||Sundarakanda ||

|| Sarga 18||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ अष्टादशस्सर्गः

तथा विप्रेक्षमानस्य वनं पुष्पित पादपं।
विचिन्वतश्च वैदेहीं किंचिच्चेषा निशाsभवत्॥1||

षडंगवेदविदुषां क्रतु प्रवरयाजिनां।
शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम्॥2||

अथमंगळवादित्रैः शब्दैः श्रोत्रमनोहरैः।
प्राबुध्यत महाबाहुः दशग्रीवो महाबलः॥3||

विबुध्यतु यथाकालं राक्षसेंद्रः प्रतापवान्।
स्रस्तमाल्यांबरधरो वैदेहीम् अन्वचिंतयत्॥4||

भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटाः।
न स तं राक्षसं कामं शशाकात्मनि गूहितम्॥5||

स सर्वाभरणैर्युक्तो बिभ्रत् श्रियमनुत्तमां।
तां नगैर्बहुभि र्जुष्टां सर्वपुष्पफलोपगैः॥6||

वृतां पुष्करिणीभिश्चनानापुष्पोपशोभिताम्।
सदामदैश्च विहगैः विचित्रां परमाद्भुतम्॥7||

ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः।
वीथीः संप्रेक्षमाणश्च मणिकांचनतोरणाः॥8||

नानामृग गणाकीर्णम् फलैः प्रपतितैर्वृताम्।
अशोकवनिकामेव प्राविशत् संततद्रुमाम्॥9||

अंगनाशतमात्रंतु तं व्रजंत मनुव्रजत्।
महेंद्रमिव पौलस्त्यं देवगंधर्वयोषितः॥10||

दीपिकाः कांचनीः ज्जगृहु स्तत्र योषितः।
वालव्यजनहस्ताश्च तालवृंतानि चापराः॥11||

कांचनैरपि भृंगारैः जह्रुः सलिलमग्रतः॥
मंडलाग्रान् बृसींचैव गृह्याsन्याः पृष्ठतो युयुः॥12||

काचित् रत्नमयीं स्थालीं पूर्णां पानस्य भामिनी।
दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना॥13||

राजहंस प्रतीकाशं छत्रं पूर्णशशिप्रभम्।
सौवर्णदंडमपरा गृहीत्वा पृष्ठतो ययौ॥14||

निद्रामद परीताक्ष्यो रावणस्योत्तमाः स्त्रियः।
अनुजग्मुः पतिं वीरं घनं विद्युल्लताइव॥15||

व्याविद्धहारकेयूराः समा मृदितवर्णकाः।
समागळित केशांताः सस्वेद वदनास्तथा॥16||

घूर्णंत्यो मदशेषेण निद्रया च शुभाननाः।
स्वेदक्लिष्टांगकुसुमाः सुमाल्याकुलमूर्थजाः॥17||

प्रयांतं नैरृतपतिं नार्यो मदिरलोचनाः।
बहुमानाच्च कामाच्च प्रिया भार्या स्तमन्वयुः॥18||

स च कामपराधीनाः पति स्तासां महाबलः।
सीतासक्त मना मंदो मदांचितगति र्बभौ॥19||

ततः कांचीनिनादं च नूपुराणां निस्स्वनम्।
शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः॥20||

तं चा प्रतिकर्माणं अचिंत्यबलपौरुषम्।
द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः॥21||

दीपिकाभिरनेकाभिः समंतादवभासितम्।
गंधतैलावसिक्ताभिः ध्रियमाणाभिरग्रतः॥22||

कामदर्पमदैर्युतं जिह्मताम्रायतेक्षणम्।
समक्षमिव कंदर्पं अपविद्धशरासनम्॥23||

मथितामृतफेनाभ मरजो वस्त्रमुत्तमम्।
सलील मनुकर्षंतं विमुक्तं सक्त मंगदे ॥24||

तं पत्रविटपे लीनः पत्त्रपुष्पघनावृतः।
समीपमिव संक्रांतं निध्यातु मुपचक्रमे॥25||

अवेक्षमाणस्तु ततो ददर्श कपिकुंजरः ।
रूपयौवनसंपन्ना रावणस्य वरस्त्रियः॥26||

ताभिः परिवृतो राजा सुरूपाभिर्महायशाः।
तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम्॥27||

क्षीबो विचित्राभरणः शंकुकर्णो महाबलः।
तेन विश्रवसः पुत्त्रः सदृष्टो राक्षसाधिपः॥28||

वृतः परमनारीभिः ताराभिरिव चंद्रमाः।
तं ददर्श महातेजाः तेजोवंतं महाकपिः॥29||

रावणोsयं महाबाहुः इति संचित्य वानरः।
अवप्लुतो महातेजा हनुमान् मारुतात्मजः॥30||

स तथाsप्युग्रतेजा स्सन्निर्धूतस्तस्य तेजसा।
पत्रगुह्यांतरे सक्तो हानुमान् संवृतोsभवत्॥31||

स तां असितकेशांतां सुश्रोणीं संहतस्तनीम्।
दिदृक्षु रसितापांगां उपावर्तत रावणः॥32||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे अष्टादशस्सर्गः॥

|| Om tat sat ||