||Sundarakanda ||

|| Sarga 2||( Only Slokas in Devanagari) )

||om tat sat||

म्सुंदरकांड.
अथ द्वितीय सर्गः

स सागर मनाधृष्य मतिक्रम्य महाबलः।
त्रिकूट शिखरे लंकां स्थितां स्वस्थो ददर्श ह॥1||

ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ।
अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयौ यथा॥2||

योजनानां शतं श्रीमां स्तीर्त्याsप्युत्तमविक्रमः।
अनिश्वृसन् कपिस्तत्र न ग्लानिं अधिगच्छति॥3||

शतान्यहं योजनानां क्रमेयं सुबहून्यपि।
कि पुनस्सागरस्यांतं संख्यातं शतयोजनम्॥4||

स तु वीर्यवतांश्रेष्ठः प्लवतामपि चोत्तमः।
जगाम वेगवान् लंकां लंघयित्वा महोदधिम्॥ 5||

शाद्वलानि च नीलानि गन्धवन्ति वनानि च।
गंडवंति च मध्येन जगाम नगवंति च ॥6||

शैलांश्च तरुसंछन्नान् वनराजीश्च पुष्पिताः।
अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः॥7||

स तस्मिन् अचले तिष्ठन् वनान् उपवनानि च।
स नगाग्रे च तां लंकां ददर्श पवनात्मजः॥ 8||

सरळान् कर्णिकारांश्च खर्जुरांश्च सुपुष्पितान्।
प्रियालून् मुचिळिंदांश्च कुटजान्केतकानपि॥9||

प्रियांगून् गंधपूर्णांश्चनीपान् सप्तच्छदां स्तथा।
आसनान् कोविदारांश्च करवीरांश्च पुष्पितान् ॥10||

पुष्पभार निबद्धांश्च तथा मुकुळिता नपि ।
पादपान् विहागकीर्णान् पवनाधूत मस्तकान् ॥ 11||

हंसकारंडवाकीर्णा वापीः पद्मोत्पलायुताः।
अक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान् ॥12||

संततान् विविधै र्वृक्षैः सर्वर्तु फलपुष्पितैः।
उद्यानानि च रम्याणि ददर्श कपिकुंजरः॥13||

समासाद्य लक्ष्मीवान् लंकां रावणपालिताम्।
परिघाभिः सपद्माभिः उत्पलाभिरलंकृताम्॥14||

सीतापहराणार्थेन रावणेन सुरक्षिताम्।
समंता द्विचरद्भिश्च राक्षसैः उग्रधन्विभिः॥15||

कांचनेनावृतां रम्यां प्राकारेण महापुरीम्।
गृहैश्च ग्रहसंकाशैः शारदांबुदसन्निभैः॥16||

पाडुराभिः प्रतोळीभि रुच्चाभि रभिसंवृताम्।
अट्टालशताकीर्णां पताकाध्वजमालिनीम्॥17||

तोरणैः कांचनैर्दिव्यैः लतापंक्तिविचित्रितैः।
ददर्श हनुमान् लंकां दिवि देव पुरीम् यथा॥18||

गिरिमूर्ध्नि स्थितां लंकां पांडुरैर्भवनै श्शुभैः।
ददर्श कपिश्रेष्ठः पुरं आकाशगं यथा॥19||

पालितां राक्षसेंद्रेण निर्मितां विश्वकर्मणा।
प्लवमाना मिवाकाशे ददर्श हनुमान् पुरीम्॥20||

वप्रप्राकार जघानां विपुलाम्बुनवाम्बुराम्।
शतघ्नीशूलकेशान्ता मट्टालकवतंसकाम्॥21||

मनसेव कृतां लंकां निर्मितां विश्वकर्मणा।
द्वार मुत्तर मासाद्य चिन्तयामास वानरः॥22||

कैलासशिखर प्रख्यां आलिखन्ती मिवाम्बुराम्।
डीयमाना मिवाकाशं उच्छ्रितैर्भवनोत्तमैः॥23||

सम्पूर्णां राक्षसै र्घोरैर्नागै भोगवतीमिव ।
अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा॥24||

दंष्ट्रिभिः बहुभि श्शूरै श्शूलपट्टसपाणिभिः।
रक्षितां राक्षसैर्घोरै र्गुहा माशीविषै रिव॥ 25||

तस्याश्च महतीं गुप्तिं सागरं निरीक्ष्य सः।
रावणं च रिपुं घोरं चिंतयामास वानरः॥26||

आगत्यापीह हरयो भविष्यंति निरर्थकाः।
न हि युद्धेन वै लंका शक्या जेतुं सुरैरपि॥27||

इमां विषमां दुर्गां लंकां रावणपालितां।
प्राप्यापि स महाबाहुः किं करिष्यति राघवः॥28||

अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते।
न दानस्य न भेदस्य नैव युद्धस्य दृश्यते॥29||

चतुर्णामेव हि गतिः वानराणां महात्मनाम्।
वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः॥30||

यावज्जानामिवैदेहीं यदि जीवतिवा नवा।
तत्रैव चिंतयिष्यामि दृष्ट्वा तां जनकात्मजम्॥31||

ततस्सचिंतयामास मुहूर्तं कपिकुंजरः।
ग्रिरिशृंगे स्थितः तस्मिन् रामस्याभ्युदये रतः॥32||

अनेन रूपेण मया न शक्या रक्षसां पुरी।
प्रवेष्ठुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः॥33||

उग्रौजसो महावीर्या बलवंतश्च राक्षसाः।
वंचनीया मया सर्वे जानकीं परिमार्गता॥34||

लक्ष्यालक्ष्येण रूपेण रात्रौ लंकापुरी मया।
प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुम् महत्॥35||

तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः।
हनुमान् चिंतयामास विनिश्चित्य मुहुर्मुहुः॥ 36||

केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्।
अदृष्ठो राक्षसेंद्रेण रावणेन दुरात्मना॥37||

न विनश्येत् कथं कार्यं रामस्य विदितात्मनः।
एकामेकश्च पश्येयं रहिते जनकात्मजाम्॥38||

भूतश्चार्था विपद्यंते देशकालविरोधिताः।
विक्लबं दूतमासाद्य तम सूर्योदये यथा॥39||

अर्थानर्थांतरे बुद्धिर्निश्चिताsपि नशोभते ।
घातयंति हि कार्याणि दूताः पंडितमानिनः॥40||

न विनश्येत् कथं कार्यं वैक्लब्यं न कथं भवेत्।
लंघनं च समुद्रस्य कथं नु न वृथाभवेत्॥41||

मयि दृष्टे तु रक्षोभि रामस्य विदितात्मनः।
भवेद्वर्थमिदं कार्यं रावणानर्थ मिच्छतः॥42||

न हि शक्यं क्वचित् स्थातुं अविज्ञातेन राक्षसैः।
अपि राक्षस रूपेण किमुतान्येन केन चित्॥43||

वायुरप्यत्र नाज्ञातः चरेत् इति मतिर्मम।
न ह्यस्त विदितं किंचित् राक्षसानां बलीयसाम्॥44||

इहाहं यदि तिष्टामि स्वेन रूपेण संवृतः।
विनाशमुपयास्यामि भर्तुरर्थश्च हीयते॥45||

तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः।
लंकां अभिपतिष्यामि राघवस्यार्थ सिद्धये॥46||

रावणस्य पुरीम् रात्रौ प्रविश्य सुदुरासदाम्।
विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्॥47||

इति संचित्य हनुमान् सूर्यस्यास्तमयं कपिः।
आचकांक्षे तदा वीरो वैदेह्या दर्शनोत्सुकः॥48||

सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः।
वृषदंशकमात्रस्सन् बभूवाद्भुत दर्शनः॥49||

प्रदोषकाले हनुमांस्तूर्ण मुत्प्लुत्य वीर्यवान्।
प्रविवेश पुरीं रम्यां सुविभक्त महापथाम्॥50||

प्रासादमालाविततम् स्तंभैः कांचन राजतैः।
शातकुंभमयै र्जालैः गंधर्वनगरोपमाम्॥ 51||

सप्तभौमाष्टभौमैश्च मुक्ताजाल विभूषितैः।
तलैः स्फाटिक संकीर्णैः कार्तस्वरविभूषितैः॥52||

वैडूर्यमणिचित्रैश्च मुक्ताजाल विभूषितैः।
तलैः शुश्शुभिरे तानि भवनान्यत्र रक्षसाम्॥53||

कांचनानि च चित्राणि तोरणानि च रक्षसाम्।
लंकामुद्योतयामासुः सर्वतः समलंकृताम्॥54||

अचिंत्या मद्भुताकारं दृष्ट्वा लंकां महाकपिः।
आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः॥55||

स पाण्डुराविद्ध विमानमालिनीम् महार्हजांबूनद जालतोरणाम्।
यशस्विनीं रावणबाहुपालिताम् क्षपाचरै र्भीमबलैः समावृताम्॥ 56||

चंद्रोsपि साचिव्य मिवास्य कुर्वन् तारागणैर्मध्यगतो विराजन्।
ज्योत्स्नावितानेन वितत्यलोकं उत्तिष्टतेनैकसहस्ररश्मिः॥57||

शंखप्रभं क्षीरमृणाळवर्णं उद्गच्छमानं व्यवभासमानम्।
ददर्श चन्द्रं स हरिप्रवीर पोप्लूयमानं सरसीव हंसम्॥57||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे द्वितीय स्सर्गः॥

||om tat sat||