||Sundarakanda ||

|| Sarga 21||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ एकविंशस्सर्गः

तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः।
अर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः॥1||

स॥ तस्य रौद्रस्य रक्षसः वचनं शृत्वा आर्ता दीनं दीनस्वरा शनैः प्रत्युवाच॥

Hearing those words of that fierce Rakshasa, distressed and pitiable Sita replied in a sorrowful tone.

दुःखार्ता रुदतीसीता वेपमाना तपस्विनी।
चिंतयंती वरारोहा पतिं एव पतिव्रतः॥2||
तृणमंतरः कृत्वा प्रत्युवाच शुचिस्मिता।

स॥ सीता वेपमाना तपश्विनी पतिव्रतः पतिं एव चिंतयंती दुःखार्ता रुदती सुचिस्मिता तृणं अंतरः कृत्वा प्रत्युवाच॥

Trembling ascetic Sita , a chaste woman ever thinking of her husband only, crying afflicted by grief yet with a gentle smile replied him putting a blade of grass between them.

निवर्तय मनो मत्तः स्वजने क्रियतां मम॥3||
नमां प्रार्थयितुं युक्तं सुसिद्धमिव पापकृत्।
अकार्यं न मया कार्यं एकपत्न्या विगर्हितम्॥4||
कुलं संप्राप्तया पुण्यं कुले महति जातया।

स॥ मत्तः मनो निवर्तय । स्वजने क्रियतां । मां प्रार्थयितुं न युक्तं पापकृत् सुसिद्धम् इव॥ महति कुले जातया कुलं संप्राप्तया एकपत्न्या मया विगर्हितं अकार्यं न कार्यं ॥

'Turn away your mind from me. You fix it in your own people. Like the sinner hoping for blessings, desiring me is not proper for you. Born in a great lineage, having gained a great lineage, devoted to single husband , the contemptible forbidden action (proposed by you) will not be done.

एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी॥5||
राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत्।
नाह मौपयिकी भार्या परभार्या सती तव॥6||
साधु धर्ममवेक्षस्व साधु साधु व्रतं चर।

स॥ यशस्विनी वैदेही तं रावणं एवं उक्त्वा राक्षसं पृष्टतः कृत्वा भूयः वचनम् अब्रवीत्॥ परभार्या सती अहं औपयिकी भार्या न ।तव धर्मं साधु अवेक्षस्व।साधुव्रतं साधु चर॥

Glorious Vaidehi having said this to that Ravana turned her back and spoke these words again.' As a chaste married woman , I am not a wife to be obtained by other efforts. You may examine the righteous conduct. With honesty follow honest action.

यथा तव तथाsन्येषां दारा रक्ष्या निशाचर॥7||
आत्मानमुपमां कृत्वा स्वेषुदारेषु रम्यतां।
अतुष्टं स्वेषु दारेषु चपलं चलितेंद्रियः॥8||
नयंति निकृति प्रज्ञं परदाराः पराभवम्।

स॥ निशाचर यथा तव दाराः रक्ष्याः तथा अन्येषां । आत्मानं उपमा कृत्वा स्वेषु दारेषु रम्यताम्॥ स्वेषु दारेषु अतुष्टं चपलं चलितेंद्रियं निकृतिप्रज्ञं परदाराः पराभवं नयंति ॥

'Oh Night being ! Like your wives are protected, similarly other's wives (too are to be protected). Making yourself an example enjoy with your own wives. Evil minded one ,one with unsteady mind with no control on his senses, one who is unsatisfied with his own wives, will be insulted by other's wives.

इहा संतो न वा संति सतो वा नानुवर्तसे॥9||
तथा हि विपरीता बुद्धि राचारवर्जिता।
वचो मिथ्या प्रणीतात्मा पथ्य मुक्तं विचक्षणैः॥10||
राक्षसानामभावाय त्वं वा न प्रतिपद्यसे।

स॥इह संतः न वा संति ।सतः अनुवर्तसे न। तथा हि आचारवर्जिता ते बुद्धिः विपरीता ॥ मिथ्याप्रणीतात्मा राक्षसानां अभवाय त्वं विचक्षणैः उक्तं पथ्यं वचः न प्रतिपद्यसे॥

There are no pious one here . Or you donot follow the saints. That is why your evil mind is after forbidden actions. Indulging in unrighteous act, you are not following righteous advice leading to destruction of the Rakshasas.

अकृतात्मान मासाद्य राजान मनयेरतम्॥11||
समृद्धानि विनश्यंति राष्ट्राणी नगराणि च।
तथेयं त्वां समासाद्य लंकारत्नौघ संकुला॥12||
अपराधा त्तवैकस्य न चिरा द्विनशिष्यति।
स्वकृतैर्हन्यमानस्य रावणा दीर्घदर्शिनः॥13||
अभिनंदंति भूतानि विनाशे पापकर्मणः।
एवं त्वां पापकर्माणं वक्ष्यंति निकृता जनाः॥14||
दिष्ट्यैतत् व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ।

स॥ अकृतात्मानं अनये रतं राजानं आसाद्य समृद्धानि राष्ट्रानि नगराणि च विनश्यंति॥ तथा त्वां समसाद्य रत्नौघसंकुला इयं लंका एकस्य तव अपराधात् न चिरात् विनशिष्यति॥रावण अदीर्घदर्शनः स्वकृतैः हन्यमानस्य पापकर्मणः विनासे भूतानि अभिनंदंति ॥निकृताः जनाः एवं रौद्रः पापकर्मणं त्वां हर्षिताः । दिष्ट्याएतत् व्यसनं प्राप्तः इत्येव वक्ष्यंति॥

Having kings who are foolish engaged in improper acts prosperous countries and cities are destroyed. In that way having obtained you this Lanka which is filled with gems , will soon be destroyed because of your single crime. Oh Ravana ! Living creatures will rejoice by the destruction of a short sighted one who is killed by his own deeds, In that way insulted people will be delighted about your destruction. They will say 'luckily he met his doom etc'.

शक्या लोभयितुं नाह मैश्वर्येण धनेन वा॥15||
अनन्या राघवेणाहं भास्करेण प्रभा यथा।
उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्॥16||
कथं नामोपधास्यामि भुजमन्यस्य कस्यचित्।
अह मौपयिकी भार्या तस्यैव वसुधापतेः॥17||
व्रतस्नातस्य धीरस्य विद्येव विदितात्मनः।

स॥ अहं इश्वर्येण धनेन वा लोभयितुं न शक्या । प्रभा भास्करेण यथा अहं राघवेण अनन्या॥लोकनाथस्य तस्य सत्कृतं भुजं उपधाय अन्यस्य कस्य चित् भुजं कथं नाम उपधास्यामि ॥ व्रतस्नातस्य विदितात्मनः विप्रस्य विद्या इव अहं वसुधापतेः तस्यैव औपयिकी भार्या ॥

I cannot be tempted by power or even wealth. Like the splendor of the Sun I am not separable from Rama' Having used his shoulder which protected the world and which performed great deeds, I am not going to use any other shoulder. Like the knowledge of an ascetic who is bathed in ceremonial duties, who is a realized soul I am that Lord of the earth's wife, fit for him only.

साधु रावण रामेण मां समानय दुःखिताम्॥18||
वने वाशितया सार्थं करेण्वेन गजाधिपम्।
मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता॥19||
वधं चानिच्छता घोरं त्वयाsसौ पुरुषर्षभः।
विदित स्स हि धर्मज्ञः शरणागतवत्सलम्॥20||
तेन मैत्री भवतु ते यदि जीवितु मिच्छसि।
प्रसादयस्व त्वं चैनं शरणागतवत्सलम्॥21||
मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि।

स॥ रावण दुःखितां माम् गजाधिपं वने वाशितया करेण्वेव रामेण सार्धं साधु समानय॥ स्थानं परीप्सिता घोरं वधं अनिच्छता त्वया असौ पुरुषर्षभः रामः मित्रं कर्तुं औपयिकं॥धर्मज्ञः सः शरणागतवत्सलः (इति) विदितः हि। यदि ते जीवितुं इच्छसि तेन मैत्री भवतु॥ त्वं शरणागतवत्सलं एनं प्रसादयस्व च। नियतः भूत्वा माम् अस्मै निर्यातयितुं अर्हसि ॥

Oh Ravana ! Uniting me in sorrows with Rama would be good like uniting the female elephant separated from the king of elephants in the forest, If you are desirous of avoiding dreadful death seek the friendship of Rama the bull among men. As one who knows Dharma, he is kind to those who seek protection. If you desire to live then seek his friendship.You propiate him who is kind to the those who seek protection. Controlling yourself it is proper for you to return me.

एवं हि ते भवेत्स्वस्ति संप्रदाय रघूत्तमे॥22||
अन्यथा त्वं हि कुर्वाणो वधं प्राप्स्यसि रावण।
वर्जयेत् वज्र मुत्सृष्टं वर्जये दंतकश्चिरम्॥23||
तद्विधं तु न संक्रुद्धो लोकनाथः स राघवः।
रामस्य धनुषश्शब्दं श्रोष्यसि त्वं महास्वनम्॥24||
शतक्रतुविसृष्टस्य निर्घोषमशनेरिव।

स॥एवं रघूत्तमे संप्रदाय ते स्वस्तिः भवेत्। अन्यथा कुर्वानः रावण त्वं वधं प्राप्स्यसि॥ तद्विधं उत्सृष्टं वज्रं वर्जयेत् चिरं अंतकः वर्जयेत् । सम्कृद्धः लोकनाथः सः राघवः न ( वर्जयेत्)॥ शतक्रतुविसृष्टस्य अशनेः निर्घोषं इव रामस्य धनुषः महास्वनम् शब्दं त्वं श्रोष्यसि॥

This way having given me away you will achieve prosperity. Ravana ! Otherwise you will face death. The raised thunderbolt may spare you , the Yama may spare you. But the angry Lord of the world Raghava will not spare you. You will hear the great sound of Rama's bow , like the thunderbolt released by Indra, the one who performed hundred Yagnyas,

इह शीघ्रं सुपर्वाणो ज्वलितास्य इवोरगाः॥25||
इषनो निपतिष्यंति रामलक्ष्मण लक्षणाः।
रक्षांसि परिनिघ्नंतः पुर्यामस्यां समंततः॥26||
असंपातं करिष्यंति पतंतः कंकवाससः।
राक्षसेंद्र महासर्पान् स रामगरुडो यथा॥27||
उद्धरिष्यति वेगेन वैनतेय इवोरगान्।
अपनेष्वति मां भर्तात्वत्तः शीघ्रमरिंदमः॥28||
असुरेभ्यः श्रियं दीप्तां विष्णु स्त्रिभिरिवक्रमैः।

स॥ सुपर्वाणः शीघ्रं ज्वलितस्याः उरगाः इव रामलक्ष्मणलक्षणाः इषवः इह निपतिष्यंति॥स॥ कंकवाससः पतंतः अस्यां पुर्यां समंततः रक्षांसि परिनिघ्नंतः असंपतां करिष्यंति ॥स॥ महान् सः रामगरुडः राक्षसेंद्र महासर्पान् वैनतेयः उरगान् इव वेगेन उद्धरिष्यति॥ सीघ्रं अरिंदमः भर्ता माम् त्वत्तः विष्णुः त्रिभी क्रमैः दीप्तं श्रियं असुरेभ्यः इव अपनेष्यति॥

Well jointed arrows with flaming fangs like that of poisonous snakes marked with names of Rama and Lakshmana will soon be raining. The shafts with feathers of Kanka bird falling on this city will be killing Rakshasas everywhere. Like the Garuda swiftly carrying away the great serpents, the great Rama will kill the king of demons. Swiftly my husband the subduer of enemies will take me away from you like Vishnu with three strides took away the prosperity of the Asuras.

जनस्थाने हतस्थाने निहते रक्षसां बले॥29||
अशक्तेन त्वया रक्षः कृत मेतदसाधु वै ।
आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः॥30||
गोचरं गतयोर्भ्रात्रो रपनीता त्वयाsधमा।

स॥ रक्षसां बले निहते जनस्थाने हतस्थाने रक्षः असक्तेन त्वया एतत् असाधु कृतं वै॥ अथम नरसिंहयोः तयोः भ्रात्रोः गोचरं गतयोः शून्यं आश्रमं प्रविश्य त्वया अपनीताः ॥

When the Rakshasa army was killed in Janasthana you being unable to do anything resorted to this evil deed. Oh Mean one, when the two lions among men were away, entering the unprotected hermitage I have been abducted by you.

नहि ग्रंधमुपाघ्राय रामलक्ष्मणयोस्त्वया॥31||
शक्यं संदर्शने स्थातुम् शुना शार्दूलयोरिव।
तस्य ते विग्रहे ताभ्यां युग ग्रहण मस्थिरम्॥32||
वृत्रस्येवेंद्रबाहूभ्यां बाहो रेकस्य निग्रहः।
क्षिप्रं तव सनाथो मे राम स्सौमित्रिणा सह।
तोयमल्पमिवादित्यः प्राणानादास्यते शरैः।33||

स॥ शुना शार्दूलयोरिव रामलक्ष्मणयोः गंधं उपघ्राय त्वया संदर्शने स्थातुं न शक्यं हि ॥ तस्य ताभ्यां विग्रहे इंद्रबाहुभ्यां वृत्रस्य एकस्य बाहोः विग्रहे इव युगग्रहणं अस्थिरं॥मे नाथः सः रामः सौमित्रिणा सह आदित्यः अल्पं तोयमिव शरैः तव प्राणान् क्षिप्रं दास्यते॥

You would not have been able to be stand infront of Rama and Lakshmana like a dog in front of two tigers , if you smelt their presence. You cannot stand both of them in a battle like the one armed Vritrasura could not face the two armed Indra. My husband Rama with the son of Sumitra will destroy your life breath like the Sun destroys a little water with his radiance.

गिरिं कुबेरस्य गतोsपधाय वा
सभां गतो वा वरुणस्य राज्ञः ।
असंशयं दाशरथेर्नमोक्ष्यसे
महाद्रुमः कालहतोsशनेरिव॥34||

स॥ कालहतः कुबेरस्य गिरिं वा आलयं गतः राज्ञः वरुणस्य सभाम् गतः महाद्रुमः अशनैरिव दाशरथेः न मोक्ष्यसे॥

Doomed by time going to Kubera's mountain or palace, or entering Varunas assembly , you cannot evade Rama's arrows like a mighty tree cannot escape lightning.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे एकविंशस्सर्गः॥

Thus ends the Sarga twenty first Sarga of Sundarakanda in Ramayana the first ever poem composed by the first poet in Sanskrit sage Valmiki.

||om tat sat||