||Sundarakanda ||

|| Sarga 1||( Only Slokas in Devanagari) )

||om tat sat||

हरिः ओम्
ओम् श्रीरामाय नमः
श्रीमद्वाल्मीकि रामायणे
सुंदरकांडे
प्रथमस्सर्गः

ततो रावण नीतायाः सीतायाः शत्रुकर्षणः ।
इयेषपदमन्वेष्टुं चारणाचरिते पथे ॥1||

स॥ततः रावण नीतायाः सीतायाः पदं अन्वेष्टुं (हनुमान्) शत्रुकर्षणः चारणाचरिते पथि (चरितुं)इयेष ॥

Then following the path of the celestial bards Hanuman the destroyer of enemies resolved to search for Sita carried away by Ravana.

दुष्कर्षं निष्प्रतिद्वंद्वं चिकीर्षन् कर्म वानरः ।
समुदग्र शिरोग्रीवो गवांपतिरिवाबभौ॥ 2 ||
अथ वैडूर्य वर्णेषु शाद्वलेषु महाबलः ।
धीरस्सलिलकल्पेषु विचचार यथासुखम् ॥3||

स॥ वानरः दुष्करं कर्म निष्प्रतिद्वंद्वं चिकीर्षन् समुदग्र शिरो ग्रीवः अस्ति । (सः वानरः) गवांपति इव बभौ।अथ हनुमान् धीरः महाबलः वैडूर्य वर्णेषु सलिल कल्पेषु शाद्वलेषु यथा सुखं विचचार ॥

Intending to accomplish the very difficult action ( crossing the ocean) which had no rival, he raised his head and neck. Then he appeared like the king of bulls. Then the mighty Hanuman strolled on the green grassy lands with a sheet of water happily.

द्विजान् वित्राशयन् धीमान् उरसा पादपान् हरन् ।
मृगांश्च सुबहून् निघ्नन् प्रवृद्ध व केशरी ॥4 ||
नीललोहित मांजिष्ट पत्रवर्णसितासितैः ।
स्वभाव विहितैश्चितैः धातुभिः समलंकृतम् ॥5 ||

स॥ धीमान् (हनुमतः) द्विजान् सुबहून् मृगांश्च वित्राशयन् प्रवृद्धः पादपान् उरसा हरन् केशरी इव (विचचार)॥( सः गिरिवर्यः ) स्वभाव विहितैः चित्रैः नील लोहित मांजिष्ट पत्रवर्णैः सितासितैः (च) धातुभिः समलंकृतं ॥

The wise Hanuman scaring the birds and many other animals, uprooting and trampling the trees with his chest, went about like a lion. (The mountain) with its natural blue red green and yellow colors as well as white and black colors of minerals looked like it is decorated all over.

कामरूपिभिराविष्टम् अभीक्ष्णं सपरिछ्छदैः ।
यक्षकिन्नर गंधर्वैः देवकल्पैश्च पन्नगैः ॥6||
स तस्य गिरिवरस्य तले नागवरायुते ।
तिष्ठन् कपिवरः तत्र ह्रदे नाग इव बभौ ॥ 7 ||

स॥ (सः गिरिवर्यः) कामरूपिभिः यक्ष किन्नर गंधर्वैः पन्नगैः सपरिच्छदैः अभीक्षणम् दैवकल्पैश्चआविष्ठं ॥ स कपिवरः नागवरायुते तस्य गिरिवरस्य हृदे तले तिष्ठन् नागः इव अबभौ॥

(The mountain) was very much occupied by ,Yakshas, Kinnaras Gandharvas ,Pannagas and people who take any form they please, surrounded by their retinues. They were looking like gods. The best of Vanaras standing at the center of that mountain filled with lordly elephants looked like an elephant.

स सूर्याय महेंद्राय पवनाय स्वयंभुवे ।
भूतेश्चाभ्यांजलिं कृत्वा चकार गमने मतिम् ॥8 ||
अंजलिं प्राज्ञ्मुखं कृत्वा पवनायात्म योनये ।
ततो हि ववृधे गंतुं दक्षिणो दक्षिणां दिशम् ॥9||

स॥ सः सूर्याय महेंद्राय पवनाय स्वयंभुवे भूतेभ्यः अंजलिं कृत्वा गमने मतिं चकार ॥प्राज्ङ्मुखः आत्मयोनये पवनाय अंजलिं कृत्वा ततः दक्षिणः हनुमान् दक्षिणदिशं गंतुं ववृधेहि॥

Offering salutations to Sun, Indra, Vayu, the creator and all the elements , he decided in his mind to proceed (to Lanka). Facing east offering salutations to his father , the wind god, the capable Hanuman grew in size to go in southern direction.

प्लवंग प्रवरैद्रृष्टः प्लवने कृत निश्चये ।
ववृधे रामवृध्यर्थं समुद्र इव सर्वसु ॥ 10 ||
निष्प्रमाणशरीरस्सन् लिलिंघयिषुरर्णवम् ।
बाहुभ्यां पीडयामास चराणाभ्यां च पर्वतम् ॥ 11 ||

स॥ (यदा) प्लवंग प्रवरैः दृष्टः - (तदा) प्लवने कृत निश्चयः हनुमान् रामवृध्यर्थम् पर्वसु ( पर्वदिनेषु) समुद्र इव ववृधे (यथा) ॥ निष्प्रमाण शरीरः सन् अर्णवम् (सागरं) लिलिंघयिषु बाहुभ्यां चरणाभ्यां च पर्वतम् पीडयामास॥

While being seen by the Vanara chiefs, then having resolved to take a leap for achieving the task of Rama, Hanuman grew like the sea during the full moon days. With an immesurable size of body to cross the ocean Hanuman started to put pressure on the mountain with his feet and hands.

स चचालचलश्चापि मुहूर्तं कपि पीडितः ।
तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयन् ॥12 ||
तेन पादपमुक्तेन पुष्पौघेण सुगंधिना ।
पर्वतः संवृतश्शैलो बभौ पुष्पमयो यथा ॥13 ||

स॥ अचलश्चापि कपि पीडितः मुहूर्तम् चचाल । (तदा) पुष्पिताग्राणां तरूणां सर्वं पुष्पं असातयन्॥शैलः पादपमुक्तेन सुगंधिना पुष्पौघेण संवृतः पुष्पमयो पर्वतः यथा बभौ॥

The immovable one ( the mountain) also for a moment was shaken by the Vanara. Then the flowers on the top of trees fulll of trees fell down. The the mountain covered with the fragrant flowers fallen from the trees, looked like a mountain of flowers.

तेन चोत्तम वीर्येण पीड्यमानस्स पर्वतः ।
सलिलं संप्रसुस्राव मदं मत्त इव द्विपः ॥14 ||
पीड्यमानस्तु बलिना महेंद्रस्तेन पर्वतः ।
रीतिः निर्ववर्तयामास कांचनांजनराजतीः ॥ 15 ||

स॥ तेन उत्तमवीर्येण पीडितः सः पर्वतः मत्तः द्विपः मदं इव सलिलं सुश्राव॥महेंद्र पर्वतः तेन बलिना पीड्यमानः कांचनांचन राजतीः रीतिः निर्वर्तयामास॥

Then pressed by the highly valiant one, that mountain let go of waters like the elephant in rut. The Mahendra mountain , pressurised by his might , let go of streams of gold and silver.

मुमोच च शिलाश्शैलो विशालासमनश्शिलाः ।
मध्यमेनार्चिषा जुष्ठो धूमराजीः इवानलः॥ 16||
गिरिणापीड्यमानेन पीड्यमानानि सर्वतः ।
गुहाविष्ठानि भूतानि विनेदुर्विकृतैः स्वरैः ॥17||

स॥ शैलः विशालाः शिलाः समनः शिलाः मुमोच (यथा) मध्यमेन अर्चिषा धूमराजीरिव अनलः जुष्टाः॥गिरिणा सर्वतः पीड्यमानानि गुहाविष्टानि भूतानि पीड्यमानेन विकृतैः स्वरैः विनेदुः ॥

The mountain let go of big boulders with sulphur pigments just like fire emits columns of smoke possessed with fire. Being shaken by the mountain all the beings living in the caves shrieked with horrible sounds.

स महासत्व सन्नादः शैलपीडानिमित्तजः ।
पृथिवीं पूरयामास दिशश्चोपवनानि च ॥18||
शिरोभिः पृथिभिः सर्पा व्यक्त स्वस्तिकलक्षणैः ।
वमंतः पावकं घोरं ददंशुः दशनैश्शिलाः ॥19||

स॥शैलपीडा निमित्तजः सः महासत्त्व सन्नादः पृथिवीन् दिशश्च उपवनानि च पूरयामास॥सर्पाः व्यक्त स्वस्तिक लक्षणैः पृथुभिः शिरोभिः घोरं पावकं वमन्तः दशनैः शिलाः ददंशुः ॥

Caused by the crushing power of the mountain, the loud noises made by all the creatures filled all the all the groves on earth in all directions. The snakes with the signs of swastika on their foreheads bit the rocks with their fangs producing great fire.

तास्तदा सविषैः दष्टाः कुपितैः तैः महाशिलाः ।
जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रथा ॥20||
यानि चौषधजालानि तस्मिन् जातानि पर्वते ।
विषघ्नान्यपि नागानां न शेकुः शमितं विषं॥21||

स॥ तदा कुपितैः सविषैः ( सर्पैः) दष्टा महाशिलाः पावकोददीप्ताः जज्वलुः सहस्रधा बिबिधुः च॥तस्मिन् पर्वते जातानि औषधजलानि नागानां शमितं विषं विषघ्नान्यपि न शेकुः ॥

Then the mountain bitten by the angry and venomous snakes and burnt by the fire broke into thousands of pieces. The medicinal plants capable of counteracting the poisons, grown on the mountain were not enough to neutralize the poison ( spewed by the snakes).

भिद्यतेsयं गिरिर्भू तैरिति मत्वा तपस्विनः ।
त्रस्ता विध्याधरः तस्मात् उत्पेतुः स्त्रीगणैसह॥22||
पानभूमिगतं हित्वा हैममासवभाजनम्।
पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥23||

स॥ अयं गिरिः भूतैः भिद्यते इति मत्वा त्रस्ता तपस्विनः (तथैव) स्त्रीगणैः सह विध्याधरः तस्मात् उत्पेतुः॥महार्हाणि पात्राणि हैम मासव भाजनं हिरन्मयान् करकांश्च हित्वा ॥

Thinking that this mountain is breaking up , the scared ascetics as well as the Vidyadharas along with their women folk flew up in fear. The valuable vessels , golden drinking cups with golden goblets were left behind .

लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च।
आर्षभाणी च चर्माणि खड्गांश्च कनकत्सरून् ॥24||
कृतकंठगुणाः क्षीबा रक्तमाल्यानुलेपनः।
रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥25||

स॥ (विध्याधराः) लेह्यान् उच्चावचान् भक्ष्यान् विविधानि मांसानि च अर्षभाणि चर्माणि कनकत्सरून् खड्गां च हित्वा (उत्पेतुः)॥ विध्याधराः क्षीबाः कृतकंठगणाः रक्ताक्षाः पुष्कराक्षः च रक्तमाल्यानु लेपनः गगनं प्रतिपेदिरे॥

Food that was licked , various type of small and big eatables, meat , hides of bulls , swords covered with golden sheaths were all left behind. The Vidyadharas, intoxicated , wearing chains, with red lotus like eyes, wearing garlands and red unguents flew into the sky.

हारनूपूर केयूर पारिहार्यधराः स्त्रियः ।
विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥26||
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ।
सहितास्तस्थुराकाशे वीक्षांचक्रुश्च पर्वतम् ॥27||

स॥ विस्मिताः सस्मिताः हारनूपूर केयूर पारिहार्य धराः स्त्रियः रमणैः सह आकाशे तस्थुः॥ विध्याधर महर्षयः सहिताः महाविद्यां दर्शयन्तः आकाशे तस्थुः वीक्षांचक्रुश्च पर्वतम्॥

Wonder struck women wearing necklaces , anklets and armlets stayed in the sky with their lovers smiling gently.The great seers among Vidhyadharas, proficient in all studies, were also watching the mountain, staying up in the sky.

शुश्रुवुश्च तदाशब्दं ऋषीणां भावितात्मनां।
चारणानांश्च सिद्धानां स्थितानां विमलेंबरे॥28||
एषपर्वत संकाशो हनुमान् मारुतात्मजः।
तितीर्षति महावेगः समुद्रं मकरालयम् ॥29||
रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम्।
समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ॥30||

स॥ तदा ऋषीणां भावितात्मनां चारणानां सिद्धानां च विमले अम्बरे स्थितानां शब्दं शुश्रुवुः॥एषः पर्वत संकाशः मारुतात्मजः महावेगः हनुमान् मकरालयं समुद्रं तितीर्षति॥ रामार्थं वानरार्थं च दुष्करं कर्म चिकीर्षन् समुद्रस्य दुष्प्रापं परं पारं प्राप्तुं इच्छति॥

Then the sounds of seers who are seekers of truth, Siddhas, Charanas who stay in the skies were heard. ( They said ) 'This son of wind god, swift Hanuman of the size of a mountain is desiring to cross the ocean which is the abode of crocodiles. For the sake of Rama and for the sake of Vanaras, to achieve a difficult task he wants to reach the other shore of the ocean which is difficult to reach '.

इति विद्याधराः श्रुत्वा वचस्तेषां तपस्विनाम्।
तमप्रमेयं दद्रुशुः पर्वते वानरर्षभम्॥31||
दुधुवेच स रोमाणि चकंपे चाच लोपमः।
ननाद सु महानादंसु महानिव तोयदः॥32||
आनुपूर्वेण वृत्तस्य लांगूलं लोमभिश्चितम्।
उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥33||

स॥तेषां विध्याधरः तपस्विनां वचः श्रुत्वा पर्वते अप्रमेयं तं वानररर्षभं दद्रुशुः॥ सुमहान् सः अचलोपमः रोमाणि दुधुवे (ततः) तोयदः इव सुमहानादं ननाद ॥ पक्षिराजः उरगं इव लोमभिः वृतं चितं लांगूलं आनुपूर्येण उत्पतिष्यन् विचिक्षेप॥

The Vidyadharas having heard the words of the ascetics, saw Hanuman the bull among Vanaras whose strength is unmeasurable. The great one as huge as a mountain shook his hair on his body and produced a great sound thundering like a cloud. Like the king of birds shaking a serpent, he shook his tail coverd with hair in order to take off.

तस्य लांगूलमाविद्ध मात्त वेगस्य पृष्ठतः।
ददृशे गरुडे नेव ह्रियमाणो महोरगः ॥34||
बाहूसंस्तंभयामास महा परिघ सन्निभौ ।
ससाद च कपिः कट्यां चरणौ संचुकोच च॥35||

स॥ आत्तवेगस्य तस्य पृष्ठतः गरुडेन ह्रियमाणः महोरगः इव लांगूलं अविद्धं॥ कपिः महापरिघसन्निभौ बाहुः संस्तंभयामास कट्यां ससाद चरणौ संचुकोच च ॥

The tail curled at his back looked like the great serpent being carried off by Garuda. The Vanara pressing down his arms looking like iron clubs firmly on the mountain, crouched his waist and contracted his feet.

संहृत्य च भुजौ श्रीमान् तथैव च शिरोधराम्।
तेजः सत्त्वं तथा वीर्य माविवेश स वीर्यवान् ॥36||
मार्गमालोकयन् दूरा दूर्ध्वं प्रणिहितेक्षणः।
रुरोद हृदये प्राणान् आकाशमवलोकयन् ॥37||

स॥ वीर्यवान् श्रीमान् हनुमान् भुजौ तथैव शिरोधराम् संहृत्य सत्त्वं तथा तेजः आविवेश॥ ऊर्ध्वं प्रणिहितेक्षणः दूरात् आकाशं मार्गं अवलोकयन् प्राणान् हृदये रुरोद॥

The glorious Hanuman contracted his shoulders and the head similarly, and summoned up energy as well as vigour. Setting up his eyes to look up in the direction in which he has to leap , he restrained his breath in his chest.

पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुंजरः।
निकुंच्य कर्णौ हनुमान् उत्पतिष्यन् महाबलः।
वानरान् वानरश्रेष्ठ इदं वचन मब्रवीत् ॥।38||

स॥ कपिकुंजरः महाबलः पद्भ्यां दृढं अवस्थानम् कर्णौ निकुंच्य उत्पतिष्यन् (किं करोति?) वानरान् वानरश्रेष्ठं इदं वचनं अब्रवीत् ॥

The elephant among the Vanaras, keeping his feet firmly in that position, contracting his ears, ready to fly said the following to the the Vanaras.

यथा राघव निर्मुक्तः श्शरश्श्वसन विक्रमः ।
गच्छेत्तद्वद्गमिष्यामि लंकां रावणपालिताम्॥39||
न हि द्रक्ष्यामि यदि तां लंकायां जनकात्मजाम्॥
अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥40||

स॥ यथा राघव निर्मुक्तः शरः गच्छेत् तद्वत् श्वसन विक्रमः रावणपालिताम् लंकां गमिष्यामि॥(यदि) लंकायां तां जनकात्मजं न द्रक्ष्यामि अनेन वेगेनैव हि सुरालयं गमिष्यामि ॥

With the speed of wind, like the arrow released by Rama (I) will go the Lanka ruled by Ravana. If I do not see Janaka's daughter in Lanka, then with the same speed I will go to the abode of gods,

यदि वा त्रिदिवे सीतां न द्रक्ष्या म्यकृत श्रमः।
बद्द्वा राक्षस राजानं आनयिष्यामि सरावणम्॥41||
सर्वथा कृतकार्योsहं एष्यामि सह सीतया ।
आनयिष्यामि वा लंकां समुत्पाट्य स रावणम्॥42||

स॥ यदि अकृत श्रमः त्रिदिवे सीतां नद्रक्ष्यामि (तदा) राक्षस राजानं स राक्षसं बद्ध्वा आनयिष्यामि॥ सर्वथा कृत कार्यः सह सीतया अहं एष्यामि । वा लंकां स रावणम् समुत्पाट्य आनयिष्यामि ॥

If I do not find Sita in heaven in spite of all my effforts, then I will bind that king of Rakshasas and bring him here. By all means completing my task I will come back here along with Sita. Otherwise I will uproot Lanka along with Ravana and bring him here l

एवमुक्त्वातु हनुमान् वानरान् वानरोत्तमः ।
उत्पपाथ वेगेन वेगवान् अविचारयन् ॥43||
सुपर्णमिव च आत्मानं मेने स कपिकुंजरः ॥44||

स॥ एवं उक्त्वा वानरान् वानरोत्तमः हनुमान् वेगवान् वेगेन अविचारयन् उत्पपाथ॥ सः कपिकुंजरः आत्मानं सुपर्णमिव मेने॥

Having said this to Vanaras the best among Vanaras, the swift Hanuman leaped without any effort. The elephant among Vanaras thought himself like the bird Suparna.

समुत्पति तस्मिंस्तु वेगात्ते नग रोहिणः।
संहृत्य विटपान् सर्वान् समुत्पेतुः समंततः॥45||
स मत्तकोयष्टिमकान् पादपान् पुष्पशालिनः ।
उद्वहन्नूरुवेगेन जगाम विमलेंबरे ॥46||

स॥ (यदा) तस्मिन् वेगात् समुत्पतति (तदा) सर्वान् नगरोहिणः विटपान् संहृत्य समंततः समुत्पेतुः॥ पुष्पशालिनः पादपान् ऊरु वेगेन मत्तकोयष्टिमकान् उद्वहन् सः विमले अंबरे जगाम॥

As he took off with speed, all the the trees with branches flew along with him. The speed of his thighs swept way the lapwings in heat on the trees full of flowers as he coursed along the cloudless sky.

ऊरु वेगोद्धता वृक्षा मुहूर्तं कपि मन्वयुः।
प्रस्थितं दीर्घमध्वानं स्वबंधुमिव बांधवः॥47||
त मूरु वेगोन्मथिता स्सालाश्चान्ये नगोत्तमाः।
अनुजग्मुर्हनूमंतं सैन्या इव महीपतिम्॥48||

स॥ ऊरुवेगोथ्थिताः वृक्षाः स्वबंधुं दीर्घमध्वानं प्रस्थितं बांधवः इव मुहूर्तम् अन्वयुः॥ऊरुवेगोन्मथिताः सालाः अन्ये नगोत्तमाः महीपतिं सैन्या इव तं हनूमंतं अनुजग्मुः॥

Pulled along by the the speed of his thighs, the trees followed for a distance like the relatives follow the kin on a long journey. Uproted by the force of his thighs, Sala trees and other great trees followed him like the army following the king.

सुपुषिताग्रैर्भहुभिः पादपैरन्वितः कपिः ।
हनुमान् पर्वताकारो भभूवाद्भुत दर्शनः॥49||
सारवन्तोsधये वृक्षान्यमज्जन् लवणांभसि।
भयादिव महेंद्रस्य पर्वता वरुणालये ॥50||

स॥बहुभिः सुपुष्पिताग्रैः पादपैः अन्वितः कपिः हनुमान् पर्वताकारः अद्भुत दर्शनः बभूव॥अथ सारवन्तः ये वृक्षाः वरुणालये पर्वताः महेन्द्रस्य भयात् इव लवणांभसि न्यमज्जन्॥

With many trees having blossoms at the top following him, the Vanara, mountain like Hanuman appeared in a fantastic form. Then the huge trees fell into the ocean like the mountains which fell into the sea out of fear of Indra.

स नाना कुसुमैः कीर्णः कपिः सांकुर कोरकैः।
शुशुभे मेघ संकाशः खद्योतैरिव पर्वतः ॥51||
विमुक्ताः तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।
अवशीर्यंत सलिले निवृत्ताः सुहृदो यथा ॥52||

स॥ नाना कुसुमैः सांकुर कोरकैः कीर्णः सः मेघ संकाशः कपिः खद्योतैः पर्वतः इव शुशुभे॥ तस्य वेगेन विमुक्ताः ते द्रुमाः पुष्पाणि च मुक्त्वा सलिले अवशीर्यन्त यथा निवृत्ताः सुहृदा (इव)॥

Covered with many different kinds of flowers , buds and sprouts spread over like a cloud, Hanuman shone brightly like a mountain covered wth fireflies. Free of his speed the trees shedding the flowers fell off into the sea like the friends who return after following for some distance.

लघुत्वे नोपपन्नं तद्विचित्रं सागरे अपतत् ।
द्रुमाणां विविथम् पुष्पं कपिवायु समीरितम्॥53||
ताराशत मिवाकाशं प्रभभौ स महार्णवः।

स॥ कपिवायुसमीरितं द्रुमाणां विविधं विचित्रं पुष्पं लघुत्वे तत् सागरे अपतत् ॥ लघुत्वेन उपपन्नं (पुष्पेण) तत् महर्णवः ताराचितं आकाशमिव प्रभबौ॥

Driven by the wind caused by the speed of the Vanara, the trees with variety of flowers being light fell on the ocean. The trees and flowers being light rose up in the sea and the sea shone like the sky with stars.

पुष्पौघे नानुबद्धेन नानावर्णेन वानरः ।
बभौ मेघ इवाकाशे विद्युद्गण विभूषितः॥।54||
तस्य वेग समधूतैः पुष्पैः तोयमदृश्यत ॥55||
ताराभि रभिरामाभि रुदिताभि रिवांबरम्।

स॥ नानावर्णेन (पुष्पेण) पुष्पौघेण अनुबद्धेन सः वानरः आकाशे विद्युत्‍गण विभूषितः मेघ इव बभौ॥तस्य वेग समाधूतैः पुष्पैः तोयः अदृश्यत (यथा..) उदिताभिः अभिरामाभिः ताराभिः अंबरं इव॥

Stuck with flowers of different colors , the Vanara looked like the clouds glowing with lightnings. The sea water, with the flowers dropped by his speed, looked like the firmament with rising stars.

तस्यांबर गतौ बाहू ददृशाते प्रसारितौ ॥56||
पर्वताग्रात् विष्क्रांतौ पंचास्याविव पन्नगौ।
पिबन्निव बभौ चापि सोर्मिमालं महार्णवम्॥57||
पिपासु रिव चाकाशं ददृशे स महाकपिः ।

सोर्मिमालं महार्णवं आकाशं च पिपाशुः पिबन्निव सः महाकपिः ददृशे॥ तस्य प्रशारितौ अंबर गतौ बाहुः पर्वताग्रात् विनिष्क्रान्तौ पंचास्यः पन्नगः इव दद्रुशाते ॥

The arms stretched out in the sky emerging from the mountain looked like five headed serpents. The great Vanara looked like a thirsty one drinking the sea with rising waves , also the sky.

तस्य विद्युत्प्रभाकारे वायु मार्गानु सारिणः ॥58||
नयने विप्रकाशेते पर्वतस्थाविवानलौ।
पिंगे पिंगाक्षमुख्यस्य बृहती परिमंडले ॥59||
चक्षुषी संप्रकाशेते चंद्रसूर्याविवोदितौ ।

स॥ वायुमार्गानुसारिणः तस्य विद्युत्प्रभाकारे नयने पर्वतस्थौ अनलौ इव विप्रकाशेते॥ पिंगाक्षमुख्यस्य पिंगे बृहती परिमंडले चक्षुषी उदितौ चंद्र सूर्याविव संप्रकाशेते॥

Following the path of the winds, his eyes resembling glow of lightning, looked like two fires burning on the mountain. The large reddish brown eyes of the Vanara chief shone like the rising Sun and Moon.

मुखं नासिकया तस्य ताम्रया ताम्र माबभौ ॥60||
संध्यया समभिस्पृष्टं यथा तत्सूर्यमंडलम् ।
लांगूलं च समाविद्धम् प्लवमानस्य शोभते ॥61||
अंबरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम्।

स॥ तस्य ताम्रं मुखं ताम्रया नाशिकया संध्यया समभिस्पृष्टं तत् सूर्यमंडलं यथा आबभौ ॥अंबरे वायुपुत्रस्य प्लवमानस्य लांगूलम् उच्छ्रितं शक्रध्वज इवशोभते॥

His copper colored face with red nose with the twilight coming close looked like the Sun's orb. The lifted up tail of the son of wind god shone like the flag staff of Indra.

लांगूल चक्रेण महान् शुक्लदंष्ट्रोsनिलात्मजः॥62||
व्यरोचत महाप्राज्ञः परिवेषीव भास्करः।
स्फिग्देशे नाभिताम्रेण रराज स महाकपिः॥63||
महता दारितेनेव गिरिर्गैरिक धातुना ।

स॥ शुक्लदंष्ट्रः महाप्राज्ञः महान् अनिलात्मजः लांगूल चक्रेणा परिवेषीव भास्करः इव व्यरोचत॥ सः महाकपि अभिताम्रेण स्फिग्देशेन दारितेन इवमहता गैरिक धातुना गिरिः इव रराज॥

With white teeth, the very wise son of Vayu, with curled up tail looked like the Sun covered with halo. The great Vanara with copper red buttocks shone like a mountain filled with deposits of red minerals.

तस्य वानरसिंहस्य प्लवमानस्य सागरम्॥64||
कक्षांतरगतो वायुर्जीमूत इव गर्जति।
खे यथा निपतुंत्युल्का ह्युत्तरान्तात् विनिस्सृताः॥65||
दृश्यते सानुबन्धाधा च तथा स कपिकुंजरः ।

स॥ सागरम् प्लवमानस्य वानरसिंहस्य कक्षांतरगतः वायुः जीमूतः इव गर्जति॥उत्तरान्तात् विनिःस्रुता सानुबन्धाच उल्का खे यथा दृश्यते तथा निपतति॥

The air passing through the arm pits of the the lion among Vanaras crossing the ocean sounded like a thundering cloud. The elephant like Vanara appeared like a meteor released from the northern part following a path in the sky falling down ( in the southern hemisphere).

पतत्पतंग संकाशो व्यायत श्शुशुभे कपिः॥66||
प्रवृद्ध इव मातंगः कक्ष्यया बध्यमानया।
उपरिस्टात् शरीरेण छायया चाव गाढया ॥67||
सागरे मारुताविष्टौ नौ रिवासीत्तदा कपिः ।

स॥पतत्पतंग संकाशः व्यायतः कपिः बध्यमानया कक्ष्यया प्रवृद्धः मातंगः इव शुशुभे॥तदा कपिः उपरिष्टात् शरीरेण सागरे अवगाढया छायया च मारुताविष्ट नौरि इव आसीत्॥

Looking like the moving sun coursing through the sky, the broad Vanara with tail bound around his girth looked like an elephant bound round the waist. With Vanara on the top, his shadow on the ocean looked like a ship swept by the wind.

यं यं देशं समुद्रस्य जगाम स महाकपिः ॥68||
स स तस्योरुवेगेन सोन्माद इव लक्ष्यते।
सागर स्योर्मिजालाना मुरसा शैलवर्ष्मणाम्॥69||
अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः।

स॥ सः महाकपिः समुद्रस्य यं यं देशं जगाम सः सः तस्य ऊरुवेगेन सोन्मादः इव लक्ष्यते॥(यदा) सः महावेगः कपिः पुप्लुवे (तदा) सागरस्य ऊर्मिजालनां शैलवर्षणाम् उरसा अभिघ्नन्॥

Which ever place over which he flew those places ( in the ocean) appeared as riotous with eddies being formed because of the speed of his thighs. As the Vanara flew with high speed then the oceanic waves seemed to rise up to mountanous proportions as though touching his chest.

कपिवातश्च बलवान् मेघवातश्च निस्सृतः॥70||
सागरं भीम निर्घोषं कम्पयामासतु र्भृशम्।
विकर्षन्नूर्मि जालानि बृहंति लवणांभसि॥71||
पुप्लुवे कपिशार्दूलो विकरन्निव रोदसी।

स॥बलवान् कपिवातस्य निःस्रुतः मेघवातः च भीम निर्घोषं (च) सागरं भृशं कम्पयामासतुः ॥(यदा) कपिशार्दूलः पुप्लुवे (तदा) लवणांभसि ऊर्मिजालानि विकर्षन् विकरन्निव रोदसी॥

The forceful wind generated by the mighty Vanara, which was rushing towards the wind generated by the clouds which were agitating the ocean violently, generated dreadful sounds. As the tiger among the Vanaras flew foward, it looked like he is occupying the intermidiary space between the sky and the earth.

मेरुमंदर संकाशा नुद्धतान् स महार्णवे॥72||
अतिक्रामन् महावेगः तरंगान् गणयन्निव ।
तस्यवेग समुद्धूतं जलं सजलं यथा ॥73||
अंबरस्थं विबभ्राज शारदाभ्र मिवाततम् ।

स॥महावेगः महार्णवे उद्धतान् मेरुमंदर संकाशान् तरंगान् गणयन् इव सः अत्यक्रामत् ॥ तदा तस्य वेग समुद्धतम् सजलदम् जलं अंबरस्थम् आततम् शारदाभ्रमिव विबभ्राज ॥

The Hanuman who is travelling at high speed seemd to be counting the mighty waves like Meru and Mandara as he crossed. The waters pushed up by his speed, along with the clouds in the sky shone like out stretched autumnal clouds.

तिमिनक्र झुषाः कूर्मा दृश्यंते विवृतास्तदा ॥74||
वस्त्रापकर्षणे नेव शरीराणि शरीरिणाम् ।
प्लवमानं समीक्ष्याथ भुजंगा स्सागरालयाः ॥75||
व्योम्नितं कपिशार्दूलं सुपर्ण इति मेनिरे ।

स॥ तदा तिमिनक्रझुषाः कूर्माः वस्त्रापकर्षणेन शरीरिणां शरीराणीव विवृताः दृश्यन्ते॥ अथ व्योम्नि प्लवमानं तं समीक्ष्य सागरालयाः भुजंगाः (तं) कपिशार्दूलं सुपर्णः इति मेनिरे ॥

Then the whales crocodiles and tortoises appeared bare like bodies without clothes . Seeing Hanuman the tiger among Vanaras, coursing through the sky the serpents in the ocean thought him to be Garuda.

दशयोजन विस्तीर्णा त्रिंशत् योजनमायता॥76||
छाया वानरसिंहस्य जले चारुतराsभवत्।
श्वेताभ्र घनराजीव वायुपुत्त्रानुगामिनी॥77||
तस्य सा शुशुभे छाया वितता लवणांभसि।

स॥ दशयोजन विस्तीर्णा त्रिंशत् योजनम् आयता वानरसिंहस्य छाया जले चारुतरा अभवत्॥वायुपुत्रानुगामिनी लवणांभसि वितता तस्य सा छाया श्वेताभ्रघनराजीव शुशुभे ॥

The ten Yojana wide thirty Yojana long Vanaras shadow appeared more pleasing. The broad shadow of the son of wind god , following him shone like a dark row of clouds sailing in the sky.

शुशुभे स महातेजा महाकायो महाकपिः॥78||
वायुमार्गे निरालंबे पक्षवानिव पर्वतः।
ये नासौ याति बलवान् वेगेन स कपिकुंजरः॥79||
तेन मार्गेण सहसा द्रोणीकृत इवार्णवः।

स॥महातेजः महाकायः सः महाकपिः निरालंबे वायुमार्गे पक्षवान् पर्वत इव शुशुभे॥ बलवान् असौ कपिकुंजरः वेगेन येन मार्गेण याति तेन सहसा अर्णवः द्रोणीकृत इव ( अदृश्यत्
)

Glorious Vanara with great body coursing through the skies without any support looked like a mountain with wings. As this powerful Vanara who is like elephant among Vanaras, was proceeding swiftly along, the ocean below looked instantly like a valley between two mountains ( by the force of the winds generated by his flight).

अपाते पक्षिसंघानां पक्षिराज इव व्रजन् ॥80||
हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा।
पांडुरारुण वर्णानि नीलमाजिष्ठकानि च॥81||
कपिना कृष्यमाणानि महाभ्राणि चकाशिरे ।

स॥ हनुमान् मारुतो यथा मेघजालानि प्रकर्षन् पक्षि संघानाम् आपाते व्रजन् पक्षिराज इव॥ (??) कपिना अकृष्यमाणानि पाण्डुरारुण वर्णानि नीलमांजिष्ठकानि महाभ्राणि चकाशिरे॥

Hanuman like the wind pulling along clouds with him looked like the king of birds attarcting flocks of birds while landing. The Vanara while drawing large clouds of white or red blue or yellow looked charming.

प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः॥82||
प्रच्छन्नश्च प्रकाशश्च चंद्रमा इव लक्ष्यते।
प्लवमानं तु तं दृष्ट्वा प्लवंगं त्वतितं तदा ॥83||
ववर्षुः पुष्पवर्षाणि देव गंधर्व दानवाः ।

स॥ अभ्रजालानि पुनः पुनः प्रविशन् निष्पतंश्च प्रच्छन्नश्चप्रकाशश्च चन्द्रमाइव लक्ष्यते॥तदा त्वरितं प्लवमानं तं प्लवंगं दृष्ट्वा देवगंधर्व दानवाः पुष्पवर्षाणि ववर्षुः
||

Entering and leaving strings of clouds, he looked like the moon that apears and disappears. Then seeing Hanuman crossing the ocean quickly the Devas. Gandharvas, Danavas showered flowers on him.

तताप न हि तं सूर्यं प्लवंतं वानरोत्तमम्॥84||
सिषेवे च तदा वायू रामकार्यर्थ सिद्धये।
ऋषयः तुष्टुवुश्चैनं प्लवमानं विहायसा ॥85||
जगुश्च देव गंधर्वाः प्रशंसंतो महोजसम् ।

स॥तदा रामकार्यार्थं प्लवंतं तं वानरोत्तमं सूर्यः न तताप वायुः च शिषेवे ॥ विहायसा प्लवमानं महौजसं ऋषयः एनं तुष्टुवुः च देव गंधर्वाः प्रशंसंतो जगुः च॥

The Vanara coursing through the skies to achieve the purpose of Rama , is not troubled by the Sun's heat and even the wind served his purpose. The flying Hanuman was extolled by sages and the delighted Devas and Gandharvas praised him and sang too.

नागाश्च तुष्टुवु र्यक्षा रक्षांसि विबुधाः खगाः॥86||
प्रेक्ष्य सर्वे कपिवरं सहसा विगत क्लमम्।
तस्मिन् प्लवग शार्दूले प्लवमाने हनूमति॥87||
इक्ष्वाकुकुल मानार्थी चिन्तयामास सागरः।

स॥ विगतक्लमम् कपिवरम् प्रेक्ष्य सहसा सर्वे नागाः यक्षाः रक्षांसि विबुधाः खगाः च तुष्टुवुः॥प्लवगशार्दूले तस्मिन् हनूमति प्लवमाने सागरः इक्ष्वाकुकुलमानार्थी चिन्तयामास॥

Seeing the untiring Hanuman the all the Nagas Yakshas, Rakshasas , learned ones, as well as all other birds praised him. While the tiger among Vanaras was flying across the ocean , the ocean who wishes well for the Ikshavakus started thinking.

साहाय्यं वानरेंद्रस्य यदि नाहं हनूमतः॥88||
करिष्यामि भविष्यामि सर्व वाच्यो विवक्षताम्।
अहमिक्ष्वाकु नाथेन सगरेण विवर्थितः॥89||
इक्ष्वाकु सचिवश्चायं नावसीदितु मर्हति ।
तथा मया विधातव्यं विश्रमेत यथा कपिः॥90||
शेषं च मयि विश्रांत स्सुखेनाति पतिष्यति ।

स॥ यदि अहं वानरेन्द्रस्य हनूमतः सहाय्यं न करिष्यामि (तदि) विवक्षताम् सर्ववाच्यः भविष्यामि॥अहं इक्ष्वाकुनाथेन सगरेण विवर्धितः । अयं इक्ष्वाकु सचिवः च अवसीदितुं न अर्हति॥यथा कपिः विश्रमेत तथा मया विधातव्यम्। मयि विश्रान्तः सुखेन अतिपतिष्यति॥

If I do not help the leader of the Vanaras , all the wise ones will for ever blame me. I have been brought up by the Sagara being the minister of Sagara it is my duty to help him. I should help so that he can get rest. Resting on me he will leap over easily.

इति कृत्वा मतिं साध्वीं समुद्रश्चन्नमंभसि ॥91||
हिरण्य नाभं मैनाकं उवाच गिरिसत्तमम् ।
त्वमिहासुरसंघानां पाताळतलवासिनाम् ॥92||
देवराज्ञा गिरिश्रेष्ठ परिघस्सन्निवेशितः ।

स॥ समुद्रः इति साध्वीं मतिं कृत्वा अंभसि च्छन्नं हिरण्यनाभं गिरिसत्तमम् मैनाकं उवाच॥गिरिश्रेष्ठ त्वं इह पातालतलवासिनां असुर संघानाम् परिघः इव देवराज्ञा सन्निवेशितः॥

The Sagara having made up his mind , spoke to the best of mountains hidden in the waters. ' Oh Best of mountains ! You are here as a barrier for the legions of Asura groups who are the residents of the nether world.'

त्व मेषां जात वीर्याणां पुनरेवोत्पतिष्यताम् ॥93||
पाताळ स्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ।
तिर्यग् ऊर्ध्वं अधश्चैव शक्तिः ते शैलवर्थितुम्॥94||
तस्मात् संचोदयामि त्वां उत्तिष्ठ गिरिसत्तम।

स॥जात वीर्याणां एषाम् पुनरेव उत्पतिष्यतां त्वं अप्रमेयस्य पातालस्य द्वारं आवृत्य तिष्ठसि॥शैल ते तिर्यक् ऊर्ध्वं अधश्चैव वर्धितुं शक्तिः (अस्ति) । तस्मात् गिरिसत्तम त्वां संचोदयामि उत्तिष्ठ ॥

' You are staying at the entrance preventing these immesurable demons from coming up again. Oh Mountain you have the power to grow upwards or downwards or across. Hence Oh best of mountains !, I am asking you to rise'.

स एष कपिशार्दूलः त्वामुपर्येति वीर्यवान् ॥95||
हनुमान् रामकार्यार्थं भीमकर्मा खमाप्लुतः।
अस्य साह्यं मया कार्यं इक्ष्वाकुकुलवर्तिनः॥96||
मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ।

स॥ कपिशार्दूलः वीर्यवान् भीमकर्मा स एषः हनुमान् रामकार्यार्थं त्वां उपरि एति खम् आप्लुतः ॥इक्ष्वाकुकुलवर्तिनः अस्य साह्यं मया कार्यं । इक्ष्वाकवः ममपूज्याः हि । तव पूज्यतमाः॥

' This Hanuman , a mighty Vanara, tiger among Vanaras , performer of dreadful actions, is flying over you in the skies for accomplishing Rams's tasks. Helping this one who serves the Ikshvaku line is my duty. The Ikshvakus are worthy of adoration. To you also ( they are ) most adorable'.

कुरुसाचिव्य मस्माकं न नः कार्य मतिक्रमेत् ॥97||
कर्तव्यं अकृतं कार्यं सतां मन्युमुदीरयेत् ।
सलिलात् ऊर्ध्वं उत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ॥98||
अस्माकं अतिथिश्चैव पूज्यश्च प्लवतां वरः।

स॥ अस्माकं साचिव्यं कुरु । नः कार्यं कर्तव्यं न अतिक्रमेत्। अकृतं कार्यं सताम् मन्युम् उदीरयेत्॥सलिलात् ऊर्ध्वं उत्तिष्ठ । अस्माकम् अतिथिश्चैव प्लवताम् वरः पूज्यश्च। एषः कपिः त्वयि तिष्ठन्तु॥

' Help their cause as a minister. Our duty to do worthy action shall not be lost. An unfinished task will make good people to lose their cool. Come up from the waters. This best of fliers is our guest and worthy of worship. This Vanara may rest on you'.

चामीकर महानाभ देव गंधर्व सेवित॥99||
हनुमांस्त्वयि विश्रांतः ततः शेषं गमिष्यति ।
स एष कपिशार्दूल स्त्वामुपर्येति वीर्यवान् ॥
काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम्॥100||
श्रमं च प्लवगेंद्रस्य समीक्षोत्थातुमर्हसि ।

स॥ चामीकर महानाभ (त्वं) देवगन्धर्व सेवितः । हनुमान् त्वयि विश्रान्तः ततः शेषं गमिष्यति॥काकुत्स्थस्य अनृशंस्यं च मैथिल्याः विवासनं च प्लवगेन्द्रस्य श्रमं च समीक्ष्य उत्थातुं अर्हसि॥

' Oh Golden peaked one ! You having been visited upon by Devas and Gandharvas. Hanuman may rest on you and then proceed to cover the rest (of the ocean). Considering the noble nature of Ikshvakus, the kidnapping of Mithila's daughter, Hanuman's efforts, you ought to rise up'.

हिरण्यनाभो मैनाको निशम्य लवणांभसः ॥101||
उत्पपात जलात्तूर्णं महाद्रुम लता युतः।
ससागरजलं भित्वा बभूवाभ्युत्थितः तदा ॥102||
यथा जलधरं भित्वा दीप्तरश्मिर्दिवाकरः ।

स॥ हिरण्यनाभः महाद्रुमलतायुतः लवणांभसः मैनाकः (एतत्) निशम्य जलात् तूर्णम् उत्पपात॥तदा सः सागर जलं भित्वा यथा दीप्तरश्मिः दिवाकरः जलधरं भित्वा (इव) अभ्युद्धितः बभूव॥

The golden peaked mountain, full of great trees, hidden in the salty waters, having heard this immediately came up from the waters. Then the mountain rose up from the waters like the Sun comes up through water laden clouds.

स महात्म मुहूर्तेन पर्वतः सलिलावृतः ॥103||
दर्शयामास शृंगाणि सागरेण नियोजितः ।
आदित्योदिय संकाशैरालिखिद्भिरिवांबरम्।
शातकुंभमयैः शृंगैः सकिन्नरमहोरगैः ॥104||

स॥ मुहूर्तेन सागरेण नियोजितः सलिलावृतः सः महात्म पर्वतः शृंगाणि दर्शयामास॥सः किन्नरमहोरगैः अदित्योदय संकाशैः शातकुंभमयैः शृंगैः अम्बरं आलिखद्भिः (दर्शयामास)॥

Deployed in the waters in a moment, Hanuman the great soul saw the mountain peaks. He saw the mountain wth Nagas and Kinnaras, with golden peaks which are as if scraping the sky, resembling the rising Sun,

तप्तजांबूनदैः शृंगैः पर्वतस्य समुत्थितैः ॥105||
आकाशं शस्त्र संकाशं अभवत्कांचनप्रभम्।
जातरूपमयै श्शृंगैर्भ्राजमानैः स्वयं प्रभैः ॥106||
आदित्य शत संकाश स्सोsभवत् गिरिसत्तमः।

स॥ पर्वतस्य समुत्थितैः शृंगैः तप्तजाम्बूनदैः आकाशम् शस्त्र संकाशं कांचन प्रभं अभवत्॥ स्वयंप्रभैः भ्राजमानैः जातरूपमयैः शृंगैः सः गिरिसत्तमः शत आदित्य संकाशः अभवत्॥

With the mountains peaks of burnished gold the sky assumed the burnished gold color of weapons. The self effulgent glittering golden peaks , that best of mountains shone like thousand Suns.

तमुत्थित मसंगेन हनुमानग्रतस्थितम् ॥107||
मध्ये लवणतोयस्य विघ्नोयमिति निश्चितः।
स तमुच्छ्रित मत्यर्थं महावेगो महाकपिः ॥108||
उरसा पातयामास जीमूत मिव मारुतः

स॥ लवणतोयस्य मध्ये असंगेण उत्थितं अग्रः स्थितं तं अयं विघ्नः इति निश्चितः ( ततः किंकुर्वन्?)॥सः कपिः महावेगः अत्यर्थम् उच्छ्रितं तं उरसा मारुतः जीमूतमिव पातयामास॥

Hanuman thought that the one standing in front of him which rose up from the water of the sea , surely as an obstruction. The speedy Vanara, pushed that instantly risen up one wth his chest like wind pushes the clouds away.

स तथा पातितः तेन कपिना पर्वतोत्तमः॥109||
बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननंद च ।
त माकाशगतं वीरं आकाशे समुपस्थितः ॥110||
प्रीतो हृष्ठमना वाक्यं अब्रवीत् पर्वतः कपिम्।
मानुषं धारयन् रूपं आत्मनः शिखरे स्थितः॥111||

स॥तेन कपिना तथा पातितः स पर्वतोत्तमः तस्य कपेः वेगं बुद्ध्वा जहर्ष च ननंद च॥पर्वतः प्रीतः हृष्टमानः मानुषं रूपं धारयन् आत्मनः शिखरे समुपस्थितः आकाशे आकाशगतं तं वीरं कपिंवाक्यं अब्रवीत्॥

Thus pushed down by the Vanara , the best of mountains having realised the Vanaras speed, felt happy and roared too. The mountain , delighted, happily assuming the form of a human, standing on his peaks, spoke to the mighty Vanara flying in the sky.

दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तमः।
निपत्य मम शृंगेषु विश्रमस्व यथासुखं॥112||
राघवस्य कुले जाते रुदधिः परिवर्तितः ।
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥113||

स॥ वानरोत्तमं त्वं दुष्करं कर्म कृतवान् । ममशृंगेषु निपत्य विश्रमस्व यथासुखम्॥ उदधिः राघवस्य कुले जातैः परिवर्थितः । सः सागरः रामहिते युक्तं त्वां प्रत्ययर्चति॥

'Oh Best of Vanaras ! You are doing an very difficlt task. Rest among my peaks and go as you please. This ocean is grown by those born in Raghava's line. That Sagara wanting to act in the interests of Rama wants to honor you in turn'.

कृते च प्रतिकर्तव्यं एष धर्मः सनातनः।
सोsयं त्वत्प्रतीकारार्थी त्वत्तस्सम्मान मर्हति ॥114||
त्वन्निमित्तमनेनाहं बहुमानात् प्रचोदितः।
तिष्ठत्वं कपिशार्दूल मयि विश्रम्य गम्यताम्॥115||

स॥ कृते प्रति कर्तव्यं(इति) एषः सनातनः धर्मः। तत् प्रतिकारार्थी सः ( सागरः) अयं त्वत्तः सम्मानं अर्हति॥ अनेन ( सागरेण) त्वत् निमित्तं बहुमानात् अहं प्रचोदितः । कपिशार्दूल त्वं तिष्ठ । मयि (शृंगेषु) विश्रम्य गम्यताम्॥

' That help rendered is to be repaid is an age old custom. To perform that service in return, the Sagara wants to honor you. For your benifit I have been prompted ( by Sagara). Oh tiger among Vanaras ! Please stay. Resting on my peaks you may go'.

योजनानां शतं चापि कपिरेष समाप्लुतः ।
तव सानुषु विश्रांतः शेषं प्रक्रमतां इति॥116||
तदिदं गंधवत् स्वादु कंदमूलफलम् बहु।
तदास्वाद्य हरिश्रेष्ठ विश्रांतोsनुगमिष्यसि ॥117||

स॥ शतं योजनानां समाप्लुतः एष कपिः तव सानुषु विश्रान्तः प्रक्रमताम् इति (सागरेण प्रचोदितः)॥हरिश्रेष्ठ तत् इदं गंधवत् स्वादु बहु कंदमूलं आसाद्य विश्रान्तः अनुगमिष्यसि ॥

The Sagara prompted me thinking ' leaping over Hundred Yojanas this Vanara may then proceed after resting in your peaks. Oh best of Vanaras, tasting these sweet smelling fruits and roots and resting you may proceed."

अस्माकमपि संबंधः कपिमुख्य त्वयाsस्तिवै ।
प्रख्यातः त्रिषु लोकेषु महागुण परिग्रहः ॥118||
वेगवंतः प्लवंतो ये प्लवगामारुतात्मजः।
तेषां मुख्यतमः मन्ये त्वामहं कपिकुंजर॥119||

स॥ कपिमुख्य त्रिषु लोकेषु प्रख्यातः महागुणपरिग्रहः संबंधः त्वया अस्माकमपि अस्तिवै॥मारुतात्मज कपिकुंजरः वेगवन्तः प्लवन्तः ये प्लवगाः तेषाम् मुख्यतमं त्वाम् अहं मन्ये॥

' Oh chief of Vanaras ! For us also there is a kinship based on merits which is well known in the three worlds. Oh Son of wind god ! Elephant among Vanaras , I consider you as the foremost among those who fly very fast'.

अतिथिः किल पूजार्हः प्राकृतोsपि विजानत।
धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥120||
त्वं हि देव वरिष्ठस्य मारुतस्य महात्मनः।
पुत्रः तस्यैव वेगेन सदृशः कपिकुंजरः॥121||

स॥ धर्मं जिज्ञासमानेन विजानता प्राकृतः अपि अतिथिः पूजार्हः । त्वादृशः महान् किं पुनः किल॥ कपिकुंजर त्वं देववरिष्ठस्य महात्मनः । मारुतस्य पुत्रः हि । वेगेन तस्यैव सादृशः॥

' By the wise men who desire to know righteousness, a guest even if he is an ordinary person, is worthy of worship. That being so what to say of great ones. Oh Elephant among Vanaras ! You are preeminent among divine beings. You are son of wind-god. In speed you are equal to him.

पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः।
तस्मात् त्वं पूजनीयो मे शृणुचाप्यत्र कारणम्॥122||
पूर्वं कृत युगे तात पर्वताः पक्षिणोsभवन्।
ते हि जग्मुर्दिशस्सर्वा गरुडानिल वेगिनः॥123||

स॥धर्मज्ञ त्वयि पूजिते मारुतः पूजां प्राप्नोति । तस्मात् त्वं अपि मे पूजनीयः । अत्रकारणं च शृणु॥तात ! पूर्वं कृतयुगे पर्वताः पक्षिणः अभवन् । ते गरुडानिलवेगः सर्वाः दिशाः जग्मुः॥

'Oh Knower of righteousness! if you are worshipped , the wind god receives the veneration. So you are also worthy of worship for me. Let me tell you the reason. Dear son ! Long time ago in Krita Yuga the mountains were having wings. They were moving the speed of Garuda in all directions'.

ततस्तेषु प्रयातेषु देवसंघास्सहर्षिभिः ।
भूतानि च भयं जग्मुः तेषां पतनशंकया ॥124||
ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः।
पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशः॥125||

स॥ततः तेषु प्रयातेषु सहर्षिभिः देव संघाः भूतानि च तेषां पतन शंकया भयं जग्मुः॥ ततः क्रुद्धः शतक्रतुः सहस्राक्षः तत्र तत्र सहश्रसः पर्वतानां पक्षान् चिच्छेद॥

' Then as they went about the legions of gods along with venerable sages and other beings panicked for fear of their falling down. Then the angry thousand eyed one who performed hundred sacrifices, cut off the wings of the mountains'.

समामुपागतः क्रुद्धो वज्रमुद्यम देवराट्।
ततोsहं सहसा क्षिप्त श्वसनेन महात्मना॥126||
अस्मिन् लवणतोये च प्रक्षिप्तः प्लवगोत्तमः।
गुप्तपक्ष समग्रश्च तवपित्राsभि रक्षितः॥127||

स॥ सः देवराट् क्रुद्धः वज्रं उद्यम्य माम् उपागतः। ततः अहं महात्मना श्वसनेन सहसा क्षिप्तः॥ प्लवगोत्तम गुप्तपक्षसमग्रश्च अस्मिन् लवणतोये प्रक्षिप्तः तवपित्रा अभिरक्षितः॥

'The angry king of Devas, holding the Vajra approached me. Then I have been dropped down by the great wind god. Oh best of Vanaras! Thrown down by your father I have been protected with my wings intact'.

ततोsहं मानयामि त्वां मान्योहि मम मारुतः ।
त्वया मे ह्येष संबंधः कपिमुख्य महागुणः॥128||
अस्मिन्नेवं गते कार्ये सागरस्य ममैव च।
प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे ॥129||
श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ।
प्रीतिं च बहु मन्यस्व प्रीतोsस्मि तव दर्शनात् ॥131||

स॥ कपिमुख्य ततः मारुतः मम मान्यः हि । ततः अहं मानयामि । मे त्वया संबंधः महागुणः ॥ महाकपिः अस्मिन् कार्ये एवं गते त्वं प्रीतमनाः सागरस्यच ममैव च प्रीतिं कर्तुं अर्हसि॥कपिसत्तम श्रमं मोक्ष्य पूजां च गृहाण प्रीतिं बहुमन्यस्व। तव दर्शनात् प्रीतः अस्मि॥

'Oh chief of Vanaras ! So the wind god is worthy of worship for me. So I am worshipping you. My relationship with you is great. Oh great Vanara ! Being deployed in this action, you deserve to please us, the Sagara and myself. Oh best of Vanaras ! Relieving your fatigue, receiving our worship accepting our love, you may oblige us. I am delighted in seeing you'

एवमुक्तः कपिश्रेष्ठः तं नगोत्तमम् अब्रवीत् ।
प्रीतोsस्मि कृतामातिथ्यं मन्युरेषोsपनीयताम्॥131||

स॥ एवं उक्तः कपिश्रेष्ठः तं नगोत्तमं अब्रवीत् । प्रीतः अस्मि। आतिथ्यं कृतं। एषः मन्युः अपनीयताम्॥

Having been told thus by Vanara, the best of Vanaras then spoke. 'I am delighted. Take it as though your hospitality has been accepted. Remove your unhappiness'.

त्वरते कार्यकालोमे अहश्चाप्यतिवर्तते ।
प्रतिज्ञा च मयादत्ता न स्थातव्य मिहांतरे ॥132||
इत्युक्त्वा पाणिना शैलं आलभ्य हरिपुंगवः।
जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥133||

स॥ मे कार्यकालः त्वरते । अहः च अतिवर्तते । अन्तरे इह न स्थातव्यं (इति) मया प्रतिज्ञा दत्ताच॥वीर्यवान् हरिपुंगवः इति उक्त्वा शैलं पाणीना आलभ्य आकाशम् आविश्य प्रहसन्निव जगाम॥

My time limit is approaching. The day is also coming to its end. Taken a vow not to stop in the middle. The mighty Hanuman having said this touching the mountain with his hand, entering the sky moved on with a smile .

स पर्वत समुद्राभ्यां बहुमानादवेक्षितः ।
पूजितश्चोपपनाभि राशीर्भि रविनिलात्मजः ॥134||
अथोर्थ्वं दूरमुत्प्लुत्य हित्वा शैलमहार्णवौ ।
पितुः पंथान मास्थाय जगाम विमलेंबरे॥135||

स॥ सः अनिलात्मजः पर्वत समुद्राभ्यां बहुमानात् आवेक्षितः उपपन्नाभिः आशीर्भिः पूजितः च॥अथ शैलमहार्णवौ हित्वा ( हनूमतः) ऊर्ध्वं दूरं उत्प्लुत्य विमले अम्बरे पितुः पन्थानं अस्थाय जगाम॥

The son of wind god was adored by the mountain , and was honored with proper blessings. Then leaving the mountain and the great ocean , Hanuman jumped up into the clear sky taking the path of his father, and flew away.

भूयश्चोर्ध्वगतिं प्राप्य गिरिं तं अवलोकयन् ।
वायुसूनुनिरालंबे जगाम विमलेंबरे॥136||
तद्वितीयं हनुमतो दृष्ट्वा कर्मसुदुष्करम्।
प्रशशंसु स्सुरास्सर्वे सिद्धाश्च परमर्षयः॥137||

स॥ वायुसूनुः भूयश्च ऊर्ध्वं गतिं प्राप्य तं गिरिं अवलोकयन् निरालम्बे विमलए अम्बरे जगाम॥हनुमतः तत् द्वितीयं सुदुष्करं कर्म दृष्ट्वा सर्वे सुराः सिद्धाश्च परमर्षयः प्रशंसुः॥

The son of wind god again attaining higher path , looking at the mountain went in to the sky without any support. Seeing the accomplishment of the second such difficult to perform task being performed by Hanuman , the Suras , Siddhas and the venerable sages praised him.

देवताश्चाभवन् हृष्टाः तत्रस्थास्तस्य कर्मणा।
कांचनस्य सुनाभस्य सहस्राक्षश्च वासवः॥138||
उवाच वचनं धीमान् परितोषात् सगद्गदम्।
सुनाभं पर्वत श्रेष्ठं स्वयमेव शचीपतिः ॥139||

स॥ तत्रस्थाः देवताश्च सहस्राक्षः वासवस्च कांचनस्य तस्य सुनाभस्य कर्मणा हृष्ठाः अभवन् ॥धीमान् शचीपतिः पर्वतश्रेष्ठं सुनाभं परितोषात् सगद्गदम् स्वयमेव वचनम् उवाच॥

The Devas who were present there as well as the thousand eyed Vasava too were delighted by the gesture of the golden Mainaka mountain. Indra, the wise husband of Sachi satisfied spoke to Sunabha, the best of mountains , with a choked voice of happiness.

हिरण्यनाभ! शैलेंद्र! परितुष्टोsस्मि ते भृशम्।
अभयं ते प्रयच्छामि तिष्ठ सौम्य यथा सुखम्॥140||
साह्यं कृतं ते सुमहद्विक्रांतस्य हनूमतः।
क्रमतो योजनशतं निर्भयस्य भये सति॥141||

स॥ हिरण्यनाभ शैलेंद्र ते भृशम् परितुष्ठः अस्मि । सौम्य ते अभयं प्रयच्छामि। यथासुखं तिष्ठ॥शतयोजनम् क्रमतः भये सति निर्भयस्य विक्रान्तस्य ते हनुमतः सुमहत् साह्यं कृतं॥

'Oh Hiranyanabha ! the best of mountains, I am very happy with you. Oh Pious one! I am giving you my protection. You rest as you please. While leaping a hundred Yojanas , though there is reason to fear, the fearless Hanuman is unafraid and great deed was done'.

रामस्यैष हि दूत्येन याति दाशरथेर्हरिः ।
सत् क्रियां कुर्वता तस्य तोषितोsस्मि दृढं त्वया॥142||
ततः प्रहर्षमगम द्विपुलं पर्वतोत्तमः ।
देवतानां पतिं दृष्ट्वा परितुष्ठं शतक्रतुम्॥143||
सवै दत्तवरशैलो बभूवास्थितः तदा ।
हनुमांश्च मुहुर्तेन व्यतिचक्राम सागरम्॥144||

स॥ एष हरिः दाशरथेः रामस्य पितायैव याति तस्यत्वया कुर्वता सत् क्रियाम् दृढः तोषितः अस्मि॥ततः पर्वतोत्तमः देवतानां पतिं शतक्रतुं परितुष्ठं दृष्ट्वा विपुलं प्रहर्षं आगमत्॥तदा दत्तवरः सः शैलः अवस्थितः बभूव। हनुमांश्च मुहूर्तेन सागरं व्यतिचक्राम॥

'This Vanara is working for Rama's well being only. I am very happy with the service offered to him'. Then the best of mountains seeing the happiness of the king of Devas, Indra experienced a delight. Then the Mountain having been given a boon became stable. Hanuman also moved on across the ocean.

ततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः।
अब्रुवन् सूर्यसंकाशां सुरसां नागमातरम्॥145||
अयं वातात्मज श्श्रीमान् प्लवते सागरोपरि।
हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर॥146||

स॥ ततः देवाः गंधर्वाः सह सिद्धाः परमर्ष्ययः च सूर्यसंकाशं नागमातरं सुरसां अब्रुवन् ॥अयं श्रीमान् हनुमान् नाम वातात्मजः सागरोपरि प्लवते । तस्य त्वं मुहूर्तं विघ्नं आचर ॥

Then the Devas, Gandharvas along woth Siddhas and great ascetics spoke to Surasa the mother of serpents who is shining like the Sun. ' This illustrious son of wind god, named Hanuman is flying acorss the ocean. You provide him an obstruction for a moment'.

राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम्।
दंष्ट्रा कराळं पिंगाक्षं वक्त्रं कृत्वा नभस्समम्॥147||
बलमिच्चामहे ज्ञातुं भूयश्चास्य पराक्रमम्।
त्वां विजेष्यत् उपायेन विषादं वा गमिष्यति ॥148||

स॥ सुघोरं पर्वत उपमम् राक्षस रूपं आस्थाय दंष्त्राकराळं पिंगाक्षं वक्त्रं नभः समं कृत्वा ( विघ्नं आचर) ॥ अस्य बलं भूयः पराक्रमः च ज्ञातुं इच्छामहे । उपायेन त्वां विजेष्यति वा विषादं गमिष्यति (ज्ञातुं इच्छामहे)॥

' Assume a hideous form of a demon, gigantic like a mountain , with big teeth, yellow brown eyes, with opening mouth like a sky. We want to know again his strength and prowess. Whether he will win with intelligence or faces sorrow'.

एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।
समुद्र मध्ये सुरसा भिभ्रती राक्षसं वपुः॥149||
विकृतं च विरूपं च सर्वस्य च भयावहम्।
प्लवमानं हनूमंतं आवृत्येदमुवाचह॥150||

स॥ एवं दैवतैः अभिसत्कृता उक्ता तु सा देवी समुद्र मध्ये राक्षसं वपुः भिभ्रती ॥ (तदा) प्लवमानं हनूमंतं आवृत्य (तत्) सर्वस्य च भयावहं विकृतं च विरूपं इदं आह॥

Thus having been told by Devas and receving their honors , that lady demon presented herself in the middle of the ocean. Then the ugly and terriyfing form surrounding Hanuman who was flying and said the following.

ममभक्षः प्रदिष्टस्त्वं ईश्वरैर्वानरर्षभ ।
अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम्॥151||
एवमुक्तः सुरसया प्रांजलिर्वानरर्षभ।
प्रहृष्टवदनः श्रीमान् इदं वचनमब्रवीत् ॥152||

स॥ (हे) वानरर्षभ ईश्वरैः त्वं ममभक्षः प्रदिष्टः । अहं त्वां भक्षयिष्यामि । इदं मम आननम् प्रविश ॥ सुरसया एवं उक्तः वानरर्षभः प्रहृष्टवदनः प्रांजलिः श्रीमान् इदं वचनं अब्रवीत्॥

Oh Bull among Vanaras ! The Lord has sent you as my food. I will eat you. Enter my mouth. Having been told by thus by Surasa , with a happy and willing countenance the illustrious one said the following words.

रामोदाशरथिर्नाम प्रविष्टो दंडकावनम्।
लक्ष्मणेन सह भ्राता वैदेह्याचापि भार्यया॥153||
अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।
तस्य सीता हृता भार्या रावणेन यशस्विनी॥154||

स॥ रामः नाम दाशरथिः भ्राता लक्ष्मणेन सह भार्यया वैदेह्या चापि दंडकावनम् प्रविष्ठः ॥राक्षसैः बद्धवैरस्य तस्य अन्यकार्यविषक्तस्य भार्या यशस्विनी सीता रावणेन अपहृता॥

'The son of Dasaratha by name Rama, along with his brother Lakshmana and his wife Sita entered the Dandaka forest. While Rama was engaged other wise by Rakshasas with deep rooted enemity, his wife Sita , a glorious lady has been abducted by Ravana'.

तस्याः सकासं दूतोsहं गमिष्ये राम शासनात् ।
कर्तुमर्हसि रामस्य साह्यं विषयवासिनि॥155||
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्ठकारिणम्।
आगमिष्यामि ते वक्त्रं सत्यं प्रतिश्रुणोमि ते॥156||

स॥ अहं तस्याः दूतः सकाशम् रामशासनात् गमिष्ये । (हे) विषयवासिनि रामस्य साह्यं कर्तुं अर्हसि॥अथवा मैथिलीं अक्लिष्टकारिणं रामं च दृष्ट्वा ते वक्त्रं आगमिष्यामि । सत्यं ते प्रतिश्रुणोमि ॥

' I am his messenger going on his command. Oh Resident of his kingdom ! It is proper for you to help Rama. Or else after seeing Mythili and Rama who makes difficult things look easy I will come back to your mouth. I am telling you the truth'.

एवमुक्ता हनुमता सुरसा कामरूपिणी।
अब्रवीन्नातिवर्तेन्मां कश्चिदेषवरो मम॥157||
तं प्रयांतं समुद्वीक्ष्य सुरसा वाक्य मब्रवीत्।
बलं जिज्ञासमाना वै नागमाता हनूमतः॥157-1||

स॥ हनुमता एवं उक्ता कामरूपिणि सुरसा अब्रवीत् कश्चित् नातिवर्तेत एषः मम वरः ॥नागमाता सुरसा हनूमतः बलं जिज्ञासमाना वै नागमाता सुरसा प्रयान्तं तं समुद्वीक्ष्य (इदम्) वाक्यं अब्रवीत् ॥

Having been told thus by Hanuman, Surasa said none can cross me. That is my boon. The mother of serpents Surasa desirous of knowing Hanuman's strength , addressed these words to Hanuman who was attempting to go away.

प्रविश्य वदनं मेsद्य गंतव्यम् वानरोत्तम।
वर एषा पुरा दत्तो ममधात्रेति सत्वरा॥157-2||
व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः।
एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः॥157-3||

स॥ वानरोत्तम अद्य मे वदनं सत्वरा प्रविश्य गंतव्यम् । एषः वरः पुरा मे धात्रे दत्तः इति॥सा विपुलं वक्त्रं व्यादाय मारुतेः पुरः स्थितः। सुरसया एवं उक्तः वानरः क्रुद्धः (अभवत्)॥

'Oh Best of Vanaras today enter my mouth quickly and then you may go. Such is my boon given to me by Brahma , the creator'. She opened her mouth wide and stood in front of Maruti. Having been told thus by Surasa the Vanara became angry.

अब्रवीत्कुरुवै वक्त्रं येन मां विषहिष्यसे।
इत्युक्त्वा सुरसा क्रुद्धा दशयोजनमायता ॥157-4||
दशयोजनविस्तारो बभूव हनुमांस्तदा ।
तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम्॥157-5||
चकार सुरसा चास्यं विंशद्योजन मायतम्।

स॥ (सः वानरः) वै वक्त्रं येन माम् विषहिष्यसे (तत्) कुरु (इति) अब्रवीत्॥ इति उक्त्वा क्रुद्धा हनुमान् दशयोजनम् आयता दशयोजन विस्तारः बभूव ॥ मेघसंकाशं दशयोजनमायतं तं दृष्ट्वा सुरसा च आस्यं विंशद्योजनं आयतम् चकार ॥

The Vanara said open the mouth that which can bear me . So saying, the angry Hanuman grew ten Yojanas wide and ten Yojanas long. Seeing the ten Yojanas wide Hanuman looking like a cloud, Surasa too stretched her mouth wide by twenty Yojanas.

हनुमांस्तु तदा क्रुद्धः त्रिंशद्योजन मायतः॥157-6||
चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ।
बभूव हनुमान्वीरः पंचाशद्योजनोच्छ्रितः॥157-7||
चकार सुरसा वक्त्रं षष्टियोजन मायतम्।
तथैव हनुमान्वीरः सप्तती योजनोच्छ्रितः॥157-8||
चकार सुरसा वक्त्रं अशीती योजनायतम् ।
हनुमान् अचलप्रख्यो नवती योजनोच्छ्रितः ॥157-9||
चकार सुरसा वक्त्रं शतयोजन मायतम्।

स॥ ततः हनुमांस्तु ( हनुमान् अपि) क्रुद्धः त्रिंशद्योजनं आयतः(अभवत्)। सुरसा तथावक्त्रं चत्वारिंशं उच्छ्रितम् चकार॥हनुमान् वीरः पंचासद्योजन उच्छ्रितः बभूव । (तदा) सुरसा वक्त्रं षष्टियोजनं आयतं चकार॥तथैव वीरः हनुमान् तथैव सप्तती योजनम् उच्छ्रितः। सुरसा वक्त्रं अशीती योजनं आयतम्॥अचलप्रख्यो हनुमान् नवती योजनं उछ्छ्रितः। (तदा) सुरसा वक्त्रं शतयोजनं आयतम्॥

The Hanuman also being angry stretched his body to thirty Yojanas. Surasa then stretched her mouth to forty Yojanas. Then the hero Hanuman became fifty Yojana high. Then Surasa became sixty Yojanas wide. In the same way Hanuman grew to seventy Yojanas. Surasa became eighty Yojana wide. Then Hanuman grew to ninety Yojanas like a mountain. Then Surasa's mouth became hundred Yojanas wide.

तं दृष्ट्वा व्यादितं त्वास्यं वायुपुत्त्रः सुबुद्धिमान्॥157-10||
दीर्घजिह्वं सुरसया सुघोरं नरकोपमम्।
सुसंक्षिप्यात्मनः कायं बभूवांगुष्टमात्रकः॥158||
सोsभिपत्याशु तद्वक्त्रं निष्पत्य च महाबलः।
अंतरिक्षे स्थितः श्रीमान् इदं वचनमब्रवीत् ॥159||

स॥ सुबुद्धिमान् वायुपुत्त्रः सुरसया व्यादितं दीर्घजिह्वं सुघोरं तं आस्यं दृष्ट्वा आत्मनः कायं अंगुष्टमात्रकः बभूव ॥श्रीमान् महाबलः सः आशु तद्वक्रं अभिपत्य निपत्य च अन्तरिक्षे स्थितः इदं वचनम् अब्रवीत्॥

The very intelligent Hanuman seeing the terrifying mouth with long tongue thus opened , made himself to be of the size of a thumb. The illustrious and mighty Hanuman quickly entered her mouth and came out. Standing in the sky said the following words.

प्रविष्टोsस्मि हि ते वक्त्रं दाक्षायनी नमोस्तुते।
गमिष्ये यत्र वैदेही सत्यं चासीद्वरस्तव ॥160||
तं दृष्ट्वा वदानान्मुक्तं चंद्रं राहुमुखादिव।
अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम्॥161||

स॥ दाक्षायणि ते वक्त्रं प्रविष्टः अस्मि हि । ते वरः सत्यं आसीत् । ते नमः अस्तु । (अहं) यत्रवैदेही (तत्र) गमिष्ये॥राहुमुखात् चंद्रं इव वदनात् मुक्तं तं वानरं दृष्ट्वा सुरसा देवी स्वेन रूपेण अब्रवीत्॥

' Dakshyanai ! I have entered your mouth. You boon has come true. Salutations to you. I will go where Vaidehi is' . Seeing the Vanara like Moon released from the mouth of Rahu, Surasa assuming her owm form said the following.

अर्थसिध्यै हरिश्रेष्ठ गच्छसौम्य यथासुखम्।
समानयस्व वैदेहीं राघवेण महात्मना ॥162||
ततृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्।
साधु साध्विति भूतानि प्रशशंसुः तदा हरिम् ॥163||

स॥ हरिश्रेष्ठ सौम्य यथासुखं अर्थ्यसिद्ध्यै गच्छ ।वैदेहीं राघवेण समानय॥तत् हनुमतः ( हनुमतस्य) तृतीयं सुदुष्करम् कर्म दृष्ट्वा तदा साधु साधु इति ( सर्वाणि) भूतानि हनुमतः प्रशशंसुः॥

"Oh The best of Vanaras ! Proceed to accomplish your task. Unite Vaidehi with Raghava". Seeing that accomplishment of a third task which is difficult to accomplish all creatures praised Hanuman and said 'very good, very good'

स सागर मनाधृष्य मभ्येत्य वरुणालयम्।
जगामाकाशमाविश्य वेगेन गरुडोपमः॥164||
सेविते वारिदाराभिः पतगैश्च निषेविते ।
चरिते कैशिकाचार्यैः इरावतनिषेविते॥165||

स॥ वेगेन गरुडोपमः सः अनाधृष्यम् वरुणालयं सागरं अभ्येत्य आकाशं आविश्य जगाम॥वारिदाराभिः सेविते पतगैश्च निषेविते कैशिकाचार्यैः चरिते इरावत निषेविते (वायुमार्गे हनुमान् जगाम)॥

Hanuman flying like Garuda speedily piercing through the invincible ocean , the abode of Varuna , went coursing through the sky. (Hanuman followed the path) frequented by the clouds that release torrents, inhabited by the birds, traversed by the masters of music and dance, attended by Iravata.

सिंहकुंजर शार्दूल पतगोरगवाहनैः।
विमानैः संपतद्भिश्च विमलैः समलंकृते॥166||
वज्राशनिसमहाघातैः पावकैरुपशोभिते ।
कृतपुण्यै र्महाभागैः स्वर्गजिद्भिरलंकृते॥167||

स॥ सिंहकुंजर शार्दूल पतग उरग वाहनैः संपत्भिः विमलैः समलंकृते विमानैः (चरिते मार्गे हनुमान् जगाम)॥वज्राशनिसमाघातैः पावकैः कृतपुण्यैः स्वर्गजिद्भिः महाभागैः उपशोभिते (चरिते मार्गे हनुमान् जगाम)॥ ॥

Frequented by the well decorated aerial vehicles drawn by lions, elephants, tigers, birds serpents, Frequented by the gods of fire who strike fiercely like a thunderbolt, those who have done meritorious deeds, those accomplished people who have conquered heaven, looking splendid,

वहता हव्य मतर्थं सेविते चित्रभानुना ।
ग्रहनक्षत्र चंद्रार्क तारागण विभूषिते॥168||
महर्षि गण गंधर्व नागयक्ष समाकुले
विविक्ते विमले विश्वे विश्वावसु निषेविते ॥169||

स॥ अत्यर्थं अलंकृते हव्यं वहता चित्रभानुना सेविते ग्रहनक्षत्र चन्द्रार्कतारागणविभूषिते ( आकाश मार्गे हनुमान् जगाम)॥महर्षि गण गन्धर्व नाग यक्ष समाकुले विविक्ते विमले विश्वे विश्वावसु निषेविते (मार्गे हनुमान् जगाम)

The path was frequented by the god of Fire carrying the Havis decorated spledidly , adorned with planets , stars, Moon and other constellations. Filled with groups of great Rishis, Gandharvas, Nagas, Yakshas , with isolated clear region inhabited by Viswavasu,

देवराज गजाक्रांते चंद्रसूर्य पथे शिवे।
विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ॥170||
बहुशस्सेविते वीरै र्विद्याधरगणैर्वरैः।
जगाम वायु मार्गेतु गरुत्मानिव मारुतः॥171||

स॥ देवराज गजाक्रान्ते चंद्रसूर्यपथे शिवे जीवलोकस्य ब्रह्म निर्मिते वितते विताने (मार्गे हनुमान् जगाम) ॥ वरैः वीरैः विद्याधरगणैः बहुशः सेविते वायुमार्गे मारुतिः गरुत्मानिव जगाम॥

It is the sporting ground of the elephant of king of Devas, the path of Sun and Moon, auspicious place of living beings created by Brahma, the extensive canopy covering the earth. Like Garuda Hanuman traversed that path traversed by the groups of Vidyadharas who are best of heroes.

प्रदृश्यमान सर्वत्र हनुमान् मारुतात्मजः।
भेजेsम्‍बरम् निरालंबं लंबपक्ष इवाद्रिराट्॥172||
प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी।
मनसा चिंतयामास प्रवृद्धा कामरूपिणी ॥173||

स॥ हनुमान् मारुतात्मजः सर्वत्र प्रदृश्यमानः निरालंबं लंबपक्षः अद्रिराट् इव भेजे॥ प्लवमानं तं दृष्ट्वा सिंहिका नामा राक्षसी प्रवृद्धा कामरूपिणी चिन्तयामास॥

Hanuman , the son of wind god, being seen every where in the sky, was looking like a mountain with wings flying unsupported in the sky. Seeing that Hanuman flying like that, a Rakshasi by name Simhika who can assume any form expanded in her size started thinking.

अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ।
इदं हि मे महत् सत्वं चिरस्य वशमागतम्॥174||
इति संचित्य मनसा छायमस्य समाक्षिपत् ।
छायायां गृह्यमाणायां चिंतयामास वानरः॥175||

स॥ चिरस्य इदं महत् सत्त्वम् मे वशम् आगतम् दीर्घस्य कालस्य अद्य अहम् आशिता भविष्यामि॥(सिंहिका) इति मनसा संचित्य अस्य (कपिस्य) छायाम् समाक्षिपत् । छायायाम् गृह्यमाणायाम् वानरः चिंतयामास॥

' After a long time this great being has come into my fold. Today I will be satiated' . (Simhika) having thought like this , pulled his shadow. Being held by the shadow the Vanara started thinking.

समाक्षिप्तोsस्मि सहसा पंगूकृत पराक्रमः।
प्रतिलोमेन वातेन महानौरिव सागरे॥176||
तिर्यगूर्ध्वमथश्चैव वीक्षमाणस्ततः कपिः।
ददर्श स महत् सत्त्वं उत्थितं लवणांभसि॥177||

स॥सागरे महानौरिव प्रतिलोमेन वातेन सहसा पंगूकृत मानः समाक्षिप्तः अस्मि॥ततः (हनुमान्) तिर्यक् ऊर्ध्वम् अथश्चैव वीक्षमाणः लवणांभसि उत्थितम् महत् सत्त्वं ददर्श॥

'Like the ship in the sea caught by the opposing wind, I have been caught and become powerless'. Then Hanuman looking up down, across saw the great creature risen up in the waters of the sea.

तदृष्ट्वा चिंतयामास मारुतिर्विकृताननः।
कपिराजेन कथितं सत्त्वमद्भुत दर्शनम्॥178||
छायाग्राही महावीर्यं तदिदं नात्र संशयः।
स तां बुद्वार्थतत्वेन सिंहिकां मतिमान्कपिः॥179||
व्यवर्थत महाकायः पावृषीव वलाहकः।

स॥मारुतिः तत् विकृताननम् दृष्ट्वा चिंतयामास । कपिराजेन कथितम् अद्भुतदर्शनं महावीर्यं छायाग्राही महावीर्यं तत् सत्त्वं इदं अत्र न संशयः न ॥मतिमान् स कपिः ताम् अर्थतत्त्वेन सिंहिकाम् बुद्ध्वा महाकायः प्रावृषि वलाहकः इव व्यवर्थत ॥

Maruti seeing that ugly faced one started thinking. This is no doubt the amazing to look at , powerful creature capable of capturing the shadow, as told by the King of Vanaras. The wise Hanuman recognizing the true nature of Simhika, grew like a cloud in a rainy season.

वक्त्रं प्रसारमायास पाताळांतर सन्निभम्।
घनराजीव गर्जंती वानरं समभिद्रवत्॥181||
स ददर्श ततस्तस्या विवृतं सुमहान्मुखम्।
कायमात्रं च मेधावी मर्माणि च महाकपिः॥182||

स॥ (सा सिंहिका) पाताळांतर सन्निभं वक्त्रं प्रसारयामास । घनराजीव गर्जन्ती वानरं समभिद्रवत् ॥ततः मेधावी महाकपिः तस्याः विवृतम् कायमात्रं सुमहत् मुखम् मर्माणि च सः ददर्श॥

That Simhika extended her mouth having the depth of underworld. Roaring like heavy clouds, she ran towards the Vanara. Then the great intelligent Vanara saw the enormous open mouth and body alone and vital parts too.

स तस्या विवृते वक्त्रे वज्रसंहननः कपिः।
संक्षिप्त्य मुहुरात्मानं निष्पपात महाबलः॥183||
अस्ये तस्या निमज्जंतं ददृशु सिद्धचारणाः।
ग्रस्यमानं यथा चंद्रं पूर्णं पर्वणि राहुणा॥184||

स॥ महाबलः वज्रसंहननः सः कपिः आत्मानम् मुहुः संक्षिप्त्य तस्याः विवृते वक्त्रे निष्पपात॥सिद्ध चारणाः तस्याः आस्ये निमज्जंतं पर्वणि राहुना ग्रस्यमानं पूर्णं चंद्र यथा ददृशु॥

The mighty Vanara with thunderbolt like physiques contracted himself and entered her open mouth. The Siddhas and Charanas saw him drowning in her mouth like the full moon on the on the full moon day being grabbed by Rahu.

ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः।
उत्पपाथ वेगेन मनः संपातविक्रमः॥185||
तां तु दृष्ट्या च धृत्याच दाक्षिण्येन निपात्य च।
स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान् ।186||

स॥ततः वानरः तीक्ष्णैः नखैः तस्याः मर्माणि उत्कृत्य मनः संपातविक्रमः वेगेन उत्पपात॥आत्मवान् सः कपि प्रवरः ताम् दृष्ट्वा च धृत्या च दाक्षिण्येन निपात्य पुनः वेगात् ववृधे॥

Then the Vanara tearing her vital parts with his sharp nails with the speed of mind in action quickly rushed out. The self controlled great Vanara, with firmeness of mind and ingenuity, seeing her threw her down again and rapidly grew in size.

हृतहृत्सा हनुमात पपात विधुरांभसि।
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्॥187||
भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम्।
भीममद्यकृतं कर्म महत् सत्वं त्वया हतम्॥188||
साधयार्थमभिप्रेतं अरिष्टंप्लवतां वर।

स॥ सा हनुमता ह्रुह्रुत् विधुरा वानरेण आसु हतां अम्बसि पपात।पतिताम् तां वीक्ष्य आकाशचारीणि भूतानि प्लवगोत्तमम् ऊचुः॥प्लवतां वरःअद्य त्वया महत् सत्त्वं हतम्। भीमम् कर्म कृतम्। (तव) अभिप्रेतम् अर्थम् अरिष्टम् साधय ।

With the heart torn , the miserable one instantly killed by Hanuman dropped down in the sea. Seeing her who has fallen down the beings who travel the sky addresed the best of Vanaras. ' Oh best of flyers ! Today you have killed a great being. Fierce task was done. Fullfil your mission unobstructed'.

यस्यत्वेतानि चत्वारि वानरेंद्र यथा तव॥189||
धृतिर्दृष्टिर्मति दाक्ष्यं स्वकर्मसु सीदति।
सतैः संभावितः पूज्यः प्रतिपन्न प्रयोजनः॥190||
जगामाकासमाविश्य पन्नगाशनवत्कपिः।

स॥ वानरेंद्र यस्य धृतिः दृष्टिः मतिः दाक्ष्यं एतानि चत्वारि तव यथा सः कर्मसु न सीदति॥पूज्यः सः कपिः तैः सम्भावितः प्रतिपन्नप्रयोजनः आकाशं आविश्य पन्नगाशनवत् जगाम॥

'Oh Best of Vanaras ! The one who has fortitude, vision, intelligence and dexterity like you will achieve his mission and will not be lost '. The venerable one that Vanara thus honored having ascended the skies flew like Garuda to achieve his objective.

प्राप्तभूयिष्ट पारस्तु पर्वतः प्रतिलोकयन् ॥191||
योजनानां शतस्यांते वनराजिं ददर्श सः।
ददर्श च पतन्नेव विविध द्रुमभूषितम्॥192||
द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च।

स॥ ( हनुमान्) शतस्य योजनानाम् अन्ते प्रापभूयिष्ठ पारः सर्वतः प्रतिलोकयन् वनराजिम् ददर्श॥शाखामृग श्रेष्ठः पतन्नेन विविधद्रुमभूषितं द्वीपं मलयोपवनानि च ददर्श॥

Having reached the other shore as he looked around, the Vanara saw rows of trees at the end of hundred Yojanas. Hanuman the best among creatures that jump on trees , even while flying saw the island adorned with many trees and garden bordering the Malaya mountain.

सागरं सागरानूपं सागरा नूपजान्द्रुमान् ॥193||
सागरस्य च पत्नीनां मुखान्यपि विलोकयन्।
स महामेघसंकाशं समीक्ष्यात्मान मात्मवान्॥194||
निरुंधत मिवाकाशं चकार मतिमान्मतिम्।

स॥ सागरं सागरानूपं सागरानूपजान् द्रुमान् सागरस्य पत्नीनां (नदीनां) मुखान्यपि विलोकयन् सः महामेघसंकाशं आकाशं निरुंधत मिव आत्मवान् समीक्ष्य (हनुमान्) मतिं चकार॥

Looking at the ocean he observed the sea, the land bordering the sea, the trees grown on the land bordering the sea, and the mouth of the branches of the sea , looking at his own body of the size of a cloud as though obstructing the sky thought as follows.

कायवृद्धिं प्रवेगं च ममदृष्ट्वैव राक्षसाः॥195||
मयि कौतूहलं कुर्युरिति मेने महाकपिः।
ततः शरीरं संक्षिप्य तन्महीधरसन्निभम्॥196||
पुनः प्रकृति मापेदे वीतमोहा इवात्मवान्।

स॥ मम कायवृद्धिं प्रवेगं च दृष्ट्वैव राक्षसाः मयि कौतूहलम् कुर्युः इति महाकपिः मेने॥ततः तत् महीधर सन्निभम् तत् शरीरं संक्षिप्य वीतमोहः आत्मवानिव पुनः प्रकृतिं आपॆदॆ॥

The great Vanara thought that seeing my increased size of body and the speed the Rakshasas will be inquisitive about me. Then having contracted his body which is like a mountain, getting rid of his attachment, once again resumed his normal form.

तद्रूप मति संक्षिप्य हनुमान् प्रकृतौ स्थितः॥
त्रीन्क्रमानिव विक्रम्य बलिवीर्यहरो हरिः॥197||

स॥ हनुमान् तत् रूपं अतिसंक्षिप्य बलिवीर्यहरः हरिः त्रीन् क्रमान् विक्रम्य इव प्रकृतौ स्थितः ॥

Then Hanuman contracting himself to be of a very small size , like Vishnu the vanquisher of Bali with three steps, stood in his normal form.

स चारुनानाविधरूपधारी
परं समासाद्य समुद्र तीरम्।
परैरशक्यः प्रतिपन्नरूपः
समीक्षितात्मा समवेक्षितार्थः॥198||

स॥ चारुनानाविधरूपधारी परैः अशक्यः सः परं समुद्रतीरम् समासाद्य समीक्षितात्मा प्रतिपन्नरूपः समवेक्षितार्थः॥

The one who can take different forms, having reached the other shore of the ocean which is impossible for others, looking at his own self assumed a form suitable for the purpose.

ततस्सलंबस्य गिरेः समृद्धे
विचित्र कूटे निपपात कूटे।
सकेत कोद्दालकनाळिकेरे
महाद्रिकूट प्रतिमो महात्मा॥199||

स॥ ततः महात्रिकूटप्रतिमः सः महात्मा लम्बस्य गिरेः विचित्रकूटे समृद्धे सकेतकोद्दालकनालिकेरे प्रतिमौ निपपात कूटे॥

Then the great soul , who resembled a great mountain descended on the top of Lamba mountain which is full of fruits and blossoms of Ketaka, Uddalaka, Narikela tress with many wonderful peaks.

ततस्तु संप्राप्य समुद्र तीरं
समीक्ष्य लंकां गिरिवर्यमूर्ध्नि।
कपिस्तु तस्मिन् निपपात पर्वते
विधूय रूपं व्यधयन् मृगद्विजान्॥200||

स॥ततः समुद्रतीरं संप्राप्य कपिः तु तस्मिन् पर्वते निपपात मृगद्विजान् व्यधयन् रूपं विधूय गिरिवर्यमूर्ध्नि (सः) लंकां समीक्ष्य ॥

Having reached the seashore, then observing the Lanka located on top of the mountain , Hanuman shook his body which scared the beasts and birds on the mountain he landed.

स सागरं दानवपन्नगायुतम्
बलेन विक्रम्य महोर्मिमालिनम्।
निपत्य तीरे च महोदधे स्तदा
ददर्श लंकां अमरावतीम् इव॥ 201||

Having crossed with his prowess the ocean filled with demons and serpents, having landed on the shore Hanuman saw Lanka adorned with garlands of waves which is like the city of Amaravati

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे प्रथमस्सर्गः॥

Thus ends the first Sarga of Sundarakanda in Ramayana the first poem ever composed by the first poet Valmiki.

||om tat sat||

 

 

 

 





 



||om tat sat||