक्षी राघवा लक्ष्मणाभ्याम् रक्षिता सा विकृतेक्षणाभिः राक्षस्सीभिः वृक्षमूले संरक्ष्यते संप्रति॥ हिममहत नळिनि इव नष्टशोभा व्यसनपरंपरया निपीड्यमाना जनकसुता रहिता चक्रवाकी इव कृपणां दशां प्रपन्ना॥

Tolerant like mother earth, the lotus eyed lady who was protected by both Rama and Lakshmana is now guarded by Rakshasa women of hideous appearance sitting under a tree. Having lost luster like a lotus afflicted by snow, afflicted by continuous appearance of sorrows, the daughter of Janka, is in a pitiable condition like the female Chakravaka bird separated from her companion.

अस्या हि पुष्पावनताग्र शाखाः
शोकं दृढं वै जनयंत्यशोकाः।
हिमव्यपाये च शीतरश्मि
रभ्युथितो नैक सहस्र रश्मिः॥31||

स॥ हिमव्यपायेन पुष्पावनताग्रशाखः अशोकाः अभ्युत्थितः नेकसहस्ररश्मिः शीतरश्मि
च अस्याः दृढं शोकं जनयंति ॥

The topmost branches of Ashoka tree loaded with with blossoms with the onset of spring and the thousand rayed Sun and moon are generating intense sorrow (instead of happiness.)

इत्येव मर्थं कपिरन्ववेक्ष्य
सीतेय मित्येवविनिष्ट बुद्धिः।
संश्रित्य तस्मिन् निषसाद वृक्षे
बली हरीणां वृषभस्तरस्वी॥32||

स॥ इति एवं बली हरीणां वृषभः कपिः अर्थं ( सीतां) अन्वेक्ष्य इयं सीता इति एव विनिष्टबुद्धिः तस्मिन् वृक्षे संश्रित्य निषसाद॥

Thus the strong, the bull among Vanaras in search of his object , thinking in his mind concluded that she is Sita

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे षॊडशस्सर्गः॥

|| Thus ends Sarga 16 of Sundarakanda in Ramayana the first ever poem written by Sage Valmiki ||

|| Om tat sat ||