||Sundarakanda ||

|| Sarga 23||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ त्रयोविंशस्सर्गः

इत्युक्त्वा मैथिलीं राजा रावणः शत्रु रावणः।
संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह॥1||
निष्क्रांते राक्षसेंद्रे तु पुनरंतःपुरं गते।
राक्षस्यो भीमरूपाः ताः सीतां समभिदुद्रुवुः॥2||

स॥ मैधिलीं इत्युक्त्वा रावणाः शत्रु रावणः ततः सर्वान् राक्षसीः संदिश्य च ततः राजा निर्जगाम॥ राक्षसेंद्रे पुनः अंतःपुरं गते निष्क्रांते तु भीमरूपाः राक्षस्यः तां सीतां समभिदुद्रुवुः॥

Thus having told Maithili , Ravana, the tormentor of enemies , commanded all the Rakshasa women too and then left ( for his palace). After the king of Rakshasas left for the inner harem, the fearsome Rakshasa women surrounded Sita.

ततस्सीतां उपागम्य रक्षस्यः क्रोथमूर्चिताः।
परं परुषया वाचा वैदेहीं इदमब्रुवन् ॥3||
पौलस्तस्य वरिष्ठस्य रावणस्य महात्मनः।
दशग्रीवस्य भार्या त्वं सीते न बहुमन्यसे॥4||

स॥ ततः रक्षस्यः क्रोधमूर्छिताः सीतां वैदेहीं उपागम्य परं परुषया वाचा इदं अब्रुवन् ॥ सीते महात्मनः पौलस्तस्य वरिष्ठस्य दशग्रीवस्य भार्या त्वं न बहुमन्यसे ॥

Then the Rakshasa women having lost their senses in anger, approached Sita and said the following angry words. ’Oh Sita ! Don't you think that it is a privilege to be the wife of the great soul , son of Pulastya, the ten headed Ravana'.

ततस्त्वेकजटा नाम राक्षसी वाक्यम ब्रवीत्।
आमंत्र्य क्रोधताम्राक्षी सीतां करतलोदरीम्॥5||
प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः।
मानसो ब्रह्मणः पुत्त्रः पुलस्त्य इति विश्रुतः॥6||
पुलस्तस्य तु तेजस्वी महर्षिर्मानसः सुतः।
नाम्ना स विश्रवा नाम प्रजापति समप्रभः॥7||
तस्य पुत्त्रो विशालाक्षी रावण श्शत्रु रावणः।
तस्य त्वं राक्षसेंद्रस्य भार्या भवितुमर्हसि॥8||
मयोक्तं चारु सर्वांगी वाक्यं किं नानुमन्यसे।

स॥ ततः एकजटा नाम राक्षसी आमंत्र्य क्रोधताम्राक्षी करतलोदरीं सीतां (इदं) वाक्यं अब्रवीत् । षण्णां प्रजापतीनां चतुर्थो प्रजापति पुलस्त्यः यः ब्रह्मणः मानसपुत्रः इति विश्रुतः तु ॥ तेजस्वी पुलस्तस्य मानसः सुतः महर्षिः विश्रवाः नामः सः प्रजापति समप्रभः ॥ विशालाक्षी रावणः शत्रु रावणः तस्य पुत्त्रः । तस्य राक्षसेंद्रस्य भार्या भवितु त्वं अर्हसि॥चारु सर्वांगी मयोक्तं वाक्यं किं न अनुमन्यसॆ?॥

Then one Rakshasi by name Ekajataa who had eyes red with anger, told Sita with a belly of the size of a palm the following words. ' Pulastya, the fourth among six Prajapatis, is known as the son born out of mind of Brahma. The glorious Pulastya's son born out of mind , equal in splendor to Prajapatis is great Rishi Visrava. Oh wide eyed one ! Ravana, the tormentor of enemies is his son. You deserve to be his wife. Oh lady of beautiful limbs ! Why do you not follow the words spoken by me?'

ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्॥9||
विवर्त्य नयने कोपात् मार्जार सदृशेक्षणा।
येन देवाः त्रय स्त्रिंशत् देवराजश्च निर्जिताः॥10||
तस्य त्वं राक्षसेंद्रस्य भार्या भवितु मर्हसि।

स॥ ततः मार्जार सदृसेक्षणा हरिजटा नाम राक्षसी विवृत्य नयनः कोपात् (इदं) वचनं अब्रवीत् ॥ येन त्रयत्रिंशत् देवाः देवराजश्च निर्जिताः तस्य राक्षसेंद्रस्य भार्या भवितुं अर्हसि॥

Then a cat eyed Rakshasi by name Harijata who had eyes rolling in anger, said the following words. 'You deserve to be the wife of that king of Rakshasas who defeated thirty three crore gods including the king of Devas'.

ततस्तु प्रघसा नाम राक्षसी क्रोधमूर्चिता॥11||
भर्त्ययंती तदा घोरम् इदं वचनमब्रवीत् ।
वीर्योत्सिक्तस्य शूरस्य संग्रामे ष्वनिवर्तिनः॥12||
बलिनो वीर्ययुक्तस्य भार्या किं त्वं न लप्स्यसे।
प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः॥13||
सर्वासां च महाभागां त्वामुपैष्यति रावणः।
समुद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्॥14||
अंतः पुरं समुत्सृज्य त्वामुपैष्यति रावणः।

स॥ ततः क्रोधमूर्छिता घोरं भर्त्सयंती प्रघसा नाम राक्षसी इदं घोरं वचनं अब्रवीत्॥ वीर्योत्सिक्तस्य शूरसुअ संग्रामेषु अनिवर्तिनः बलिनः वीर्ययुक्तस्य भार्या त्वं किं न लप्स्यसे॥रावणः महाबलः सर्वासां च महाभागां बहुमतां भार्यां त्यक्त्वा राजा त्वां उपैष्यति ॥ रावणः स्त्रीसहस्रेण समृद्धं नानारत्नोपशोभितं अंतः पुरं समासाद्य त्वां उपैष्यति ॥

Then a Rakshasi who lost her senses in anger, spoke these terrible words deriding Sita.' Why are you not wishing to be the wife of the mighty valiant one, who never retreats in battle. The most powerful Ravana rejecting all the highly respectable ladies including his dear favorite lady, is desiring you. Ravana abandoning thousand wives in his harem provided with all kinds of gems , is desiring you'.

अन्यातु विकटानाम राक्षसी वाक्यमब्रवीत्॥15||
असकृद्देवतायुद्दे नागगंधर्व दानवाः।
निर्जिता स्समरे येन स ते पार्श्वमुपागतः॥16||
तस्य सर्वसमृद्धस्य रावणस्य महात्मनः।
किमद्य राक्षसेंद्रस्य भार्या त्वं नेच्छसेsधमे ॥17||

स॥ विकटा नाम अन्या राक्षसी (इदं) वाक्यं अब्रवीत् । येन असकृत् युद्धे देवताः नाग गंधर्व दानवाः युद्धे समरे निर्जिताः सः ते पार्श्वं उपागतः॥ अथमे तस्य सर्वसमृद्धस्य महात्मनः रावणस्य राक्ष्सेंद्रस्य भार्या किं न इच्छसे।

Then a Rakshasi by name Vikata said the following words. ' He who has often defeated Devas , Nagas, Gandharvas , Danavas in battle wants to be by your side. Oh Foolish woman! Why do you not wish to be the wife of the great soul Ravana who has abundance of wealth ?

ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत्।
यस्य सूर्यो न तपति भीतो यस्य च मारुतः॥18||
न वाति स्मायतापांगे किं त्वं तस्य न तिष्ठसि।

स॥ ततः दुर्मुखी नाम राक्षसी (इदं) वाक्यं अब्रवीत् । आयतापांगे यस्य भीतः सूर्यः न तपति यस्य च मारुतः न वाति स्म तस्य त्वं किं न तिष्ठसि ॥

Then a Rakshasi by name Durmukhi spoke the following words.' O Lady of long side glances ! Why don't you stand by that one afraid of whom the Sun does not shine brightly and the wind does not blow?'

पुष्पवृष्टिं च तरवो मुमुचुरस्य वै भयात्॥19||
ततस्तु सुभ्रु पानीयं जलादाश्च यदेच्छति।
तस्य नैरृतराजस्य राजराजस्य भामिनी॥20||
किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि।

स॥ सुभ्रु भामिनि यस्य भयात् तरवः पुष्पवृष्ठिं मुमुचुः यदा इच्छति शैलाश्च जलदाश्च पानीयं नैर्रुतराजस्य राजराजस्य तस्य रावणस्य भार्यार्थे बुद्धिं त्वं न कुरुषे?॥

'Oh Lady with beautiful eyebrows ! Why not you make up your mind to be the wife of Ravana , the king of kings, king of Southwest, afraid of whom the trees shower flowers, the mountains and clouds release water ?'

साधुते तत्त्वतो देवि कथितं साधु भामिनि॥21||
गृहाण सुस्मिते वाक्यं अन्यथा न भविष्यसि।

स॥ सुस्मिते भामिनि देवि तत्त्वतः साधु ते कथितं वाक्यं गृहाण अन्यथा न भविष्यसि ॥

Oh Lady with gentle smile ! Accept these words spoken truly in your ineterest , otherwise you will not be alive.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे त्रयोविंशस्सर्गः॥

Thus ends the thwenty third Sarga of Sundarakanda in Ramayana the first poem in Sanskrit composed by the first poet sage Valmiki

||om tat sat||