||Sundarakanda ||

|| Sarga 32||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ द्वात्रिंशस्सर्गः

ततश्शाखांतरे लीनं दृष्ट्वा चलितमानसा।
वेष्टितार्जुन वस्त्रं तं विद्युत्संघात पिंगळम्॥1||

स॥ततः शाखांतरेलीनं वेष्टितार्जुनवस्त्रं विद्युत्संघातपिंगळं तं दृष्ट्वा चलितमानसा अभवत्॥

Seeing him of tawny complexion like cluster of lightnings, hidden in the branches wearing white cloth Sita got perplexed.

साददर्श कपिं तत्र प्रश्रितं प्रियवादिनं।
फुल्लशोत्कराभासं तप्तचामीकरेक्षणम्॥2||

स॥ सा तत्र फुलशोत्कराभासं तप्तचामीकरेक्षणम् प्रश्रितं प्रियवादिनं कपिं ददर्श॥

She saw the Vanara who is readily approaching, who spoke pleasingly, who is looking like a cluster of Ashoka flowers in full bloom , with eyes of molten gold.

मैथिली चिंतयामास विस्मयं परमं गता।
अहो भीम मिदं रूपं वानरस्य दुरासदम्॥3||
दुर्निरीक्ष मिति ज्ञात्वा पुनरेव मुमोह सा।
विललाप भृशं सीता करुणं भयमोहिता॥4||
रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी।
रुरोद बहुधा सीता मंदं मंदस्वरा सती॥5||

स॥ परमं विस्मयं गता मैथिली चिंतयामास। अहो वानरस्य इदं रूपं भीमं दुरासदम् दुर्निरीक्ष्यं इति ज्ञात्वा पुनः मुमोह एव॥ सीता भामिनी भयमोहिता दुःखार्ता रामरामेति लक्ष्मणेति भृशं करुणं विललाप॥सती सीता मंदं मंदस्वरा बहुधा रुरोद॥

Very much suprised Maithili started thinking. 'This Vanara's form is frighteing, terrible to look at. He is inaccessible'. Thinking over this again she almost fainted. Sita , the noble lady , lost in fear, enveloped with sorrow, cried pitiably saying repeatedly 'Rama Rama' and 'Lakshmana'. Sita in a low voice cried in many ways.

सातं दृष्ट्वा हरिश्रेष्ठं विनीतव दुपस्थितम्।
मैथिली चिंतयामास स्वप्नोsयमिति भामिनी॥6||
सा वीक्षमाणा पृथु भुग्नवक्त्रम् शाखामृगेंद्रस्य यथोक्त कारम्।
ददर्श पिंगाधिपते रमात्यं वातात्मजं बुद्धिमतां वरिष्ठम्॥7||
सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेन बभूव सीता।
चिरेण संज्ञां प्रतिलभ्य भूयो विचिंतयामास विशालनेत्रा॥8||

स॥ सा वीनीतवत् उपस्थितं तं हरिश्रेष्ठं दृष्ट्वा मैथिली अयं स्वप्नः इति चिंतयामास॥ सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेंद्रस्य यथोक्तारम् पिंगाधिपतेः अमात्यं वातात्मजं बुद्धिमतां वरिष्ठं ददर्श॥सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव। विशालनेत्रा चिरेण संज्ञां प्रतिलभ्य विचिंतयामास॥

Seeing that Vanara standing humbly nearby, Maithili thought this must be a dream. Looking further she saw a Vanara with a large curved face , who is an obedient servant , a minister of the Vanara king, foremost among the intelligent , and son of wind god. Looking at him she quickly lost her senses. The large eyed lady quickly recovered and started thinking.

स्वप्ने मयाsयं विकृतोद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः।
स्वस्त्यस्तु रामाय स लक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः॥ 9||
स्वप्नोsपि नायं नहि मेsस्ति निद्रा शोकेन दुःखेन च पीडितायाः।
सुखं हि मे नास्ति यतोsस्मि हीना ते नेंदुपूर्ण प्रतिमाननेन।10||

स॥ अद्य मया विकृतः शास्त्रकारणैः निषिद्धः शाखामृगः स्वप्ने दृष्टः। सलक्ष्मणाय रामाय तथा राज्ञः मे पितुः जनकस्य स्वस्तिः अस्तु॥ अयं स्वप्नः अपि न । शोकेन दुःखेन च पीडितायाः मे निद्रा नास्ति हि मे सुखं नास्ति हि यतः इंद्रपूर्णप्रतिमानेन तेन हीना अस्मि ॥

Today I saw an ugly monkey in my dream which is a prohibited animal in dreams by Sastras. Let auspicious things happen for Rama, Lakshmana, and the king my father Janaka. This is not a dream. Troubled by grief and sorrow I have no sleep and no happiness without the the one whose face is like that of full moon.

रामेति रामेति सदैव बुद्ध्या
विचिंत्य वाचा ब्रुवती त मेव।
तस्यानुरूपं च कथां तमर्थं
एवं प्रपश्यामि तथा शृणोमि॥11||
अहं तस्याद्य मनोभवेन
संपीडिता तद्गत सर्वभावा।
विचिंतयंती सततं तमेव
तथैव पश्यामि तथा शृणोमि॥12||
मनोरथ स्स्यादिति चिंतयामि
तथापि बुद्ध्या च वितर्कयामि।
किं कारणं तस्य हि नास्ति रूपम्
सुव्यक्त रूपश्च वद त्ययं माम्॥13||

स॥ रामेति रामेति सदा एव बुद्ध्या विचिंत्य तमेव बृवंती तस्य अनुरूपं तदर्थं कथां एव प्रपश्यामि तथा श्रुणोमि ॥ अहं तस्य मनोभावेन संपीडिता तद्गतसर्वभावा सततं तमेव विचिंतयंती तथैव पश्यामि तथा श्रुणोमि ॥मनोरथः स्यात् इति चिंतयामि । बुद्ध्या च तथा वितर्कयामि । तस्य रूपं नास्ति हि । अयं सुव्यक्तरूपः माम् वदति कारणं किं ॥

Thinking of Rama and Rama alone, always saying things about him, always thinking of his form , always talking about him , now I am seeing him and hearing him. I am tormented by intense love for Rama , with thoughts always immersed in him, always thinking about him now I see him and hear him. All of this is my wish I think. I am deliberating on my mind. But that (mind) has no form. But this one in front of me has a form and is speaking to me why ?

नमोsस्तु वाचस्पतये सवज्रिणे
स्वयंभुवे चैव हुताशनायच।
अनेन चोक्तं यदिदं ममाग्रतो
वनौकसा तच्च तथास्तु नान्यथा॥14||

स॥ सवज्रिणे वाचस्पतये स्वयंभुवे च एव हूताशनाय च नमः अस्तु। अनेन वनौकसा मम अग्रतः यत् इदं उक्तं तत् तथा अस्तु। अन्यथा न॥

Salutations to Indra along with Brihaspti, Brahma the creator and the fire god too. Let all those words spoken by the Vanara in front of me be true and not anything else.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे द्वात्रिंशस्सर्गः॥

Thus ends the Sarga thirty two of Sundarakanda in Ramayana the first poem ever composed in Sanskrit by the first poet sage Valmiki.

||om tat sat||