||Sundarakanda ||

|| Sarga 3||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ तृतीय सर्गः

स लंब शिखरे लंबे लंबतोयद सन्निभे।
सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः॥1||

निशि लंकां महोसत्त्वो विवेश कपिकुंजरः।
रम्यकानन तोयाढ्यां पुरीं रावणपालिताम्॥2||

शारदांबुर प्रख्यैः भवनैरुपशोभिताम्।
सागरोपमनिर्घोषां सागरानिलसेविताम्॥3||

सुपुष्टबलसंघुष्टां यथैव विटपावतीम्।
चारुतोरण निर्यूहां पांडुरद्वारतोरणाम्॥4||

भुजगाचरितां गुप्तां शुभां भोगवती मिव।
तां स विद्युद्घनाकीर्णं ज्योतिर्मार्गनिषेविताम्॥5||

मंदमारुत संचारां यथेंद्रस्य अमरावतीम्।
शातकुंभेन महता प्राकारेणाभिसंवृताम्॥6||

किंकिणीजालघोषाभिः पताकाभिरलंकृताम्।
असाद्य सहसा हृष्टः प्राकारमभिपेदिवान्॥7||

विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः।
जांबूनदमयैर्द्वारैः वैढूर्यकृतवेदिकैः ॥8||

वज्रस्पटिकमुक्ताभिः मणिकुट्टिमभूषितैः।
तप्तहाटकनिर्यूहै राजतामलपांडुरैः॥9||

वैढूर्यकृतसोपानैः स्फाटिकांतर पांसुभिः।
चारुसंजवनोपेतैः खमिवोत्पतै श्शुभैः॥10||

क्रौचबर्हिणसंघूष्टै राजहंसनिषेवितैः।
तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम्॥11||

वस्वैकसाराप्रतिमां तां वीक्ष्य नगरीं ततः ।
खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः॥12||

तां समीक्ष्य पुरीम् रम्यां राक्षसाधिपते श्शुभाम्।
अनुत्तमां वृद्धियुतां चिंतयामास वीर्यवान्॥13||

नेयमन्येन नगरी शक्या धर्षयितुं बलात् ।
रक्षिता रावण बलैः उद्यतायुधदारिभिः ॥14||

कुमुदांगदयोर्वापि सुषेणस्य महाकपेः।
प्रसिद्धेयं भवेत् भूमिः मैंदद्विविदयो रपि॥15||

विवस्वत स्तनूजस्य हरेश्च कुशपर्वणः।
ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥16||

समीक्ष्यतु महाबाहू राघवस्य पराक्रमम्।
लक्ष्मणस्य विक्रांतं अभवत्प्रीतिमान् कपिः॥17||

तां रत्न वसनोपेतां कोष्ठागारावतंसकाम्।
यंत्रागारास्तनीमृद्धां प्रमदामिव भूषिताम्॥18||

तां नष्ठतिमिरां दीप्तैर्भास्वरैश्च महागृहैः।
नगरीं राक्षसेंद्रस्य स ददर्श महाकपिः॥19||

अथ सा हरिशार्दूलं प्रविशंतं महाबलः।
नगरीस्वेन रूपेण ददर्श पवनात्मजम्॥20||

सा तं हरिवरं दृष्ट्वा लंकारावणपालिता।
स्वयमेवोथ्थिता तत्र विकृतानन दर्शना॥21||

पुरस्तात् कपिवर्यस्य वायुसूनोरतिष्ठत।
मुंचमाना महानादं अब्रवीत् पवनात्मजम्॥22||

कस्त्वं केन च कार्येण इह प्राप्तो वनालय।
कथय स्वेह यत्तत्वं यावत्प्राणाधरंति ते ॥23||

न शक्यं खल्वियं लंका प्रवेष्ठुं वानर त्वया ।
रक्षिता रावण बलैः अभिगुप्तासमंततः॥24||

अथ ताअमब्रवीद्वीरो हनुमानग्रतस्थिताम्।
कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि॥25||

का त्वं विरूपनयना पुरद्वारे अवतिष्ठसि।
किमर्थं चापि मां रुद्द्वा निर्भर्त्सयसि दारुणा॥26||

हनुमाद्वचनं श्रुत्वा लंका सा कामरूपिणी।
उवाच वचनं क्रुद्धा परुषं पवनात्मजम्॥27||

अहं राक्षसराजस्य रावणस्य महात्मनः।
अज्ञाप्रतीक्षा दुर्दर्षा रक्षामि नगरीं इमाम्॥28||

न शक्या मामवज्ञाय प्रवेष्ठुं नगरी त्वया।
अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया॥29||

अहं हि नगरी लंका स्वयमेव प्लवंगम।
सर्वतः परिरक्षामि ह्येतत्ते कथितं मया॥30||

लंकाया वचनं श्रुत्वा हनुमान्मारुतात्मजः।
यत्नवान् स हरिश्रेष्ठः स्थितश्शैल इवापरः॥31||

स तां स्त्रीरूप विकृतां दृष्ट्वा वानरपुंगवः।
अबभाषेsथ मेधावी सत्त्ववान् प्लवगर्षभः॥32||

द्रक्ष्यामि नगरीं लंकां साट्टप्राकारतोरणाम्।
इत्यर्थमिह संप्राप्तः परं कौतूहलम् हि मे ॥33||

ववान्युपनानीह लंकायाः काननानिच ।
सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे॥ 34||

तस्य तद्वचनं श्रुत्वा लंका सा कामरूपिणी।
भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम्॥35||

मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम्।
न शक्यमद्य ते द्रष्टुं पुरीयं वनराधमा॥36||

ततस्स कपिशार्दूलः तां उवाच निशाचरीम्।
दृष्ट्वापुरीं इमां भद्रे पुनर्यास्ये यथागतम्॥37||

ततः कृत्वा महानादं सावै लंका भयावहं ।
तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥38||

ततस्स कपिशार्दूलो लंकया ताडितो भृशम्।
ननाद सु महानादं वीर्यवान् पवनात्मजः॥39||

ततस्संवर्तयामास वामहस्तस्यसोsंगुळीः।
मुष्ठिनाsभिजघानैनां हनुमान् क्रोधमूर्च्छितः॥40||

स्त्रीचेति मन्यमानेन नाति क्रोधः स्वयं कृतः।
सा तु तेन प्रहारेण विह्वलांगी निशाचरी॥41||

पपात सहसा भुमौ विकृतानन दर्शना।
ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम्॥42||

कृपां चकार तेजस्वी मन्यमानः स्त्रियम् तु ताम्।
ततो वैभृश संविग्ना लंका सा गद्गदाक्षरम्॥43||

उवाच गर्वितं वाक्यं हनूमंतं प्लवंगमम्।
प्रसीद महाबाहो त्रायस्व हरिसत्तम॥44||

समये सौम्य तिष्ठंति सत्त्ववंतो महाबलाः।
अहं तु नगरी लंका स्वयमेव प्लवंगमः॥45||

निर्जिताहं त्वया वीर विक्रमेण महाबल।
इदं तु तथ्यं शृणूवै ब्रुवंत्या हरीश्वर॥46||

स्वयंभुवा पुरा दत्तं वरदानं यथा मम।
यदा त्वां वानरः कश्चित् विक्रमात् वशमानयेत्॥47||

तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्।
स हि मे समयः सौम्य प्राप्तोsद्यतवदर्शनात्॥48||

स्वयंभूविहितः सत्यो न तस्यास्ति व्यतिक्रमः ।
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः॥49||

रक्षसां चैव सर्वेषां विनाशः समुपागतः।
तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम्॥
विधत्स्वसर्व कार्याणि यानीह वांच्छसि॥50||

प्रविश्य शापोपहतं हरीश्वरः
शुभां पुरीं राक्षस मुख्यपालिताम्।
यदृच्छया त्वं जनकात्मजां सतीम्
विमार्ग सर्वत्र गतो यथा सुखम्॥51||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे तृतीय स्सर्गः॥

||om tat sat||

 

 

 

 

 

 

 

 

 

 





 



 

|| Om tat sat ||