||Sundarakanda ||

|| Sarga 29||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ एकोनत्रिंशस्सर्गः

तथा गतां तां व्यधितामनंदिताम्
व्यपेतहर्षां परिदीन मानसाम्।
शुभां निमित्तानि शुभानि भेजिरे
नरं श्रिया जुष्ट मिहोप जीविनः॥1||

तस्या श्शुभं वाम मराळपक्ष्म
राजीवृतं कृष्णविशालशुक्लम्।
प्रास्पंदतैकं नयनं सुकेश्या
मीनाहतं पद्मामिवाभिताम्रं॥ 2||

भुजश्च चार्वंचित पीनवृत्तः
परार्थ्यकालागरुचंदनार्हः।
अनुत्तमे नाध्युषितः प्रियेण
चिरेण वामः समवेपताsशु॥3||

गजेंद्रहस्तप्रतिमश्च पीनः
तयोः द्वयोः संहतयोः सुजातः।
प्रस्पंदमानः पुन रूरु रस्या
रामं पुरस्तात् स्थित माचचक्षे ॥4||

शुभं पुनर्हेमसमानवर्ण
मीषद्रजो ध्वस्तमिवामलाक्ष्याः।
वासस्थ्सितायाः शिखराग्रदत्याः
किंचित्परिस्रंसत चारुगात्र्या॥5||

एतैर्निमित्तैः अपरश्च सुभ्रूः
संबोधिता प्रागपि साधु सिद्धैः।
वातातप्लकांत मिव प्रणष्टम्
वर्षेण बीजं प्रतिसंजहर्ष॥6||

तस्यां पुनर्बिंबफलाधरोष्टम्
स्वक्षिभ्रु केशांत मराळ पक्ष्म।
वक्त्रं बभासे सितशुक्लदंष्ट्रम्
राहोर्मुखाः चंद्र इवप्रमुक्तः॥7||

सा वीत शोका व्यपनीत तंद्री
शांतज्वरा हर्षविवृद्धसत्वा।
अशोभतार्या वदनेन शुक्ले
शीतांशुना रात्रि रिवोदितेन ॥8||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे एकोनत्रिंशस्सर्गः॥

|| Om tat sat ||