||Sundarakanda ||

|| Sarga 22||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ द्वाविंशस्सर्गः

सीतायावचनं श्रुत्वा परुषं राक्षसाधिपः।
प्रत्युवाच तत स्सीतां विप्रियं प्रियदर्शनाम्॥ 1||

स॥ सीतायाः तत् परुषं वचनं श्रुत्वा प्रियदर्शनां तं सीतां राक्षसाधिपः विप्रियं प्रत्युवाच॥

Hearing those unpleasant words of Sita, the king of Rakshasas replied Sita in unpleasant words.

यथा यथा सांत्वयिता वश्यः स्त्रीणां तथा तथा।
यथा यथा प्रियं वक्ता परिभूत स्तथा तथा॥2||
सन्नियमेच्छति मे क्रोथं त्वयि काम स्समुत्थितः।
द्रवतोsमार्ग मासाद्य हया निव सुसारथिः॥3||
वामः कामो मनुष्याणां यस्मिन् किल निबध्यते।
जने तस्मिन् स्त्वनुक्रोश स्नेहश्च किल जायते ॥4||

स॥ स्त्रीणां यथ यथा सांत्वयिता तथा तथा वश्यः यथा यथा प्रियं वक्ता तथा तधा परिभूतः भविष्यति॥ त्वयि समुत्थिथा कामः सुसारथिः अमार्गं आसाद्य द्रवतः हयानिव मे क्रोधं सन्नियमेच्छति ॥मनुष्याणां कामः वामः यस्मिन्जने निबध्यते तस्मिन् अनुक्रोशः स्नेहः च जायते किल॥

Among the women more and more the passionate one is courteous, the more he speaks sweetly, the more he is humiliated. That passion that has arisen me has controlled anger like a good charioteer controls the horses that are running on a wrong path. Among men the love is partial and is bound it generate friendship and compassion in one who is punishable.

एतस्मात् काराणान् न त्वां घातयामि वरानने।
वधार्हां अवमानार्हां मिथ्या प्रव्रजिते रताम्॥5||
परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम्।
तेषु तेषु वधोयुक्तः तव मैथिलि दारुणः॥6||
एवमुक्त्वातु वैदेहीं रावणो राक्षसाधिपः।
क्रोधसंरंभ संयुक्तः सीतां उत्तरमब्रवीत्॥7||

स॥ वरानने एतस्मात् कारणात् वधार्हं अवमानार्हं मिथ्या प्रव्रजिते रताम् त्वां न घातयामि ॥ मैथिलि यानि यानि परुषाणीह वाक्यानि माम् ब्रवीषि तेषु तेषु तव वधः युक्तः ॥ वैदेहीं सीतां एवम् उक्त्वातु राक्षसाधिपः क्रोधसंरंभ संयुक्तः रावणः उत्तरं अब्रवीत्

' For these reasons Oh the best among women! though worthy of being killed and worthy of being put to shame, you will not be killed. Maithili what ever angry words you have told me for those words you deserve to be killed'. Having said this to Sita the daughter of Videha, the king of Rakshasa continued and said the following in anger mixed with excitement.

द्वौमासौ रक्षितव्यौ मे योsवधिस्ते मया कृतः।
तत श्शयनमारोह ममत्वं वरवर्णिनी ॥8||
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मा मनिच्छतीम्।
मम त्वां प्रातराशार्थं आलभंते महानसे॥9||

स॥ मया ते यः अवधिः कृतः । द्वौ मासौ मे रक्षितव्यौ वरवर्णिनी ततः मम शयनं आरोह ॥ द्वाभ्यां मासाभ्यां ऊर्ध्वं मां भर्तारम् अनिच्छतीं त्वां मम प्रातराशार्थं महनने आलभंते॥

'I am giving you a deadline. O Lady of beautiful color ! you are protected for two months. There after you have to climb into my bed. Beyond two months if you do not wish to accept me as your husband then you will be sent the kitchen to be cooked as my breakfast'.

तां तर्ज्यमानां संप्रेक्ष्य राक्षसेंद्रेण जानकीं।
देवगंधर्वकन्याः विषेदुर्विकृतेक्षणाः॥10||
ओष्ठप्रकारैः अपरा वक्त्रनेत्रै स्तथाsपरे ।
सीतां आश्वासयामासु स्तर्जितांतेन रक्षसा॥11||
ताभिराश्वासिता सीता रावणम् राक्षसाधिपम्।
उवाचात्महितं वाक्यं वृत्त शौंडीर्य गर्वितम्॥ 12||

स॥ राक्षसेंद्रेण तर्ज्यमानं तां जानकीं संप्रेक्ष्य देवगंधर्वकन्याः विकृतेक्षणाः विषेदुः ॥ तेन रक्षसा तर्जितां तां सीतां अपरां औष्टप्रकारैः तथा अपराः वक्त्रनेत्रैः आश्वासयामासुः ॥ ताभिः आश्वासिता सीता वृत्तशौंडीर्य गर्वितं आत्महितं वाक्यं राक्षसाधिपं रावणम् उवाच॥

Seeing that Janaki who is being threatened by the king of Raksasas, the Deva and Gandharva women wept with distressed eyes. Sita being threatened by that Rakshasa, was consoled by the others with movement of lips and yet others with movement of eyes and faces. Thus consoled Sita, proud of the power of her virtues, said the following in her defence to Ravana the king of Rakshasas.

नूनं नते जनः कश्चित् अस्ति निश्श्रेयसे स्थितः।
निवारयति यो न त्वाम् कर्मणोsस्मात् विगर्हितात्॥13||
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः।
त्वदन्यः त्रिषु लोकेषु प्रार्थये न्मनसाsपि कः॥14||
राक्षसाधम रामस्य भार्यां अमित तेजसः।
उक्तवानपि यत्पापं क्व गत स्तस्य मोक्ष्यसे॥15||

स॥ निश्रेयसे स्थितः कश्चित् जनः यो त्वां अस्मात् विगर्हितात् कर्मणः निवारयति न अस्ति नूनं ॥ शचीपतेः शचीमिव धर्मात्मनः पत्नीं मां त्रिषु लोकेषु त्वदन्यः कः मनसादपि प्रार्थयेत् ॥ राक्षसाधम अमित तेजसः रामस्य भार्यां यत् पापं उक्तवान् असि तस्य क्व गतः मोक्ष्यसे ॥

Surely people who are interested in your welfare who can prevent you from this despicable act are surely not there. In the three worlds there is no body other than you who can even in his mind desire me the righteous Ram's wife who is pure like Sachi, the wife of Indra. Oh the Lowest among Rakshasas, for the sinful words you spoke to the wife of Rama who is of great brilliance, where can you go to escape the consequences?

यथा दृप्तश्च मातंगः शश श्च सहितो वने।
तथा द्विरदवद्रामस्त्वं नीच शशवत् स्मृतः॥16||
स त्वं इक्ष्वाकुनाथं वै क्षिपन्निहन लज्जसे।
चक्षुषोर्विषयं तस्य न ताव दुपगच्छसि॥17||
इमे ते नयने क्रूरे विरूपे कृष्णपिंगळे ।
क्षितौ न पतिते कस्मान्मामनार्य निरीक्षितः॥18||

स॥ युधि सदृशः दृप्तः मातंगः शशः च यथा , तथा नीचः रामः मातंवद्रामः त्वं शशवत् स्मृतः ॥ सः त्वं इक्ष्वाकुनाथं क्षिपन् न लज्जसे तस्य चक्षोर्विषयं तावत् न उपगच्छसि ॥ अनार्य माम् निरीक्षतः ते कॄरे विरूपे कृष्णपिंगाक्षे इमे नयने कस्मात् न पतिते क्षितौ।

Like a arrogant elephant in battle with a dog, in the same way you are like a mean dog and Rama is like the elephant. You should be ashamed of looking down upon that scion of Ikshvakus in whose sight you dare not walked. Oh Dishonorable wretch, seeing me with those dark brown eyes, why those eyes are not falling off on the ground?.

तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च।
कथं व्याहरतो मां तेन जिह्वा व्यवसीर्यते॥19||
असंदेशात्तु रामस्य तपसश्चानुपालनात्।
न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा॥20||
नापहर्तु महं शक्या त्वया रामस्य धीमतः।
विधिस्तव वधार्धाय विहितो नात्र संशयः॥21||
शूरेण धनदभ्रात्रा बलै स्समुदितेन च।
अपोह्या रामं कस्माद्धि दारचौर्यं त्वया कृतम्॥22||

स॥ तस्य ( रामस्य) धर्मात्मनः पत्नीं दशरथस्य स्नुषा च मां व्याहरतो तेन जिह्वा कथं न व्यवसीर्यते । भस्मार्ह दशग्रीव रामस्य असंदेशात् तपसः अनुपालनात् तेजसा त्वां भस्म नकुर्मि॥ धीमतः रामस्य अहं त्वया अपहर्तुं न शक्या । तव वधार्हाय विधिः अत्र विहितः न संशयः॥शूरेण धनदभ्रात्रा बलैः समुदितेन च त्वया रामं अपोह्य कस्मात् दारचौर्यं कृतं ।

While you thus speak to me, the wife of that righteous one and the daughter in law of King Dasaratha,why does not your tongue not fall on the ground. Though you deserve to be turned into ashes , oh Ten headed one ! for want of permission from Rama I am not turning you to ashes with my powers of penance. You are not capable of stealing me from Rama. Fate has made it happen for your death only. There is no doubt. You are a brother of Kubera , being a warrrior and you are possessed of an army, So why did you steal his wife, by tricking him?

सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः।
विवृत्य नयने क्रूरे जानकी मन्ववैक्षत॥23||

स॥ रावणः राक्षसाधिपः सीतायाः वचनम् श्रुत्वा जानकीं कॄरे विवृत्यनयने अन्ववैक्षत॥

Ravana hearing those words of Sita looked at her with deadly eyes.

नीलजीमूत संकाशो महाभुजशिरोधरः।
सिंहसत्वगतिः श्रीमान् दीप्तजिह्वाग्रलोचनः॥24||
चलाग्रमकुटप्रांशुः चित्रमाल्यानुलेपनः।
रक्तमाल्यांबरधर तत्संगदविभूषणः॥25||
श्रोणि सूत्रेण महता मेचकेन सुसंवृतः।
अमृतोत्पादनद्देन भुजगेनैव मंदरः॥26||

स॥ नीलजीमूत संकाशः महाभुजशिरोधरः सिंहसत्वगतिः श्रीमान् दीप्त जिह्वाग्रलोचनः ।चलाग्रमकुटप्रांशुः चित्रमाल्यानुलेपनः रक्तमाल्यांबरधरः तत्संगदविभूषणः॥अमृतोत्पादनद्धेन भुजगेन मन्दरः इव महता मेचकेन श्रोणिसूत्रेण सुसंवृतः॥

He was looking like mass of dark clouds, with strong arms and neck, with the gait of a lion , blazing eyes and tongue. He was wearing colorful garlands with an unsteady crown on his head, with red colored clothes and garlands as well as shining ornamental armlets. With black thread around his waist he was like the mount Mandara wrapped with black serpant at the time of the great churning for the nectar

ताभ्यां परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः।
शुशुभे चलसंकाशः शृंगाभ्यामिव मंदरः॥27||
तरुणादित्यवर्णाभ्यां कुंडलाभ्यां विभूषितः।
रक्तपल्लवपुष्पाभ्यां अशोकाभ्यां इवाचलः॥28||
सकल्पवृक्षप्रतिमो वसंत इव मूर्तिमान्।
श्मशानचैत्यप्रतिमो भूषितोsपि भयंकरः॥29||

स॥ ताभ्यां परिपूर्णाभ्यां भुजाभ्यां शृंगाभ्यां मंदर इव सः अचलसंकासः राक्षसेश्वरः शुशुभे॥ तरुणादित्य वर्णाभ्यां कुण्डलाभ्यां विभूषितः रक्तपल्लवपुष्पाभ्यं अशोकाभ्यां अचलः इव॥कल्पवृक्षप्रतिमः सः मूर्तिमान् वसंतः इव श्मशानचैत्यप्रतिमः भूषितः अपि भयंकरः ॥

The King of Rakshasas shone like the mount Mandara with his two long arms shining like two mountain peaks. Adorned with earrings of the color of the rising sun, he was looking like a mountain with two Ashoka trees with red leaves and flowers. Though resembling a wish fullfilling tree, like personification of spring season, he was fearsome like a memorial on burial grounds.

अवेक्षमाणो वैदेहीं कोपसंरक्त लोचनः।
उवाच रावण स्सीतां भुजंग इव निश्श्वसन्॥30||
अनयेनाभिसंपन्नम् अर्थहीनं अनुव्रते।
नाशया म्यहमद्य त्वां सूर्य स्संध्या मिवौजसा॥31||
इत्युक्त्वा मैथिलीं राज रावणः शत्रु रावणः।
संदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः॥32||

स॥ कोपसंरक्त लोचनः रावणः वैदेहीं अवेक्षमाणः भुजंग इव निःश्वसन् सीतां उवाच॥ अनयेन अभिसंपन्नं अर्थ हीनं अनुव्रते अद्य अहं त्वां सूर्य औजसासन्ध्यामिव नाशयामि ॥ राजा शत्रुरावणः मैथिलीं इति उक्त्वा ततः घोरदर्शनाः राक्षसीः संदिदेश॥

Looking at Vaidehi , with his eyes flashing red with anger and hissing like a serpent, Ravan spoke to Sita.'Oh Sita You are endowed with a wrong vows, following meaningless practices. I am going to destroy you like the Sun destroys twilight with his luster. Having said this the king, who torments his enemies, then addressed the fearsome looking Rakshsa women.

एकाक्षीं एककर्णां च कर्णप्रावरणं तथा।
गोकर्णीं हस्तिकर्णीं च लंबकर्णीं अकर्णिकाम्॥33||
हस्ति पाद्यश्वपाद्यौ च गोपादीं पादचूळिकम्।
एकाक्षीं एकपादीं च पृथुपादीं अपादिकाम्॥34||
अतिमात्र शिरो ग्रीवां अतिमात्र कुचोदरीम्।
अतिमात्रस्य नेत्रां च दीर्घजिह्वां अजिह्विकाम्॥35||
अनाशिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्।

एकाक्षीं एककर्णां तथा कर्णप्रावरणं च गोकर्णीं हस्तिकर्णीं लंबकर्णीं अकर्णिकाम् च॥हस्तिपाद्यः अश्वपाद्यः गोपादीं पादचूळीकां च एकाक्षीं एकपादीं पृथुपादीं अपादिकां च॥ अतिमात्र शिरोग्रीवां अतिमात्र कुचोदरीं अतिमात्रस्य नेत्रां च दीर्घजिह्वां अजिह्विकां च ॥ अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीं च।

Some Rakshasa women are with one eye, one ear. Some are with covered ears, ears of cow, ears of an elephant, long ears and there are those without ears. They have feet of an elephant, horse, or cow. Some of them have hair grown on the feet. Some are with one eye, one leg, many feet, and without feet too. Some are with huge neck and head, with large breasts and belly. Some are with large eyes, long tongue, without tongue too. Some are without nose, with the face of a lion, cow and boar too

यथा मद्वशगा सीता क्षिप्रं भवति जानकी॥36||
तथा कुरुत राक्षस्यः सर्वां क्षिप्रं समेत्य च।
प्रतिलोमानु लोमैश्च सामदानादि भेदनैः॥37||
अवर्जयत वैदेहीं दंडस्योद्यमनेनच।
इति प्रतिसमादिश्य राक्षसेंद्रः पुनः पुनः॥38||
कामन्युपरीतात्मा जानकीं पर्यतर्जयत्।

स॥ राक्षस्यः सर्वाः क्षिप्रं समेत्य जानकी सीता क्षिप्रं यथा मद्वशगा भवति तथा कुरुत॥प्रतिलोमानुलोमैश्च सामदानादिभेदनैः दंडस्य उद्यमानेन वैदेहीं अवर्जयत॥ राक्षसेंद्रः पुनः पुनः इति प्रतिसमासाद्य काममन्युपरीतात्मा जानकीं पर्यतर्जयत् ॥

'Oh Rakshasa women all of you together quickly make Sita to be under my control. Adopting means favorable or contrary using the pursuasion, gifts , confusion, or threats win over Vaidehi'. The king of Rakshasas burning with passion and anger thus ordering them again and again threatened Sita.

उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी॥39||
परिष्वज्य दशग्रीवं इदं वचनमब्रवीत्।
मयाक्रीड महाराज सीतया किं तवानया॥40||
विवर्णया कृपणया मानुष्या राक्षसेश्वर।
नूनं अस्या महाराज न दिव्यान् भोगसत्तमान्॥41||
विददधात्यमरश्रेष्ठः तव बाहुबलार्जितान्

स॥ ततः धान्यमालिनी राक्षसी शीघ्रं उपगम्य दशग्रीवं परिष्वज्य इदं वचनं अब्रवीत्॥महाराज मया क्रीड। राक्षसेश्वर विवर्णया कृपणया मानुष्या अनया सीतया तव किं ॥ महाराज अमरश्रेष्ठः तव बाहुबलार्जितान् दिव्यान् भोगसत्तमान् अस्याः नूनं न विदधाति ॥

Then a Rakshasa woman Dhyanamalini quickly approached the ten headed one embracing him said the following words. 'Oh King ! Play with me. Oh King of Rakshasas! What have you to do with this pale, pitiable human being Sita? Oh Great King ! The immortal luxuries won by the power of your arms are not to be given to this one surely'.

अकामं कामयानस्य शरीरमुपतप्यते॥42||
इच्छंतीं कामयानस्य प्रीतिर्भवति शोभना।
एवमुक्तस्तु राक्षस्या समुत्‍क्षिप्त स्ततो बली॥43||
प्रहसन्मेघ संकाशो राक्षसः स न्यवर्तत।

स॥ अकामां कामयानस्य शरीरं उपतप्यते इच्छंतीं कामयानस्य शोभना प्रीतिः भवति ॥राक्षस्या एवमुक्तः बली मेघसंकाशः सः राक्षसः ततः समुत्‍क्षिप्तः प्रहसन् न्यवर्तत॥

'Offering oneself to an uncaring one is tormented. Offering oneself to one who loves gets enjoyable pleasures'. Having been addressed thus, the powerful Rakshasa resembling a cloud turned away laughing heartily.

प्रस्थित स्स दशग्रीवः कंपयन्निव मेदिनीम्॥44||
ज्वलद्भास्करवर्णाभां प्रविवेश निवेशनम्।
देवगंधर्व कन्याश्च नागकन्याश्च सर्वतः।
परिवार्य दशग्रीवं विविशु स्तं गृहोत्तमम् ॥45||

स॥ सः दशग्रीवः मेदिनीं कंपयन्निव प्रस्थितः ज्वलदभास्करवर्णाभम् निवेशनम् प्रविवेश॥देवगंधर्वकन्याः च नागकन्याः च सर्वत्ः दशग्रीवं परिवार्य तं गृहोत्तमं विविशुः॥

That ten headed one left as if shaking the earth, entered his residence with the glow like that of the blazing mid day Sun. The daughters of Devas Gandharvas and Nagas too followed the ten headed one and entered their palace.

स मैथिलीं धर्मपरां अवस्थिताम्
प्रवेपमानां परिभर्त्स्य रावणः।
विहायसीतां मदनेन मोहितः
स्वमेव वेश्म प्रविवेश भास्वरम्॥46||

सः रावणः धर्मपरां अवस्थितां प्रवेपमानां मैथिलीं परिभर्त्स्य सीतां विहाय मदनेन मोहितः भास्वरं स्वं वेश्मेवप्रविवेश॥

Having derided Mythili who is steadfast wedded to righteous conduct, who is trembling with fear, that Ravana who is over powered with passion left and he entered his glittering mansion.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे द्वाविंशस्सर्गः॥

Thus ends the Sarga twenty two of Sundarakanda in Ramayana the first ever poem composed by the first poet in Sanskrit sage Valmiki.

||om tat sat||

॥ ऒम् तत् सत्॥