||Sundarakanda ||

|| Sarga 20||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ विंशस्सर्गः

स तां पतिव्रताम् दीनां निरानंदां तपस्स्विनीम्।
साकारैर्मथुरैर्वाक्यै र्वृदर्शयत रावणः॥1||

मां दृष्ट्वा नागनासोरु गूहमान स्तनोदरम्।
अदर्शनमिवात्मानं भयान्नेतुं त्व मिच्चसि॥2||

कामयेत्वां विशालाक्षी बहुमन्यस्व मां प्रिये।
सर्वांग गुण संपन्ने सर्वलोकमनोहरे॥3||

नेह केचिमनुष्या वा राक्षसाः कामरूपिणः।
व्यपसर्पतु ते सीते भयं मत्तस्समुत्थितम्॥4||

स्वधर्मो रक्षसां भीरु सर्वथैव नसंशयः।
गमनं वा परस्त्रीणां हरणं संप्रमध्य वा॥5||

एवं चैतदकामं तु न त्वां स्प्रक्ष्यामि मैथिलि।
कामं कामश्शरीरे मे यथा कामं प्रवर्तताम्॥6||

देवी नेह भयं कार्यं मति विश्वसिहि प्रिये।
प्रणयस्व च तत्वेन मैवं भू श्शोकलालसा॥7||

एकवेणीधराशय्या ध्यानं मलिन मंबरम्।
अस्थानेsप्युपवासश्च नैता न्यौपयिकानि ते॥8||

विचित्राणि च माल्यानि चंदनान्यगरूणि च।
विविधानि च वासांसि दिव्या न्याभरणानिच ॥9||

महार्हाणि च पानानि शयनान्यासनानि च।
गीतं नृत्तं च वाद्यंच लभ मां प्राप्य मैथिलि॥10||

स्त्री रत्नमसि मैवं भूः कुरु गात्रेषु भूषणं।
मां प्राप्य हि कथं नि स्यास्त्व मनर्हा सुविग्रहे॥11||

इदं ते चारु संजातं यौवनं व्यतिवर्तते।
यत् अतीतं पुनर्नैति स्रोत श्शीघ्र मपामिव॥12||

त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृट् ।
न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने॥13||

त्वां समसाद्य वैदेही रूपयौवनशालिनीम्।
कः पुमा नतिवर्तेत साक्षा दपि पितामहः॥14||

यद्यत् पश्यामि ते गात्रं शीतांशुसदृशानने।
तस्मिं स्तस्मिन् पृथुश्रोणी चक्षुर्मम निबध्यते॥15||

भव मैथिलि भार्या मे मोह मेनं विसर्जय।
बह्विनां उत्तमस्त्रीणां अहुतानाम् इतः ततः॥16||

सर्वासामेव भद्रंते ममाग्रमहीषीभव।
लोकेभ्यो यानि रत्नानि संप्रमध्याहृतानि वै॥17||

तानि मे भीरु सर्वाणि राज्यं चैत दहं च ते।
विजित्य पृथिवीं सर्वां नानानगरमालिनीम्॥18||

जनकाय प्रदास्यामि तव हेतोर्विलासिनी।
नेह पश्यामि लोकेsन्यं यो मे प्रतिबलं भवेत् ॥19||

पश्यमे सुमहद्वीर्यं अप्रतिद्वंद्वमाहवे।
असकृत् संयुगे भग्ना मया विमृदितध्वजाः॥20||

अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः।
इच्चया क्रियता मद्य प्रतिकर्म तवोत्तमम्॥21||

सप्रभाण्यवसज्यंतां तवांगे भूषणानिच।
साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा॥22||

प्रतिकर्माभि संयुक्ता दाक्षिण्येन वरानने।
भुंक्ष्वभोगान् यथाकामं पिब भीरु रमस्व च॥23||

यथेष्टं च प्रयच्च त्वं पृथिवीं वा धनानि च।
ललस्व मयि विस्रब्दा धृष्ट माज्ञापयस्व च॥24||

मत्प्रसादा ल्ललंत्याश्च ललंतां भांधवा स्तव ।
बुद्धिं मामनुपश्य त्वं श्रियं भद्रे यशश्च मे॥25||

किं करिष्यसि रामेण सुभगे चीरवाससा।
निक्षिप्त विजयो रामो गतश्रीः वनगोचरः॥26||

व्रती स्तंडिलशायी च शंके जीवति वा न वा।
न हि वैदेहि राम स्त्वां द्रष्टुं वाप्युपलप्स्यते॥27||

पुरो बलाकै रसितैः मेघैः ज्योत्स्नामिवावृतम्।
न चापि मम हस्ता त्त्वा प्राप्तु मर्हति राघवः॥28||

हिरण्यकशिपुः कीर्तिं इंद्रहस्तगतामिव।
चारुस्मिते चारुदति चारुनेत्रे विलासिनि॥ 29||

मनोहरसि मे भीरु सुपर्णः पन्नगं यथा।
क्लिष्ट कौशेयवदनां तन्वी मप्यनलंकृताम्॥30||

तां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभा म्यहम्।
अंतःपुरनिवासिन्य स्स्त्रिय स्सर्वगुणान्विताः॥31||

यावंत्यो मम सर्वासा मैश्व्वर्यं कुरु जानकि।
मम ह्यसितकेशांते त्रैलोक्यप्रवरा स्स्त्रियः॥32||

तास्त्वां परिचरिष्यंति श्रिय मप्सरसो यथा।
यानि वैश्रवणे सुभ्रु रत्नानि धनानि च॥33||

तानि लोकांश्च सुश्रोणि मां च भुंक्ष्व यथा सुखम्।
न रामस्तपसा देवि न बलेन न विक्रमैः॥34||

न धनेन मया तुल्यः तेजसा यशसाsपि वा।35||

पिब विहर रमस्व भुंक्ष्व भोगान्
धननिचयं प्रदिशामि मेदिनीं च।
मयि लल ललने यथासुखं त्वं
त्वयि च समेत्य ललंतु बांधवास्ते ॥ 36||

कुसुमित तरुजाल संततानि
भ्रमरयुतानि समुद्रतीरजानि।
कनक विमल हारभूषितांगी
विहर मया सह भीरु काननानि॥37||


इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे विंशस्सर्गः॥

 

|| Om tat sat ||