||Sundarakanda ||

|| Sarga 27||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ सप्तविंशस्सर्गः

इत्युक्ताः सीतया घोरा राक्षस्यः क्रोधमूर्छिताः।
काश्चित् जग्मुः तदाख्यातुं रावणस्य तरस्विनः॥1||

ततस्सीता मुपागम्य राक्षस्यो घोरदर्शनाः।
पुनः परुषमेकार्थं अनर्थार्थम् अथाब्रुवन्॥2||

अद्येदानीं तवानार्ये सीते पापविनिश्चये।
राक्षस्यो भक्षयिष्यंति मांस मेतत् यथासुखम्॥3||

सीतां ताभि रनार्याभिः दृष्ट्वा संतर्जितां तदा।
राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत् ॥4||

आत्मानं खादता नार्या न सीतां भक्षयिष्यथ।
जनकस्य सुता मिष्टां स्नुषां दशरथस्य च॥5||

स्वप्नो हृद्य मया दृष्टो दारुणो रोमहर्षणः।
राक्षसानां अभावाय भर्तुरस्या जयाय च॥6||

एवमुक्ता त्रिजटाया राक्षस्यः क्रोधमूर्छिताः।
सर्वा एवाब्रुवन् भीताः त्रिजटां तां इदं वचः॥7||

कथयस्व त्वया दृष्टः स्वप्नोsयं कीदृशो निशि।
तासां श्रुत्वातु वचनं राक्षसीनां मुखाच्च्युतम्॥8||

उवाच वचनं काले त्रिजटा स्वप्न संस्थितम्।
गजदंतमयीं दिव्यां शिबिकामंतरिक्षगाम्॥9||

युक्तां हंस सहस्रेण स्वयमास्थाय राघवः।
शुक्लमाल्यांबरधरो लक्ष्मणेन सहागतः॥10||

स्वप्ने चाद्य मया दृष्टा सीता शुक्लांबरावृता।
सागरेण परिक्षिप्तं श्वेतं पर्वत मास्थिता॥11||

रामेण संगता सीता भास्करेण प्रभा यथा।
राघवश्च मया दृष्ट श्चतुर्दंतं महागजम्॥12||

आरूढः शैलसंकाशं चचार सह लक्ष्मणः।
ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा॥13||

शुक्लमाल्यांबरधरौ जानकीं पर्युपस्थितौ।
ततस्तस्य स्याग्रे ह्याकाश स्थस्य दंतिनः॥14||

भर्त्रा परिगृहीतस्य जानकी स्कंधमाश्रिता।
भर्तुरंकात् समुत्पत्य ततः कमललोचना॥15||

चंद्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती।
ततस्ताभ्यां कुमाराभ्या मास्थितः स गजोत्तमः॥16||

सीतया च विशालाक्ष्या लंकाया उपरिस्थितः।
पाण्डुरर्षभ युक्तेन रथे नाष्टयुजा स्वयम्॥ 17||

इहोपयातः काकु‍त् स्थः सीतया सह भार्यया।
लक्ष्मणेन सहभ्रात्रा सीतया सह वीर्यवान् ॥18||

आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम्।
उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः॥19||

एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः।
लक्ष्मणेन सहभ्रात्रा सीताय सह भार्यया॥20||

न हि रामो महातेजा श्शक्यो जेतुं सुरासुरैः।
राक्षसैर्वापि चान्यैर्वा स्वर्गं पापजनैरिव॥21||

रावणश्च मयादृष्टः क्षितौ तैलसमुत्‍क्षितः ।
रक्तवासाः पिबन्मत्तः करवीरकृत स्रजः॥22||

विमानात् पुष्पकादद्य रावणः पतितो भुवि।
कृष्यमाण स्त्रिया दृष्टो मुंडः कृष्णांबरः पुनः॥23||

रथेन खरयुक्तेन रक्तमाल्यानुलेपनः।
पिबं स्तैलं हसन् नृत्यन् भ्रांतचित्तकुलेंद्रियः॥24||

गर्धभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः।
पुनरेव मयादृष्टो रावणो राक्षसेश्वरः॥25||

पतितोsवाक्छिरा भूमौ गर्धभात् भयमोहितः।
सहसोत्थाय संभ्रांतो भयार्तो मदविह्वलः॥26||

उन्मत्त इव दिग्वासादुर्वाक्यं प्रलपन् बहु।
दुर्गंधं दुस्सहं घोरं तिमिरं नरकोपमम्॥27||

मलपंकं प्रविश्याशु मग्नस्तत्र स रावणः।
कंठे बध्वा दशग्रीवं प्रमदा रक्तवासिनी॥28||

काली कर्दमलिप्तांगी दिशं याम्यां प्रकर्षति।
एवं तत्र मयादृष्टः कुंभकर्णो निशाचरः॥29||

रावणस्य सुतास्सर्वे दृष्टा स्तैलसमुत्‍क्षिताः।
वराहेण दशग्रीव श्शिंशुमारेण च इंद्रजित्॥30||

उष्ट्रेण कुंभकर्णश्च प्रयातो दक्षिणां दिशम्।
एकस्तत्र मया दृष्टा श्श्वेतच्छत्रो विभीषणः॥31||

शुक्लमाल्यांबरधरः शुक्लगंधानुलेपनः।
शंखदुंदुभिनिर्घोषैः नृत्तगीतैरलंकृतः॥32||

आरुह्य शैलसंकाशं मेघस्तनितनिस्स्वनम्।
चतुर्दंतं गजं दिव्यमास्ते तत्र विभीषणः॥33||

चतुर्भिः सचिवैः सार्थं वैहायस मुपस्थितः।
समाजश्च मया दृष्टो गीतवादित्र निस्स्वनः॥34||

पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्।
लंकाचेयं पुरी रम्या सवाजि रथकुंजरा॥35||

सागरे पतिता दृष्टा भग्न गोपुरतोरणा।
लंका दृष्टा मया स्वप्ने रावणे नाभिरक्षिता॥36||

दग्धा रामस्य दूतेन वानरेण तरस्विना ।
पीत्वा तैलं प्रवृत्ताश्च प्रहसंत्यो महास्वनाः॥37||

लंकायां भस्मरूक्षायां प्रविष्टा राक्षस स्त्रियः।
कुंभकर्णादयश्चेमे सर्वे राक्षस पुंगवः॥38||

रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे।
अपगच्छत नश्यध्वं सीता माप स राघवः॥39||

घातयेत् परमामर्षी सर्वै स्सार्थं हि राक्षसैः।
प्रियां बहुमतां भार्यां वनवास मनुव्रताम्॥40||

भर्त्सितां तर्जितां वापि नानुमंश्यति राघवः।
तदलं क्रूरवाक्यैः वः सांत्वमेवाभिदीयताम्॥41||

अभियाचाम वैदेही मे तद्धि ममरोचते।
यस्यां एवं विधः स्वप्नो दुःखितायां प्रदृश्यते॥42||

सा दुःखैः विविधै र्मुक्ता प्रियं प्राप्नोत्यनुत्तमम्।
भर्त्सिता मपि याचध्वं राक्षस्यः किं विवक्षया॥43||

राघवाद्धि भयं घोरं राक्षसाना मुपस्थितम्।
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा॥44||

अलमेषा परित्रातुं राक्षस्यो महतो भयात् ।
अपि चास्या विशालाक्ष्या न किंचि दुपलक्षये॥45||

विरूपमपि चांगेषु सुसूक्ष्ममपि लक्षणम्।
छायावैगुण्यमात्रं तु शंके दुःखमुपस्थितम्॥46||

अदुःखार्हा मिमां देवीं वैहायस मुपस्थितम्।
अर्थसिद्धिं तु वैदेह्याः पश्याम्यह मुपस्थिताम्॥47||

राक्षसेंद्रविनाशं च विजयं राघवस्य च।
निमित्तभूत मेत त्तु श्रोतुमस्या महत्प्रियम्॥48||

दृश्यते च स्फुरच्छक्षुः पद्म पत्र मिवायतम्।
ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणः॥49||

अकस्मादेव वैदेह्या बाहुरेकः प्रकंपते।
करेणु हस्त प्रतिम स्सव्य श्चोरु रुनुत्तमः॥50||

वेपमान स्सूचयति राघवं पुरतः स्थितम्॥51||

पक्षी च शाखा निलयः प्रहृष्टः
पुनः पुनश्चोत्तम सांत्ववादी।
सुस्वागतां वाच मुदीरयानः
पुनः पुनश्चोदयतीव हृष्टः॥52||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे सप्तविंशस्सर्गः॥

 

|| Om tat sat ||