||Sundarakanda ||

|| Sarga 26||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ षड्विंशस्सर्गः

प्रसक्ताश्रुमुखी त्येवं ब्रुवंती जनकात्मजा।
अधोमुखमुखी बाला विलप्तुमुपचक्रमे॥1||
उन्मत्तेव प्रमत्तेव भ्रांतचित्तेव शोचती।
उपावृता किशोरी व विवेष्ठंती महीतले॥2||

स॥ प्रसक्ताश्रुमुखी बाला जनकात्मजा एवं ब्रुवंतीअधोगतमुखी विलप्तुं उपचक्रमे॥ उन्मत्तेव प्रमत्तेव भ्रांतचित्तेव शोचती उपावृता किशोरी इव महीतले विवेष्टंती॥

With face filled with tears and down cast , the young lady who is Janaka's daughter began to cry. Like a bewildered person, intoxicated one, like person with distracted mind and worrying she was wallowing like a female horse on the ground.

राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा।
रावणेन प्रमध्याsह मानीता क्रोशती बलात्॥3||
राक्षसी वशमापन्ना भर्त्स्यमाना सुदारुणम्।
चिंतयंती सुदुःखार्ता नाहं जीवितु मुत्सहे॥4||
नहि मे जीवितैरर्थो नैवार्थैर्न च भूषणैः।
वसंत्या राक्षसी मध्ये विना रामं महारथम्॥ 5||

स॥राघवस्य प्रमत्तस्य कामरूपिणा रक्षसा रावणेन प्रमध्या क्रोशती अहं बलात् आनीता॥ राक्षसी वशं आपन्नासुदारुणं भर्त्स्यमाना चिंतयंती सुदूःखार्ता अहं जीवितुं न उत्सहे॥विना महारथं रामं राक्षसी मध्ये वसंत्य मे जीवितैः अर्थः न हि। न एव अर्थैः न च भूषणैः ।

When Raghava was away , I was brought forcibly while crying by Ravana the Rakshasa who can take any form. Being under the conrol of the Rakshasis, dreadfuly threatened , worrying and overcome with grief , I have no interest to live. , Living in the middle of Rakshasa women there is no meaning for this life without the great charioteer Rama. Neither wealth nor the ornaments matter.

अश्मसार मिदं नूनं मथवा प्यजरामरम्।
हृदयं मम येनेदं न दुःखे नावशीर्यते॥6||
धिज्ञ्मामनार्य मसतीं या हं तेन विनाकृता।
मुहूर्तमपि रक्षामि जीवितं पाप जीविता॥7||
का च मे जीविता श्रद्धा सुखेवा तं प्रियं विना।
भर्तारं सागरांतायाः वसुधायाः प्रियं वदम्॥8||

स॥अथवा मम इदं हृदयम् नूनं अश्मसारं अजरामजरं अपि येन दुःखेन अ अवसीर्यते॥ तेन विना कृता मुहूर्तं अपि जीवितं रक्षामि (तत्) अनार्यं ।अहं पापजीविता असतीं माम् धिक् ॥ सागरांतायाः वसुधायाः भर्तारम् प्रियंवदं तं विना मे जीविते स्सुखेवा श्रद्धा का?

Or this my heart is surely made of stone, or it has no age or death since it is not riven with grief. That without him I am protecting this life even for a moment is improper. I am an infidel, a woman of sinful life. Fie on me. Why interest in pleasure or happiness in my life, without the sweet tongued Lord of the earth stretching up to shores of the oceans.

भिद्यतां भक्ष्यतां वापि शरीरं विशृजाम्यहम्।
न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता॥9||
चरणे नापि सव्येन न स्पृशेयं निशाचरम्।
रावणं किं पुनरहं कामयेयं विगर्हितम्॥10||
प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम्।
यो नृशंस स्वभावेन मां प्रार्थयितुमिच्छति॥11||
छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपिता।
रावणं नोपतिष्ठेयं किं प्रलापेन न श्चिरम्॥12||

स॥अहं शरीरं विसृजामि । भिद्यतां भक्ष्यतां वा अपि प्रियवर्जिता अहं चिर दुःखं न च सहेयं॥ अयं निशाचरं विगर्हितां रावणं चरणेन सव्येन अपि न स्पृशे।किं पुनः कामये अयं? यः नृशंस भावेन मां प्रार्थयितुं इच्छति (सः) आत्मानं प्रत्याख्यातंन जानाति। आत्मनः कुलं न ( जानाति)॥ छिन्ना वा भिन्ना दीप्ते अग्नौ प्रदीपिता रावणम् नोपतिष्टेयं । चिरं विभक्ताः प्रलापेन किम्?॥

I will leave this body. Cut me to peices, or eat me up. Without my dear husband, I cannot bear this sorrow for too long. I cannot touch this vile night roamer Ravana even with my left foot. Where is the question of loving him. This man of cruel nature who wants to plead with me, he is not aware of his own loss of fame. Nor the loss of his family. Whether cut or broken into pieces, or burnt by fire I will not accept Ravana. What is the use of your raving so long.

ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः।
सद्वृत्तो निरनुक्रोशः शंके मद्भाग्य संक्षयात्॥13||
राक्षसानां सहस्राणि जनस्थाने चतुर्दशः।
येनै केन निरस्तानि स मां किं नाभिपद्यते॥14||
निरुद्धा रावणे नाहं अल्पवीर्येण रक्षसा।
समर्थः खलु मे भर्ता रावणं हंतुमाहवे॥15||
विराधो दंडकारण्ये येन राक्षस पुंगवः।
रणे रामेण निहतः स मां किं नाभिपद्यते॥16||

स॥ राघवः ख्यातः प्राज्ञः कृतज्ञः सद्वृत्तः च । सः अनुक्रोशः मद्भाग्यसंक्षयात् निरनुक्रोशः शंके॥ येन एकेन जनस्थाने चतुर्दशः सहस्राणि राक्षसानां निरस्तानि सः मां किं न अभिपद्यते॥अहं आल्पवीर्येण रक्षसा रावणेन निरुद्धा मे भर्ता आहवे रावणं हंतुं समर्थः खलु॥ येन दंडकारण्ये रणे राक्षसपुंगवः विराधः निहतः सः मां किं न अभिपद्यते॥

Raghava is renowned as wise grateful and well behaved. I doubt that kind hearted one due to my misfortune became pitiless. The one who killed fourteen thousand Rakshasas in Janasthana , why is he not protecting me? I am held captive by this Rakshasa of inferior valor. My husband is surely capable of killing Ravana in a battle. The one who killed Viradha the bull among Rakshasa in a fight in the Dandaka forest, why is he not protecting me.

कामं मध्ये समुद्रस्य लंकेयं दुष्प्रधर्षणा।
न तु राघव बाणानां गतिरोधी ह विद्यते॥17||
किन्नु तत्कारणं येन रामो धृढ पराक्रमः।
रक्षसापहृतां भार्या मिष्टां नाभ्यवपद्यते॥18||

स॥समुद्रस्य मध्ये इयं लंका दुष्प्रधर्षणा तु राघवबाणानां गतिरोधः न भविष्यति॥ तत् कारणं किं नु येन दृढपराक्रमः रामः रक्षसा अपहृतां भार्या इष्टां न अभ्यवपद्यते॥

This Lanka in the middle of the sea is impregnable. But nothing can resist Rama's arrows. What is that reason because of which the highly powerful Rama is not able to reach his dear wife abducted by the Rakshasa.

इहस्थां मां न जानीते शंके लक्ष्मण पूर्वजः।
जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति॥19||
हृतेति योsधिगत्वा मां राघवाय निवेदयेत् ।
गृधराजोsपि स रणे रावणेन निपातितः॥20||
कृतं कर्म महत्तेन मां तथाsभ्यवपद्यता।
तिष्ठता रावणद्वंद्वे वृद्धेनापि जटायुषा॥21||

स॥ लक्ष्मण पूर्वजः मां इहस्थां न जानीते शंके। जानन् अपि तेजस्वी धर्षणं मर्षयिष्यति॥ यः अधिगत्वा हृतः इति राघवाय निवेदयत् सः गृधराजः अपि रावणेन रणे निपातितः॥माम् तथा अभ्यवपद्यता वृद्धेनापि रावणद्वंद्वे तिष्ठता तेन जटायुषा महत् कर्म कृतम्॥

The elder brother of Lakshmana does not know that I am here. I doubt whether that the glorious one is tolerating even after knowing that outrageous act .That king of vultures who knows that i am abducted and hence can tell Rama. But that one has bee killed by Ravana in the fight. That Jatayu who though old stood by me in the duel with Ravana, did a great help.

यदि मा मिह जानीयात् वर्तमानं स राघवः।
अद्य बाणै रभिक्रुद्धः कुर्याल्लोकमराक्षसम्॥22||
विधमेच्छ पुरीं लंकां शोषयेच्छ महोदधिम्।
रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत्॥23||

स॥ स॥सः राघवः मां इह वर्तमानं जानीयात् यदि अभिकृद्धः लोकं बाणैः अद्य अराक्षसं कुर्यात् ॥ लंकां पुरीं विधमेच्छ महोदधिं शोषमेच्छनीचस्य रावणस्य कीर्तिं नाम च नाशयेत्॥

If that Rama knows that I am here , then being angry he would have made this world free of Rakshasas. He will blow away the city of Lanka. He will drain the oceans. He will destroy the name and fame of that evil Ravana.

ततो निहता नाधानां राक्षसीनां गृहे गृहे।
यथा हमेवं रुदती तदा भूयो नसंशयः॥24||
अन्विष्य रक्षसां लंकां कुर्याद्रामः सलक्ष्मणः।
न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति॥25||

स॥ ततः अहं यथा एवं रुदती तथा गृहे गृहे निहत नाथानां राक्षसीनां भूयः न संशयः॥सलक्ष्मणः रामः रक्षसां लंकां अन्विष्य कुर्यात् ताभ्यां दृष्टः रिपुः मुहूर्तं अपि न जीवति हि ॥

Then I will see Rakshasa women who lost their husbands crying in every house like me. I have no doubt. If only Rama along with Lakshmana search this Lanka, the enemies cannot stand in their sight even for a moment.

चिताधूमाकुलपथा गृधमंडल संकुला ।
अचिरेण तु लंकेयं श्मशान सदृशीभवेत्॥26||
अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम्।
दुष्प्रस्थानोsय माख्याति सर्वेषां वो विपर्ययम्॥27||

स॥ इयं लंका अचिरेण चिताधूमकुलपथा गृथमंडल संकुला श्मशान सदृशी भवेत्॥ अचिरेण कालेन मनोरथं प्राप्स्यमेव । अयं दुष्प्रस्थानः सर्वेषां वः विपर्ययम् आख्याति।

This Lanka will soon be like a cremation ground with its streets covered with smoke , with vultures flying around. Very soon my desire will be fulfilled. All the bad behavior of you people indicates a reversal of fate.

यादृशा नीह दृश्यंते लंकाया मशुभानि वै।
अचिरेण तु कालेन भविष्यति हतप्रभा॥28||
नूनं लंका हते पापे रावणे राक्षसाधमे।
शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा॥29||
पुण्योत्सवसमुत्था च नष्टभर्त्री स राक्षसी।
भविष्यति पुरी लंका नष्टभर्त्री यथांगना॥30||

स॥ इह लंकायां यादृशानि अशुभानि दृश्यंते अचिरेणैव कालेन (लंका) हतप्रभा भविष्यति॥ पापे राक्षसाधमे रावणे हते दुर्धर्षा लंका नूनं विधवा प्रमदा यथा शोषं यास्यति॥ पुण्योत्सव समुत्था लंकापुरी नष्टभर्त्री नष्टभर्त्री अंगना यथा भविष्यति ॥

In this Lanka such inauspicious signs are seen that in very soon Lanka will lose its splendour. When the mean sinner the Rakshasa Ravana is killed , this impregnable Lanka will wither away like a widow. Along with Rakshasa women, the city of Lanka which had many auspicious celebrations, having lost the king will remain like a woman with the death of her husband .

नूनं राक्षसकन्यानां रुदंतीनां गृहे गृहे।
श्रोष्यामि न चिरादेव दुःखार्ताना मिह ध्वनिम्॥31||
सांधकारा हतद्योता हत राक्षसपुंगवा।
भविष्यति पुरी लंका निर्दग्धा रामसायकैः॥32||

स॥ न चिरादेव इह गृहे गृहे दुःखार्तानां रुदन्तीनां राक्षसकन्यानां ध्वनिं नूनं श्रोष्यामि॥ लंकापुरी रामसायकैः निर्दग्धा स अंधकारा हतद्योता हतराक्षसपुंगवा भविष्यति ॥

Very soon I will surely hear the sounds of distressful cries of Rakshasa women from every house. The city of Lanka will be totally burnt filled with darkness losing its splendor and all the Rakshasa warriors will be killed by the arrows of Rama.

यदि नाम स शूरो मां रामो रक्तांतलोचनः।
जानीयाद्वर्तमानां हि रावणस्य निवेशने॥33||
अनेन तु नृशंसेन रावणे नाधमेन मे।
समयो यस्तु निर्दिष्टः तस्यकालोsयमागतः॥34||
स च मे विहितो मृत्युरस्मिन् दुष्टे न वर्तते।

स॥ यदि रक्तांतलोचनः सः रामः रावणस्य निवेशने वर्तमानां यदि नाम जानीयात् । नृशंसेन अधमेन अनेन रावणेन यः समयः मे निर्दिष्टः तस्यअयं कालः आगतः। मेविहितः सः मृत्युः अस्मिन् दुष्टेन वर्तते॥

If the heroic Rama with blood shot eyes knows that I am in the Ravana's palace ,the time limit which has been set by this lowly person Ravana has now arrived , the death fixed by this vile person is his own death.

अकार्यं ये न जानंति नैरृतां पापकारिणः।
अधर्मात्तु महोत्पातो भविष्यति हि सांप्रतम् ॥35||
नैते धर्मं विजानंति राक्षसाः पिशिताशनाः।

स॥ पापकारिणः ये नैर्रुताः अकार्यं न जानंति । अधर्मात् संप्राप्तं महोत्पातः भविष्यति ।पिशिताशनाः एते रक्षसाः धर्मं न जानंति ॥

These sinners do not know the forbidden acts. Due to improper acts great calamities will happen. These flesh eating Rakshasas do not know righteous conduct.

ध्रुवं मा प्रातराशार्थे राक्षसः कल्पयिष्यति॥36||
साsहं कथम् करिष्यामि तं विना प्रियदर्शनम्।
रामं रक्तांतनयनं अपस्यंती सुदुःखिता॥37||

स॥ राक्षसः ध्रुवं मां प्रातराशार्थे कल्पयिष्यति । सा अहं प्रियदर्शनम् तं विना कथं करिष्यामि । रक्तांतनयनम् रामं अपश्यंती सुदुःखिता॥

These Rakshasas will definitely make a morning meal of me. What can I do without the Rama who is pleasing to the eyes. Unable to see the one with reddish tinge in his eyes I am distressed very much.

यदि कश्चित्प्रदातामे विषस्याद्य भवेदिह।
क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना॥38||
ना जाना ज्जीवतीं रामः स मां लक्ष्मणपूर्वजः।
जानंतौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम्॥39||

स॥ अद्य मे विषस्य प्रदाता कश्चित् इह भवेत् यदि पतिना विना क्षिप्रं देवं वैवस्वतं पश्येयम्॥लक्ष्मणपूर्वजः सः रामः माम् जीवतीं नाजानात् तौ जानंतौ मम मार्गणं उर्व्याम् न कुर्यताम् इति न॥

If there is aperson who can give poison is here, I am ready to see the Lord of death without my lord . That Rama the elder brother of Lakshmana does not know that I am living . If they knew they would not have left searching all over.

नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः।
देवलोक मितोयातः त्यक्त्वा देहं महीपते॥40||
धन्या देवाः सगंधर्वाः सिद्धाश्चपरमर्षयः।
मम पश्यंति ये नाथं रामं राजीव लोचनम्॥41||
अथवा किन्नु तस्यार्थो धर्मकामस्य धीमतः।
मया रामस्य राजर्षेर्भार्यया परमात्मनः॥42||

स॥ वीरः लक्ष्मणाग्रजः सः मम शोकेनैव महीतले देहं त्यक्त्वा इतः देवलोकं यातः नूनं॥ मम नाथं राजीवलोचनम् रामं ये पश्यंति देवाः सगंधर्वाः सिद्धाश्च परमर्षयः धन्याः॥अथवा धर्मकामस्य धीमतः राजर्षेः परमात्मनः तस्य रामस्य भार्यया मया अर्थः न हि॥

The heroic elder brother of Lakshmana left his body on the earth in distress , and surely went to the abode of gods. Seeing my husband who has eyes like that of lotus petals, the gods along with the Gandharvas, Siddhas and the great sages will be blessed. Or else the wise one ever seeking dharma, the royal sage , the supreme self has lost interest in me his wife.

दृश्यमाने भवेत्प्रीतिः सौहृदं नास्त्यपश्यतः।
नाशयंति कृतघ्नास्तु न रामो नाशयिष्यति॥43||
किं नु मे नगुणाः केचित् किंवा भाग्यक्षयो मम।
याsहं सीदामि रामेण हीना मुख्येन भामिनी॥44||
श्रेयो मे जीवितान् मर्तुं विहीनया महात्मनः।
रामादक्लिष्ट चारित्रात् शूरात् शत्रुनिबर्हणात्॥45||

स॥ दृश्यमाने प्रीतिः भवेत् अपश्यतः सौहृदं नास्ति। कृतघ्नाः नाशयंति रामस्तु न नाशयिष्यति॥ भामिनी या अहं मुख्येन रामेण विना सीदामि मेकेचित् गुणाः न किं नु । किं वा मम भाग्यक्षयः ( अबहवत्)॥
स॥ अक्लिष्टचारित्रात् शूरात् शत्रुनिबर्हणात् महात्मनः रामात् विहीनायाः मे जीवितात् मर्तुं श्रेयः॥

When one keeps seeing love will happen. If you donot see friendship does not last. For the ungrateful one's love perishes. Rama's love will not perish. A charming lady that I am , and that I am able to live without Rama , does it mean that some qualities are not in me? Is my fortune diminished? It is better for me to die instead of living separated from the great soul Rama who is of blemish less character, who is heroic, who can destroy his enemies ,

अथवा न्यस्तशस्त्रौ तौ वने मूलफलाशिनौ।
भ्रातरौ हि नरश्रेष्टौ संवृतौ वनगोचरौ॥46||
अथवा राक्षसेंद्रेण रावणेन दुरात्मना।
छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ॥47||
साsहमेवं गते काले मर्तु मिच्छामि सर्वथा।
न च मे विहितो मृत्यु रस्मिन् दुःखेsपि वर्तति॥48||

स॥ अथवा नरश्रेष्ठौ तौ भ्रातरौ न्यस्त शस्त्रौ वने मूलफलासिनौ वनगोचरौ संवृतौ॥ अथवा शूरौ भ्रातरौ रामलक्ष्मणौ दुरात्मना राक्षसेंद्रेण रावणेन छद्मना घातितौ॥ एवं गते काले सा अहं सर्वथा मर्तुं इच्छामि । अस्मिन् दुःखे अपि मे मृत्युः विहितः न वर्तते॥

Or else those two brother best among men , laid down their arms and are roaming the forest as ascetics livng on fruits and roots. Or else the two heroic brothers would have been killed by that cruel deceptive Ravana. In these times by all means I wish to die. In this sorrow even the death seems to be not possible.

धन्याः खलु महात्मानो मुनयः त्यक्त किल्बिषाः।
जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये॥49||
प्रियान्न संभवेत् दुःखं अप्रियादधिकं भयं।
ताभ्यां हि ये नियुज्यंते नमस्तेषां महात्मनाम्॥50||

स॥ महात्मनः त्यक्तकिल्बिषाः जितात्मनः महाभागाः मुनयः धन्याः खलु येषाम् प्रिया अप्रिये न स्तः॥ प्रियात् दुःखं अप्रियात् अधिकं भयं न संभवेत् ये ताभ्यां वियुज्यंते तेषां महात्मनां नमः॥

Great men who have given up all sins, the exalted ones who have won over the self, the sages are blessed . For them the pleasure or displeasure does not exist. Sorrow from pleasing act , or fear from unpleasant act does not happen to them. Those who have distanced themselves from these dualities are great souls. Salutations to them.

साsहं त्यक्ता प्रियार्हेण रामेण विदितात्मना ।
प्राणां स्त्यक्ष्यामि पापस्य रावणस्य गता वशम्॥51||

स॥ प्रियेणैव विदितात्मना रामेन त्यक्ता पापस्य रावणस्य वशम् गता सा अहं प्राणां तक्ष्यामि ॥

Separated from Rama who is a realized self, being under the control of the sinner Ravana, I will give up this life.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे षड्विंशस्सर्गः॥

Thus ends the twenty sixth Sarga of Sundarakanda in Ramayana the first ever poem composed by the first poet sage Valmiki.

||om tat sat||