||Sundarakanda ||

|| Sarga 22||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ द्वाविंशस्सर्गः

सीतायावचनं श्रुत्वा परुषं राक्षसाधिपः।
प्रत्युवाच तत स्सीतां विप्रियं प्रियदर्शनाम्॥ 1||

यता यथा सांत्वयिता वश्य स्प्रीणां तथा तथा।
यथा यथा प्रियं वक्ता परिभूत स्तथा तथा॥2||

सन्नियमेच्छति मे क्रोथं त्वयि काम स्समुत्थितः।
द्रवतोsमार्ग मासाद्य हया निव सुसारथिः॥3||

वामः कामो मनुष्याणां यस्मिन् किल निबध्यते।
जने तस्मिन् स्त्वनुक्रोश स्नेहश्च किल जायते ॥4||

एतस्मात् काराणान् न त्वां घातयामि वरानने।
वधार्हां अवमानार्हां मिथ्या प्रव्रजिते रताम्॥5||

परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम्।
तेषु तेषु वधोयुक्तः तव मैथिलि दारुणः॥6||

एवमुक्त्वातु वैदेहीं रावणो राक्षसाधिपः।
क्रोधसंरंभ संयुक्तः सीतां उत्तरमब्रवीत्॥7||

द्वौमासौ रक्षितव्यौ मे योsवधिस्ते मया कृतः।
तत श्शयनमारोहममत्वं वरवर्णिनी॥8||

ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मा मनिच्छतीम्।
मम त्वां प्रातराशार्थं आरभंते महानसे॥9||

तां तर्ज्यमानां संप्रेक्ष्य राक्षसेंद्रेण जानकीं।
देवगंधर्वकन्याः तविषेदुर्विकृतेक्षणाः॥10||

ओष्ठप्रकारैः अपरा वक्त्रनेत्रै स्तथाsपरे ।
सीतां आश्वासयामासु स्तर्जितांतेन रक्षसा॥11

ताभिराश्वासिता सीता रावणम् राक्षसाधिपम्।
उवाचात्महितं वाक्यं वृत्त शौंडीर्य गर्वितम्॥ 12||

नूनं नते जनः कश्चित् अस्ति निश्श्रेयसे स्थितः।
निवारयति यो न त्वाम् कर्मणोsस्मात् विगर्हितात्॥13||

मा हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः।
त्वदन्यः त्रिषु लोकेषु प्रार्थये न्मनसाsपि कः॥14||

राक्षसाधम रामस्य भार्यां अमित तेजसः।
उक्तवानपि यत्पापं क्व गत स्तस्य मोक्ष्यसे॥15||

यथा दृप्तश्च मातंगः शश श्च सहितो वने।
तथा द्विरदव द्रामस्त्वं नीच शशवत् स्मृतः॥16||

स त्वं इक्ष्वाकुनाथं वै क्षिपन्निहन लज्जसे।
चक्षुषोर्विषयं तस्य न ताव दुपगच्छसि॥17||

इमे ते नयने क्रूरे विरूपे कृष्णपिंगळे ।
क्षितौ न पतिते कस्मा न्मामनार्य निरीक्षितः॥18||

तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च।
कथं व्याहरतो माअ तेन जिह्वा व्यवसीर्यते॥19||

असंदेशात्तु रामस्य तपसश्च अनुपालनात्।
न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा॥20||

नापहर्तु महं शक्या त्वया रामस्य धीमतः।
विधिस्तव वधार्धाय विहितो नात्र संशयः॥21||

शूरेण धनदभ्रात्रा बलै स्समुदितेन च।
अपोह्या रामं कस्माद्धि दारचौर्यं त्वया कृतम्॥22||

सीताया वचनं श्रुत्वा रावनो राक्षसाधिपः।
विवृत्य नयने क्रूरे जानकी मन्ववैक्षत॥23||

नीलजीमूत संकाशो महाभुजशिरोधरः।
सिंहसत्वगति ः श्रीमान् दीप्तजिह्वाग्रलोचनः॥24||

चलाग्रमकुटप्रांशुः चित्रमाल्यानुलेपनः।
रक्तमाल्यांबरधर सस्तांगदविभूषणः॥25||

श्रोणि सूत्रेण महता मेचकेनसुसंवृतः।
अमृतोत्पादनद्देन भुजगेनैव मंदरः॥26||

ताभ्यां परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः।
शुशुभे चलसंकाशः शृंगाभ्यामिव मंदरः॥27||

तरुणादित्यवर्णाभ्यां कुंडलाभ्यां विभूषितः।
रक्तपल्लवपुष्पाभ्यां अशोकाभ्यां इवाचलः॥28||

सकल्पवृक्षप्रतिमो वसंत इव मूर्तिमान्।
श्मशानचैत्यप्रतिमो भूषितोsपि भयंकरः॥29||

अवेक्षमाणो वैदेहीं कोपसंरक्त लोचनः।
उवाच रावण स्सीतां भुजंग इव निश्श्वसन्॥30||

अनयेनाभिसंपन्नम् अर्थहीनं अनुव्रते।
नाशया म्यहमद्य त्वां सूर्य स्संध्या मिवौजसा॥31||

इत्युक्त्वा मैथिलीं राज रावण श्शत्रु रावणः।
सम्दिदेश ततः सर्वा राक्षसी र्घोरदर्शनाः॥32||

एकाक्षीं एककर्णां च कर्णप्रावरणं तथा।
गोकर्णीं हस्तिकर्णीं च लंबकर्णीं अकर्णिकाम्॥33||

हस्ति पाद्यश्वपाद्यौ च गोपादीं पादचूळिकम्।
एकाक्ष्ं एकपादीं च पृथुपादीं अपादिकाम्॥34||

अतिमात्र शिरो ग्रीवां अतिमात्र कुचोदरीम्।
अतिमात्रस्य नेत्रां च दीर्घजिह्वां अजिह्विकाम्॥35||

अनाशिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्।
यथा मत् वशगा सीता क्षिप्रं भवति जानकी॥36||

तथा कुरुत राक्षस्यः सर्वां क्षिप्रं समेत्य च।
प्रतिलोमानु लोमैश्च सामदानादि भेदनैः॥37||

अवर्जयत वैदेहीं दंडस्योद्यमनेनच।
इति प्रतिसमादिश्य राक्षसेंद्रः पुनः पुनः॥38||

कामन्युपरीतात्मा जानकीं पर्यतर्जयत्।
उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी॥39||

परिष्वज्य दशग्रीवं इदं वचनमब्रवीत्।
मयाक्रीड महाराज सीतया किं तवानया॥40||

विवर्णया कृपणया मानुष्या राक्षसेश्वर।
नूनं अस्या महाराज नि दिव्यान् भोगसत्तमान्॥41||

विददधात्यमरश्रेष्ठः तव बाहुबलार्जितान्।
अकामं कामयानस्य शरीरमुपतप्यते॥42||

इच्छंतीं कामयानस्य प्रीतिर्भवति शोभना।
एवमुक्तस्तु राक्षस्या समुत्‍क्षिप्त स्ततो बली॥43||

प्रहसन्मेघ संकाशो राक्षस स्सन्यवर्तत।
प्रस्थित स्स दशग्रीवः कंपयन्निव मेदिनीम्॥44||

ज्वलद्भास्करवर्णाभां प्रविवेश निवेशनम्।
देवगंधर्व कन्याश्च नागकन्याश्च सर्वतः॥45||

परिवार्य दशग्रीवं विविशु स्तं गृहोत्तमम्॥46||

स मैथिलीं धर्मपरां अवस्थिताम्
प्रवेपमानां परिभर्त्स्य रावणः।
विहायसीतां मदनेन मोहितः
स्वमेव वेश्म प्रविवेश भास्वरम्॥47||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे द्वाविंशस्सर्गः॥

 

|| Om tat sat ||