||Sundarakanda ||

|| Sarga 31||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ एकत्रिंशस्सर्गः

एवं बहुविधां चिंतां चिंतयित्वा महाकपिः।
संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह॥1||

राजा दशरथो नाम रथ कुंजिर वाजिमान्।
पुण्यशीलो महाकीर्ति रृजु रासी न्महयशाः॥2||

राजर्षीणां गुणश्रेष्ठः तपसा चर्षिभिस्समः।
चक्रवर्तिकुले जातः पुरंदरसमो बले॥3||

अहिंसारति रक्षुद्रो घृणी सत्यपराक्रमः।
मुख्यश्च इक्ष्वाकुवंशस्य लक्ष्मीवान् लक्ष्मिवर्धनः॥4||

पार्थिवव्यंजनैर्युक्तः पृथुश्रीः पार्थिवर्षभः।
पृथिव्यां चतुरंतायां विश्रुत स्सुखदः सुखी॥5||

तस्य पुत्त्रः प्रियोज्येष्ठः ताराधिपनिभाननः।
रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्॥6||

रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता।
रक्षिता जीवलोकस्य धर्मस्य च परंतपः॥7||

तस्य सत्याभिसंधस्य वृद्धस्य वचनात् पितुः।
सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम्॥8||

तेन तत्र महारण्ये मृगयां परिधावता।
राक्षसा निहता श्शूरा बहवः कामरूपिणः॥9||

जनस्थान वधं श्रुत्वा हतौ च खरदूषणौ।
तत स्त्वमर्षापहृता जानकी रावणेन तु॥10||

वंचयित्वा वने रामं मृगरूपेण मायया।
समार्गमाणस्तां देवीं रामः सीतामनिंदिताम्॥11||

अससाद वने मित्रं सुग्रीवं नाम वानरं ।
ततः स वालिनं हत्वा रामः परपुरंजयः॥12||

प्रायच्छत् कपिराज्यं तत्सुग्रीवाय महाबलः।
सुग्रीवेणापि संदिष्टा हरयः कामरूपिणः॥13||

दिक्षु सर्वासु तां देवीं विचिन्वंती सहस्रशः।
अहं संपाति वचनात् शतयोजनमायतम्॥14||

अस्या हेतौ र्विशालाक्ष्याः सागरं वेगवान् प्लुतः।
यथारूपं यथावर्णां यथालक्ष्मीं च निश्चिताम्॥15||

अश्रौषं राघवस्याहं सेय मासादिता मया।
विररामैव मुक्त्वासौ वाचं वानरपुंगवः॥16||

जानकी चापि तत् श्रुत्वा परं विस्मयमागता।
ततः सा वक्रकेशांता सुकेशी केशसंवृतम्॥17||

उन्नम्य वदनं बीरु श्शिंशुपावृक्ष मैक्षत॥18||

निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्चवीक्ष्य।
स्वयं प्रहर्षं परमं जगाम सर्वात्मना राम मनुस्मरंती॥19||

सातिर्यगूर्ध्वं च तथा प्यधस्तान् निरीक्षमाणा तं अचिंत्य बुद्धिम्।
ददर्श पिंगाधिपतेरमात्यम् वातात्मजं सूर्य मिवोदयस्थम्॥20||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे एकत्रिंशस्सर्गः॥

|| Om tat sat ||