||Sundarakanda ||

|| Sarga 2||( Only Slokas in Devanagari) )

||om tat sat||

सुंदरकांड
अथ द्वितीय सर्गः

स सागर मनाधृष्य मतिक्रम्य महाबलः।
त्रिकूट शिखरे लंकां स्थितां स्वस्थो ददर्श ह॥1||

स॥सः महाबलः अनाधृष्यं सागरं स्वस्थः अतिक्रम्य त्रिकूट शिखरे स्थिताम् लंकाम् ददर्श ह॥

That mighty Hanuman having comfortably crossed the ocean which is difficult to cross, saw the city of Lanka which stood on the peak of Trikuta mountain .

ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ।
अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयौ यथा॥2||

स॥ ततः तत्र स्थितः वीर्यवान् पादपमुक्तेन पुष्पवर्षेण अभिवृष्टः पुष्पमयौ यथा बभौ॥

Covered fully by the rain of flowers dropped from the trees , that heroic Hanuman appeared as though he was a heap of flowers.

योजनानां शतं श्रीमां स्तीर्त्याsप्युत्तमविक्रमः।
अनिश्वृसन् कपिस्तत्र न ग्लानिं अधिगच्छति॥3||

स॥ शतं योजनानाम् तीर्त्वा अपि उत्तम विक्रमः श्रीमान् कपिः तत्र ग्लानिं न अधिगच्छति॥

Even after having crossed a hundred yojanas that glorious monkey endowed with great prowess did not experience exhaustion.

शतान्यहं योजनानां क्रमेयं सुबहून्यपि।
कि पुनस्सागरस्यांतं संख्यातं शतयोजनम्॥4||

स॥ अहं बहूनि शतान्यपि योजनानां क्रमेयं । किं पुनः शतयोजन संख्यातं सागरस्य अंतं (इति मन्यताम्)॥

(Hanuman said to himself) ' I can cross many hundreds of yojanas. What to say of the measured distance of a hundred yojanas.'

स तु वीर्यवतांश्रेष्ठः प्लवतामपि चोत्तमः।
जगाम वेगवान् लंकां लंघयित्वा महोदधिम्॥ 5||

स॥वीर्यवतां श्रेष्ठः प्लवतां अपि उत्तमः सः तु वेगवान् महोदद्धिं लंघयित्वा लंकां जगाम॥

The best among the courageous and the best among the Vanaras noted for his speed reached Lanka having crossed the sea on his own.

शाद्वलानि च नीलानि गन्धवन्ति वनानि च।
गंडवंति च मध्येन जगाम नगवंति च ॥6||

स॥(सः) गन्धवन्ति नीलानि शाद्वलानि वनानि च नगवन्ति गन्डवन्ति मध्येन जगाम॥

He passed through dark colored fragrant grasslands and mountains filled with rocks.

शैलांश्च तरुसंछन्नान् वनराजीश्च पुष्पिताः।
अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः॥7||

स॥ प्लवगर्षभः तेजस्वी हनुमान् तरुसंछन्नान् शैलां च पुष्पिताः वनराजीश्च अभिचक्राम॥

The brilliant Hanuman , a bull among Vanaras crossed the mountains dense with blossoming trees and forest ranges.

स तस्मिन् अचले तिष्ठन् वनान् उपवनानि च।
स नगाग्रे च तां लंकां ददर्श पवनात्मजः॥ 8||

स॥ सः पवनात्मजः तस्मिन् अचले तिष्ठन् वनानि उपवनानि च नगाग्रे तां लंकां ददर्श॥

That son of wind god standing on that mountain saw forests and gardens around Lanka situated on the mountain peak.

सरळान् कर्णिकारांश्च खर्जुरांश्च सुपुष्पितान्।
प्रियालून् मुचिळिंदांश्च कुटजान्केतकानपि॥9||
प्रियांगून् गंधपूर्णांश्चनीपान् सप्तच्छदां स्तथा।
आसनान् कोविदारांश्च करवीरांश्च पुष्पितान् ॥10||
पुष्पभार निबद्धांश्च तथा मुकुळिता नपि ।
पादपान् विहागकीर्णान् पवनाधूत मस्तकान् ॥ 11||
हंसकारंडवाकीर्णा वापीः पद्मोत्पलायुताः।
अक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान् ॥12||
संततान् विविधै र्वृक्षैः सर्वर्तु फलपुष्पितैः।
उद्यानानि च रम्याणि ददर्श कपिकुंजरः॥13||

स॥ (सः) सरलान् कर्णिकारां च सुपुष्पितान् खर्जूरांश्चप्रियाळान् मुचिळिंदांश्च (ददर्श)॥ (सः)कुटजान् केतकान् अपि गन्धपूर्णान् नीपान् प्रियांगूंश्च तथा सप्तच्छदां आसनान् पुष्पितान् करवीरांश्च (ददर्श) ॥ पुष्पाभार निबद्धांश्च तथा मुकुळितानपि विहाग कीर्णान् पवनाधूत मस्तकान् पादपान् (ददर्श)॥ हंसकारंडवाकीर्णा वापिः पद्मोत्पलायुताः विविधान् रम्यान् अक्रीडान् जलाशयान् ( ददर्श)॥ सर्व ऋतु फलपुष्पितैःविविधैः वृक्षैः संततान् रम्याणि उद्यानानि च कपिकुंजरः ददर्श॥

(He saw) Saralas Karnikaras, well blossomed Khajuras, Priyaalas and Muchilimdas too. (He saw) Kutajas, Ketakas filled with fragrance, Nipas, Priyamgus as also Saptacchadas, Asanas, and flowering Karaviras too. (He saw) trees heavily loaded with flowers as well as buds, trees full of birds with branches shaken by the wind. (He saw) flocks of Swans and water fowls in ponds and variety of beautiful pleasure gardens and water resorts. The best of Vanaras also saw beautiful gardens filled with variety of trees that flower all seasons.

समासाद्य लक्ष्मीवान् लंकां रावणपालिताम्|
परिघाभिः सपद्माभिः उत्पलाभिरलंकृताम्॥14||
सीतापहराणार्थेन रावणेन सुरक्षिताम्।
समंता द्विचरद्भिश्च राक्षसैः उग्रधन्विभिः॥15||
कांचनेनावृतां रम्यां प्राकारेण महापुरीम्।
गृहैश्च ग्रहसंकाशैः शारदांबुदसन्निभैः॥16||
पाडुराभिः प्रतोळीभि रुच्चाभि रभिसंवृताम्।
अट्टालशताकीर्णां पताकाध्वजमालिनीम्॥17||
तोरणैः कांचनैर्दिव्यैः लतापंक्तिविचित्रितैः।
ददर्श हनुमान् लंकां दिवि देव पुरीम् यथा॥18||

स॥लक्ष्मीवान् (हनुमान्) रावणपालितां लंकां समासद्य परिघाभिः सपद्माभिः उत्प्लाभि अलंकृताम् (ददर्श) ॥ सीतापहरणार्थेन सुरक्षिताम् उग्रधन्विभिः विचरद्भिः राक्षसैः समंतात् (लंकां ददर्श) ॥ कांचनेन प्राकारेण आवृतां रम्यां महापुरीं ग्रहसंकाशैः शारदांबुदसन्निभैः गृहैश्च (लंकां ददर्श) ॥ पाण्दुराभिः उच्छाभिः पताकध्वजमालिनीम् अट्टालशताकीर्णाम् अभिसंवृताम् प्रतोलीभिः (लंकां ददर्श) ॥ दिव्यैः कांचनैः लतापंक्तिविचित्रितैः तोरणैः दिवि देवपुरीम् यथा लंकां ददर्श॥

That fortunate Hanuman having reached Lanka ruled by Ravana saw the city of Lanka surrounded by moats full of lotusses and water lillies. (He saw) the city well protected by moving demons holding frightening bows keeping in view Sita's abduction by Ravana. (He saw) the great city surrounded by golden boundary wall resembling assembly of planets and houses resembling autumnal clouds. (He saw) White elevated houses crowded streets decorated with banners flagposts and garlands. He saw wonderful Lanka with rows of golden festoons and creepers looking like the city of gods.

गिरिमूर्ध्नि स्थितां लंकां पांडुरैर्भवनै श्शुभैः।
ददर्श कपिश्रेष्ठः पुरं आकाशगं यथा॥19||

स॥ सः कपिश्रेष्ठः पाण्डुरैः शुभैः भवनैः गिरिमूर्ध्नि स्थितां आकासगतं यथा पुरीं लंकाम् ददर्श॥

That best among Vanaras saw the city of Lanka with white and auspicious looking mansions sitting on top of the mountains as if touching the sky.

पालितां राक्षसेंद्रेण निर्मितां विश्वकर्मणा।
प्लवमाना मिवाकाशे ददर्श हनुमान् पुरीम्॥20||
वप्रप्राकार जघानां विपुलाम्बुनवाम्बुराम्।
शतघ्नीशूलकेशान्ता मट्टालकवतंसकाम्॥21||
मनसेव कृतां लंकां निर्मितां विश्वकर्मणा।
द्वार मुत्तर मासाद्य चिन्तयामास वानरः॥22||

स॥ हनुमान् विश्वकर्मणा निर्मितं राक्षसेंद्रेण पालितां अकासे प्लवमानिव पुरीं ददर्श॥ वानरः उत्तर द्वारम् आसाद्य विश्वकर्मणा निर्मितां लंकाम् वप्रप्राकार जघनां विपुलाम्बुनवाम्बुराम् शतघ्नी शूलकेशान्ताम् अट्टालकवतंशकाम् इव मनः कृताम् इति चिन्तयामास ॥

Hanuman saw the city ruled by Ravana built by Viswakarma looking as though it was floating in the sky. The Vanara having reached the northern gate started thinking that Viswakarma built Lanka with ramparts and forts as hips and loins, spiked iron rods for locks of hair tall towers for earrings of a woman in his mind .

कैलासशिखर प्रख्यां आलिखन्ती मिवाम्बुराम्।
डीयमाना मिवाकाशं उच्छ्रितैर्भवनोत्तमैः॥23||
सम्पूर्णां राक्षसै र्घोरैर्नागै भोगवतीमिव ।
अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा॥24||
दंष्ट्रिभिः बहुभि श्शूरै श्शूलपट्टसपाणिभिः।
रक्षितां राक्षसैर्घोरै र्गुहा माशीविषै रिव॥ 25||
तस्याश्च महतीं गुप्तिं सागरं निरीक्ष्य सः।
रावणं च रिपुं घोरं चिंतयामास वानरः॥26||

स॥कैलास शिखर प्रख्यां अम्बरं आलिखन्तीं इव उच्छ्रितैः आकाशं डियमनाइव भवनोत्तमैः ( निरीक्ष्य च ), नागैः भोगवतींइव घोरैः राक्षसैः संपूर्णाम् पुरा कुबेराध्युषितां सुकृतम् अचिन्त्यां ( निरीक्ष्य च), दंष्ट्रभिः आशीविषैः गुहाम् इव बहुभिः शूलपट्टस पाणिभिः वीरैः रक्षिताम् ( लंकां निरीक्ष्य च ), तस्याः महतीं गुप्तिं सागरं च रिपुं रावणं च निरीक्ष्य सः वानरः चिन्तयामास॥

With skycrapers scraping the sky and excellent mansions as if flying in the sky, the city of Lanka was resembling mount Kailas. It was filled fully with demons like the netherworld is filled with serpents. Well built with unimaginable beauty, it was earlier once occupied by Kubera. The warriors holding those tridents and spears were looking like the venomous sepents with portruding fangs. Observing all of that as well as the great security, the sea and the terrific enemy Ravana the Vanara started thinking.

आगत्यापीह हरयो भविष्यंति निरर्थकाः।
न हि युद्धेन वै लंका शक्या जेतुं सुरैरपि॥27||
इमां विषमां दुर्गां लंकां रावणपालितां।
प्राप्यापि स महाबाहुः किं करिष्यति राघवः॥28||

स॥ हरयः इह आगत्या अपि निरर्थकाः भविष्यन्ति। सुरैरपि लंका युद्धेन जेतुं न शक्या हि॥ इमां रावण पालितां विषमां दुर्गाम् प्राप्यापि स महाबाहुः राघवः (रामः ) किं करिष्यति ॥

'Even if the Vanaras come here, they will not serve any purpose. Lanka is invincible in war even for Devas. What can mighty armed Rama do if he reaches this impregnable fort ruled by Ravana'.

अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते।
न दानस्य न भेदस्य नैव युद्धस्य दृश्यते॥29||
चतुर्णामेव हि गतिः वानराणां महात्मनाम्।
वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः॥30||
यावज्जानामिवैदेहीं यदि जीवतिवा नवा।
तत्रैव चिंतयिष्यामि दृष्ट्वा तां जनकात्मजम्॥31||

स॥ राक्षषेषु सान्त्वस्य अवकाशः न अभिगम्यते । दानस्य न। भेदस्य न। युद्धस्य नैव दृश्यते॥ वालिपुत्रस्य नीलस्य मम धीमतः राज्ञश्च माहात्मनां वाराणां चतुर्णां वानराणां एव गतिः हि ॥वैदेहीं यदि जीवति वा न वा यावत् जानामि तां जनकात्मजं दृष्ट्वा तत्रैव चिन्तयिष्यामि॥

'There is no possibility of reconciliation with the Rakshasas. No use of gifts . No possibility of dissension. War too is not feasible. Only four of the Vaanaras (namely) Vali's son, Nila and the wise Vanara king Sugriva and myself can (cross the sea and ) come here. Whether Janaka's daughter Vaidehi is alive or not is not known. Only after seeing her only I will think further'.

ततस्सचिंतयामास मुहूर्तं कपिकुंजरः।
ग्रिरिशृंगे स्थितः तस्मिन् रामस्याभ्युदये रतः॥32||

स॥ ततः सः कपिकुंजरः तस्मिन् गिरिशृंगे स्थितः रामस्य अभ्युदये रतः मुहूर्तं चिन्तयामास॥

Then the best among Vanaras interested Ramas success and standing on the peak of the mountain pondered for a while.

अनेन रूपेण मया न शक्या रक्षसां पुरी।
प्रवेष्ठुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः॥33||
उग्रौजसो महावीर्या बलवंतश्च राक्षसाः।
वंचनीया मया सर्वे जानकीं परिमार्गता॥34||
लक्ष्यालक्ष्येण रूपेण रात्रौ लंकापुरी मया।
प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुम् महत्॥35||

स॥ क्रूरैः बलसमन्वितैः राक्षसैः गुप्ता रक्षसां पुरी अनेन रूपेण प्रवेष्टुं न शक्या ॥ जानकीं परिमार्गिता मया उग्रौजसः महावीर्याः बलवन्तश्च राक्षसाः सर्वे वंच नीयाः ॥ महत् कृत्यं साधयितुं मया लक्ष्या लक्ष्येण रूपेण रात्रौ लंकापुरीं प्रवेष्टुं प्राप्तकालम् रात्रौ (हि)॥

'In the present form it is not possible to enter the city gaurded by fierce and powerful demons. While seraching for Janaki all the valiant and powerful demons need to be deceived. To accomplish this great task by me , the appropriate time to enter the city in inconspicious form is the night only'.

तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः।
हनुमान् चिंतयामास विनिश्चित्य मुहुर्मुहुः॥ 36||

स॥सुरासुरैः दुरादर्षं तां पुरीं दृष्ट्वा मुहुर्मुहुः हनुमान् चिन्तयामास॥

Looking at the city impregnable even for Devas and other demons sighing repeatedly Hanuman started to reflect.

केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्।
अदृष्ठो राक्षसेंद्रेण रावणेन दुरात्मना॥37||
न विनश्येत् कथं कार्यं रामस्य विदितात्मनः।
एकामेकश्च पश्येयं रहिते जनकात्मजाम्॥38||

स॥ दुरात्मना रावणेन अदृष्टो केनोपायेन मैथिलीं जनकात्मजां पश्येयं॥विदितात्मनः रामस्य कार्यं कथं न विनश्येत् । एकश्च रहिते जनकात्मजाम् एकाम् पश्येयं ॥

'Without being seen by the evil minded Ravana, Maithili, the daughter of Janaka is to be seen some how. How can the noble Rama's task be achieved ? I Should be able to see the daughter of Janaka alone ( without being noticed by the Rakshasas)'.

भूतश्चार्था विपद्यंते देशकालविरोधिताः।
विक्लबं दूतमासाद्य तम सूर्योदये यथा॥39||
अर्थानर्थांतरे बुद्धिर्निश्चिताsपि नशोभते ।
घातयंति हि कार्याणि दूताः पंडितमानिनः॥40||

स॥ सूर्योदये तमः यथा विपद्यन्ते ( तथैव) देशकालाविरोधिताः भूतश्चार्थाः विक्लबं दूतं आसाद्य (विपद्यन्ते)॥ अर्थानर्थान्तरे निश्चितापि बुद्धिः नशोभते दूताः पंडितमानिताः कार्याणि घातयंति ॥

'Just as darkness melts away at the sunrise , the well laid plans too disppear in the hands of a thoughtless messenger. Even after the proper course of action and inaction is decided, the ignorant messengers thinking themselves to be clever spoil the effort'.

न विनश्येत् कथं कार्यं वैक्लब्यं न कथं भवेत्।
लंघनं च समुद्रस्य कथं नु न वृथाभवेत्॥41||
मयि दृष्टे तु रक्षोभि रामस्य विदितात्मनः।
भवेद्वर्थमिदं कार्यं रावणानर्थ मिच्छतः॥42||

स॥ कार्यं कथं विनश्येत् । वैक्लब्यं कथम् नभवेत् । समुद्रस्य लंघनं कथं नु न वृथाभवेत्॥ यदि मयि रक्षोभि दृष्टे तु विदितात्मनः रावणानर्थं इच्छतः रामस्य इदं कार्यं व्यर्थं भवेत् ॥

'How to ensure that the task is not destroyed? How to avoid thoughtlessness? How to ensure the effort of crossing the ocean is not wasted? If I am seen by the demons the desire of the noble Rama to destroy Ravana will be hindered'.

न हि शक्यं क्वचित् स्थातुं अविज्ञातेन राक्षसैः।
अपि राक्षस रूपेण किमुतान्येन केन चित्॥43||
वायुरप्यत्र नाज्ञातः चरेत् इति मतिर्मम।
न ह्यस्त विदितं किंचित् राक्षसानां बलीयसाम्॥44||

स॥ राक्षस रूपेणापि राक्षसैः अविज्ञातेन स्थातुं न हि शक्यं । अन्येन केनचित् ( रूपेण) किमुत॥ अत्र वायुः अपि न आज्ञातः चरेत् इति मम मतिः। बलीयसां राक्षसानां किंचित् (अपि) अविदितं नास्ति हि ॥

'Even in the disguise of a demon it is difficult stay (undetected) with these demons. What to say of any other form. Here even the wind will not move without being ordered. Nothing escapes the notice of these powerful demons'.

इहाहं यदि तिष्टामि स्वेन रूपेण संवृतः।
विनाशमुपयास्यामि भर्तुरर्थश्च हीयते॥45||
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः।
लंकां अभिपतिष्यामि राघवस्यार्थ सिद्धये॥46||

स॥ यदि स्वेन रूपेण संवृतः अहं इह तिष्ठामि विनाशं उपयास्यामि। भर्तुः अर्थश्च हीयते॥ ततः राघवस्य अर्थ सिद्धये अहं स्वेन रूपेण ह्रस्वतां गतः रजन्यां लंकां अभिपतिष्यामि॥

'If I stay hidden in my present form (I) will surely invite destruction and Rama's task will be destroyed too. So for achieving Rama's objective I will make my form smaller and jump into Lanka in the night'.

रावणस्य पुरीम् रात्रौ प्रविश्य सुदुरासदाम्।
विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्॥47||
इति संचित्य हनुमान् सूर्यस्यास्तमयं कपिः।
आचकांक्षे तदा वीरो वैदेह्या दर्शनोत्सुकः॥48||

स॥ सुदुरासदं रावणस्य पुरीं रात्रौ प्रविश्य सर्वं भवनं विचिन्वन् जनकात्मजां द्रक्ष्यामि॥ हनुमान् वीरः इति संचित्य तदा कपिः वैदेह्या दर्शनोत्सुकः सूर्यस्य अस्तमयं आचकांक्षे॥

'Entering the impregnable city in the night I will search all the palaces and find Sita'. Having planned in this manner Hanuman, the excited Vanara warrior awaited the Sunset in anticipation of seeing Sita.

सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः।
वृषदंशकमात्रस्सन् बभूवाद्भुत दर्शनः॥49||
प्रदोषकाले हनुमांस्तूर्ण मुत्प्लुत्य वीर्यवान्।
प्रविवेश पुरीं रम्यां सुविभक्त महापथाम्॥50||

स॥ मारुतिः सूर्ये च अस्तं गते वृषदंशकमात्रः सन् देहं संक्षिप्य अद्भुत दर्शनः बभूव॥ वीर्यवान् हनुमाणन् प्रदोषकाले तूर्णं उत्प्लुत्य सुविभक्तमहापथां रम्यां पुरीं प्रविवेश॥

After the sunset Maruti reduced himself to the size of a cat in a form that is wonderful to behold. The courageous Hanuman at once jumped in and entered the well laid out main paths of the beautiful city.

प्रासादमालाविततम् स्तंभैः कांचन राजतैः।
शातकुंभमयै र्जालैः गंधर्वनगरोपमाम्॥ 51||
सप्तभौमाष्टभौमैश्च मुक्ताजाल विभूषितैः।
तलैः स्फाटिक संकीर्णैः कार्तस्वरविभूषितैः॥52||
वैडूर्यमणिचित्रैश्च मुक्ताजाल विभूषितैः।
तलैः शुश्शुभिरे तानि भवनान्यत्र रक्षसाम्॥53||

स॥ सः प्रासादमालावितताम् कांचन राजतैः स्तंभैः शातकुंभमयैः जालैः गंधर्व नगरोपमम् ( महापुरीम् ददर्श) ॥ सप्तभौमाष्टभौमैश्च मुक्ताजालविभूषितैः स्फाटिक संकीर्णैः तलैः कार्तस्वर विभूषितैः (महापुरीं ददर्श) ॥ अत्र रक्षसां भवनानि वैढूर्यमणि चित्रैश्च मुक्ताजालविभूषितैः तलैः शुशुभिरे॥

He saw city resembling the city of Gandharvas, stretched with rows of mansions with gold and silver pillars with window work made of gold. He saw the seven and eight level mansions with windows ornamented with pearls and floors inlaid with crystals. Here the mansions of the demons inlaid with precious gems windows ornamented with pearls, the floors looked splendid.

कांचनानि च चित्राणि तोरणानि च रक्षसाम्।
लंकामुद्योतयामासुः सर्वतः समलंकृताम्॥54||
अचिंत्या मद्भुताकारं दृष्ट्वा लंकां महाकपिः।
आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः॥55||

स॥ रक्षसाम् कांचनानि चित्राणि तोरणानि समलंकृताम् लंकां सर्वतः उद्योतयामासुः॥ महाकपिः अचिन्त्यां अद्भुताकारं लंकां दृष्ट्वा वैदेह्या दर्शनोत्सुकः हृष्टश्च विषण्णः आसीत् ॥

The Golden colorful archways of the demons decorated all over illumined the Lanka everywhere. The great Vanara seeing the unimaginably beautiful and wonderful Lanka was glad with excitement of the possibility of seeing Vaidehi and sad at the same time ( not knowing how he will find her)

स पाण्डुराविद्ध विमानमालिनीम् महार्हजांबूनद जालतोरणाम्।
यशस्विनीं रावणबाहुपालिताम् क्षपाचरै र्भीमबलैः समावृताम्॥ 56||

स॥ सः पाण्डुराविद्धविमानमालिनीम् महार्हजांबूनदजाल तोरणाम् यशस्विनीं भीमबलैः क्षपाचारैः समावृतां रावण बाहु पालिताम् (लंकां ददर्श)

He saw the city ruled by Ravana having a garland of white mansions with many floors, having archways and windows laced with gold strings and protected by famed warriors of great strength.

चंद्रोsपि साचिव्य मिवास्य कुर्वन् तारागणैर्मध्यगतो विराजन्।
ज्योत्स्नावितानेन वितत्यलोकं उत्तिष्टतेनैकसहस्ररश्मिः॥57||
शंखप्रभं क्षीरमृणाळवर्णं उद्गच्छमानं व्यवभासमानम्।
ददर्श चन्द्रं स हरिप्रवीर पोप्लूयमानं सरसीव हंसम्॥57||

स॥ नैक सहस्र रस्मिभिः चन्द्रोsपितारागणैः मध्यगतः विराजन् लोकम् ज्योत्स्नावितानेन वितत्य अस्य साचिव्यं कुर्वन्निव उत्तिष्ठते॥ सः हरिप्रवीरः उद्गच्छमानं शंखप्रभम् व्यवभासमानम् क्षीरमृणालवर्णम् सरसि पोप्लूयमानम् हंसं इव चन्द्रं ददर्श॥

At that time the moon rose with thousand rays in the center of a multitude of stars, spreading and provding a canopy of moon light as if providing ministerial services to Hanuman. The heroic Vanara saw the rising Moon flitting in and out , shining like a fresh white conch in the colors of milk and lotus stalk, looking like a swan floating in lake like sky.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे द्वितीय स्सर्गः॥

Thus ends the second sarga of Sundarakanda in Ramayana, the first ever poem of mankind composed by Maharshi Valmiki

||om tat sat||