||Sundarakanda ||

|| Sarga 31||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ एकत्रिंशस्सर्गः

एवं बहुविधां चिंतां चिंतयित्वा महाकपिः।
संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह॥1||

स॥महाकपिः एवं बहुविधां चिंतां चिंतयित्वा वैदेह्यामधुरं वाक्यं संश्रवे व्याजहार ह॥

That great Vanara having thought through many thoughts spoke these sweet words to Vaidehi.

राजा दशरथो नाम रथ कुंजिर वाजिमान्।
पुण्यशीलो महाकीर्ति इक्ष्वाकूणां न्महयशाः॥2||
राजर्षीणां गुणश्रेष्ठः तपसा चर्षिभिस्समः।
चक्रवर्तिकुले जातः पुरंदरसमो बले॥3||

स॥ दशरथः नाम राजा रथकुंजिरव्याजिमान् पुण्यशीलः महाकीर्तिः इक्ष्वाकूणां महायशाः॥ (सः) राजर्षीणां गुणश्रेष्ठः तपसा ऋषिभिः समः च बले पुरंदर समः चक्रवर्तिकुले जातः॥

There was a king by name Dasaratha who has many chariots elephants and horses, who is steeped in merits, who has great fame , who is illustrious among all Ikshvakus. He is the most virtuous one among sage like kings. He is equal to Rishis in performing penance. He is equal in strength to Indra and is born in the dynasty of emperors.

अहिंसारति रक्षुद्रो घृणी सत्यपराक्रमः।
मुख्यश्च इक्ष्वाकुवंशस्य लक्ष्मीवान् लक्ष्मिवर्धनः॥4||
पार्थिवव्यंजनैर्युक्तः पृथुश्रीः पार्थिवर्षभः।
पृथिव्यां चतुरंतायां विश्रुत स्सुखदः सुखी॥5||

स॥ (सः) अहिंसा रति अक्षुद्रः घृणी सत्यपराक्रमः इक्ष्वाकुवंशश्च मुख्यः च लक्ष्मीवान् लक्ष्मिवर्धनः॥ (सः) पार्थिवव्यंजनैः युक्तः पृथुश्रीः पार्थिवर्षभः चतुरंतायां पृथिव्यां विश्रुतः सुखदः सुखी च॥

He is committed to non violence, magnanimous, compassionate. He is one whose strength is truth. Chief among Ikshvakus, he is an embodiment of wealth and is grower of wealth. Endowed with signs of kingship, with vast wealth, a bull among rulers, known on the earth surrounded by the four oceans, provider of happiness and is himself happy.

तस्य पुत्त्रः प्रियोज्येष्ठः ताराधिपनिभाननः।
रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्॥6||
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता।
रक्षिता जीवलोकस्य धर्मस्य च परंतपः॥7||
तस्य सत्याभिसंधस्य वृद्धस्य वचनात् पितुः।
सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम्॥8||

स॥ तस्य ज्येष्ठ पुत्रः प्रियः रामः नामः ताराधिपनिभाननः विशेषज्ञः सर्वधनुष्मतां श्रेष्ठः॥(सः) परंतपः स्वस्य धर्मस्य रक्षिता स्वजनस्य रक्षिता जीवलोकस्य धर्मस्य च रक्षिता ॥ तस्य सत्याभिसंदस्य वृद्धस्य पितुः वचनात् वीरः स भार्यः स भ्रात्रा च वनं प्रव्राजितः॥

His eldest son and a dear one named Rama is one with the face like that of a moon, a scholar of all knowledge, best among all the wielders of bow. The destroyer of all enemies, he is a protector of righteousness, protector of his people, protector of all beings and the righteousness. Honoring the word of his father who is ever steadfast in truth , he went to the forest along with his wife and his brother as a wanderer.

तेन तत्र महारण्ये मृगयां परिधावता।
राक्षसा निहता श्शूरा बहवः कामरूपिणः॥9||
जनस्थान वधं श्रुत्वा हतौ च खरदूषणौ।
तत स्त्वमर्षापहृता जानकी रावणेन तु॥10||
वंचयित्वा वने रामं मृगरूपेण मायया।

स॥ तत्र महारण्ये मृगयां परिधावता बहवः कामरूपिणः शूराः राक्षसाः निहताः॥ ततः जनस्थानवधं च खरदूषणौ हतः श्रुत्वा वने मृगरूपेण मायया रामं वंचयित्वा रावणेन जानकी अमर्षा अपहृता॥

There in that great forest chasing animals, he killed many Rakshasas who can take any form. Then hearing about the killings in Janasthana as well as the killing of Khara and Dushana, Ravana abducted Sita out of anger, having deceived Rama in the guise of a deer.

समार्गमाणस्तां देवीं रामः सीतामनिंदिताम्॥11||
अससाद वने मित्रं सुग्रीवं नाम वानरं ।
ततः स वालिनं हत्वा रामः परपुरंजयः॥12||
प्रायच्छत् कपिराज्यं तत्सुग्रीवाय महाबलः।
सुग्रीवेणापि संदिष्टा हरयः कामरूपिणः॥13||
दिक्षु सर्वासु तां देवीं विचिन्वंती सहस्रशः।

स॥ सः रामः सीतां अनिंदितां देवीं वने मार्गमाणः सुग्रीवं नाम वानरं मित्रं अससाद॥ततः सः परपुरंजयः महाबलः रामः वालिनं हत्वा कपिराज्यं तत् सुग्रीवाय प्रायच्छत्॥ सुग्रीवेण संदिष्टाः सहस्रशः कामरूपिणः हरयः सर्वासु दिक्षुः तां देवीं विचिन्वंती ॥

That Rama in search of blemish less Sita found a friend by name Sugriva who is a Vanara. Then the destroyer of foes and powerful Rama , gave the kingdom of Vanaras to Sugriva after killing Vali. On the orders of Sugriva thousands of Vanaras who are capable of assuming any form went in search of Sita in all directions.

अहं संपाति वचनात् शतयोजनमायतम्॥14||
अस्या हेतौ र्विशालाक्ष्याः सागरं वेगवान् प्लुतः।
यथारूपं यथावर्णां यथालक्ष्मीं च निश्चिताम्॥15||
अश्रौषं राघवस्याहं सेय मासादिता मया।
विररामैव मुक्त्वासौ वाचं वानरपुंगवः॥16||

स॥ अस्य विशालाक्ष्याः हेतोः संपाति वचनात् अहं शतयोजनं आयतं सागरं प्लुतः ॥ अहम् राघवस्य तां यथारूपं यथावर्णं यथालक्ष्मीं अश्रौषं सा इयं मया आसादिता॥ असौ वानरपुंगवः एवं उक्त्वा विरराम॥

In search of that wide eyed one , based on the words of Sampati , I have crossed the sea which is hundred yojanas wide. I have seen here a lady of similar form, similar complexion, similar glow as described by Raghava. Having said this that Vanara stopped.

जानकी चापि तत् श्रुत्वा परं विस्मयमागता।
स॥तत् श्रुत्वा जानकी च परं विस्मयं आगता अपि॥

Hearing that janaki was also struck with wonder.

ततः सा वक्रकेशांता सुकेशी केशसंवृतम्॥17||
उन्नम्य वदनं बीरु श्शिंशुपावृक्ष मैक्षत॥18||
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्चवीक्ष्य।
स्वयं प्रहर्षं परमं जगाम सर्वात्मना राम मनुस्मरंती॥19||

स॥ ततः वक्रकेशांता भीरुः क्लेशसंवृतं सा वदनं उन्नम्य शिंशुपावृक्षं एक्षत॥ सीता कपेः वचनं निशम्य सर्वाः दिशः च प्रदिशः च वीक्ष्या स्वयं सर्वात्मना रामं अनुस्मरंती परमं प्रहर्षं जगाम॥

Then the timid lady with her face coverd with black hair lifeted her face and looked at the Simsupa tree. Hearing those words of the Vanara Sita looked in all directions and quarters while contemplating on Rama, the self of all and she experienced supreme joy.

सातिर्यगूर्ध्वं च तथा प्यधस्तान् निरीक्षमाणा तं अचिंत्य बुद्धिम्।
ददर्श पिंगाधिपतेरमात्यम् वातात्मजं सूर्य मिवोदयस्थम्॥20||

स॥ सा तिर्यक् ऊर्ध्वं च तथापि अथस्तात् निरीक्षमाणा अचिन्त्यबुद्धिं पिंगाधिपतेः अमात्यं उदयस्थं सूर्यं इव तं वातात्मजं ददर्श॥

She looked up and down obliquely and saw Hanuman who is of unimaginable intelligence, who is also the minister of the Vanara King. He is the son of the wind god , and looked like a rising Sun.

ఇత్యార్షే శ్రీమద్రామాయణే ఆదికావ్యే వాల్మీకీయే
చతుర్వింశత్ సహస్రికాయాం సంహితాయామ్
శ్రీమత్సుందరకాండే ఏకత్రింశస్సర్గః||

Thus ends Sarga Thirty one of Sunadarakanda in Ramayana the first ever poem composed in Sanskrit by the first poet sage Valmiki

|| m tat sat||