||Sundarakanda ||

|| Sarga 33||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ त्रयस्त्रिंशस्सर्गः

सोsवतीर्य द्रुमा त्तस्मा द्विद्रुमप्रतिमाननः।
विनीतवेषः कृपणः प्रणिप त्योपसृत्य च॥1||
ता मब्रवीन्महातेजा हनुमान् मारुतात्मजः।
शिर स्यंजलिमाधाय सीतां मधुरया गिरा॥2||

स॥सः विनीत वेषः विद्रुमप्रतिमाननः तस्मात् द्रुमात् अवतीर्य कृपणः प्रणिपत्य उपसृत्य च॥ महातेजा मारुतात्मजः हनुमान् शिरस्यंजलिमाधाय मधुरया गिरा तां सीतां अब्रवीत्॥

Dressed in a somber manner, and shining he whose face was of the color of corals, having offered salutations approached the pitiable one. The son of wind god, Hanuman with great luster, bowing his head as mark of respect, spoke to Sita in sweet words.

कानु पद्म पलाशाक्षि क्लिष्टकौशेयवासिनि।
द्रुमस्य शाखामालंब्य तिष्ठसि त्वमनिंदिते॥3||
किमर्थं तव नेत्राभ्यां वारिस्रवति शोकजं।
पुंडरीकपलाशाभ्यां विप्रकीर्ण मिवोदकम्॥4||

स॥ पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि अनिंदिते द्रुमस्य शाखां आलंब्य तिष्टसि । का नु?॥तव नेत्राभ्यां किमर्थं वारिः पुंडरीकपलाशाभ्यां विप्रकीर्ण उदकं इव स्रवति ॥

Oh Lady with eyes like lotus petals, blemish less one, wearing crumpled silk garments and holding a branch and standing , who are you? Tears are flowing from your eyes like the water trickling down a pair of lotus petals.

सुराणां असुराणां वा नागगंधर्व रक्षसाम्।
यक्षाणां किन्नराणां वा का त्वं भवसि शोभने॥5||
का त्वं भवसि रुद्राणां मरुतां वा वरानने।
वसूनां वा वरारोहे देवता प्रतिभासिमे॥6||

स॥ शोभने सुराणां वा असुराणां वा नाग गंधर्व रक्षसाम् यक्षाणां वा किन्नराणां व का त्वं॥ रुद्राणां वा मरुतानांवसूनां वा का त्वं। मे वरानने वरारोहे (त्वं) देवता प्रतिभासि ।

Oh Auspicious lookngi lady ! Are you a goddess or a demon, or Gandharva, or Nagas, or Rakshasa or Yakshas ? O Beautiful lady ! Are you one of Rudras or Maruts ? Oh best among women you appear to be a goddess to me.

किन्नु चंद्रमसा हीना पतिता विबुधालयात्।
रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता॥7||
का त्वं भवसि कल्याणी त्व मनिंदितलोचने।
कोपाद्वा यदि मोहात् भर्तारमसितेक्षणा॥8||
वसिष्टं कोपयित्वा त्वं नासि कल्याण्यरुंधती।

स॥ चंद्रमसा हीना विबुधालयात् पतिता ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता रोहिणी किं नु?॥ कल्याणी अनिंदितलोचने का त्वं भवसि । कोपात् वा मोहात् वा भर्तारं वशिष्ठं कोपयित्वा कल्याणी अरुंधती न असि |

Are you one one of the luminaries that fell down separated from the moon? Are you Rohini, embellished with the best of virtues among all the constellations? Oh Lady with blemish less eyes! Who are you ? Are you Arundhati who out of anger or out of love, made Vasistha angry?

कोनुपुत्रः पिता भ्राता भर्ता वा ते सुमध्यमा॥9||
अस्माल्लोकादमुं लोकं गतं त्वं अनुशोचसि।
रोदना दतिनिश्श्वासात् भूमिसंस्पर्शना दपि॥10||
न त्वां देवी महं मन्ये राज्ञ स्संज्ञावधारणात्।
व्यंजनानि च ते यानि लक्षणानि च लक्षये॥11||
महिषी भूमिपालस्य राजकन्यासि मे मता।

स॥ सुमध्यमे ते पुत्रः पिता भ्राता भर्ता वा को नु। अस्मात् लोकात् अमुं लोकं गता अनुशोचसि ॥स॥ रोदनात् अतिनिःश्वासात् भूमि संस्पर्शनात् अपि राज्ञः संज्ञावधारणात् त्वां देवीं संज्ञे॥ ते यानि व्यंजनानि लक्षणानि च लक्षये भूमिपालस्य महिषी राजकन्यासि च मे मता॥

Who is the son or father of brother or husband , who departed from this world making you sorrowful. From your crying and the deep breaths and the touching of the ground, you bear the signs of a royal queen. On the basis of your signs and other qualities I think that you are the queen of a king or a princess.

रावणेन जनस्थानात् बलादपहृता यदि॥12||
सीता त्वमसि भद्रं ते तन्ममाचक्ष्य पृच्छतः।
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम्॥13||
तपसा चान्वितो वेषः त्वं राममहिषी ध्रुवम्।

स॥ त्वं जनस्थानात् रावणेन बलात् अपहृता सीता असि यदि तत् पृच्छतः मम आचक्ष्व । ते भद्रं अस्तु॥तव दैन्यं अतिमानुषं रूपं व तपसा अन्वितः वेषः यथा त्वं ध्रुवं राम महिषी॥

Are you Sita that was brought by force from Janasthana by Ravana , if you are that please tell me. May god bless you. Your plight, superior human form, your robes marked with asceticism , as such you certainly look like Rama's queen.

सा तस्य वचनं श्रुत्वा रामकीर्तन हर्षिता॥14||
उवाच वाक्यं वैदेही हनुमंतं द्रुमाश्रितम्।
पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः॥15||
स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः।
दुहिता जनकस्याहं वैदेहस्य महात्मनः॥16||
सीतेति नाम नाम्नाsहं भार्या रामस्य धीमतः।

स॥ सा वैदेही तस्य वचनं श्रुत्वा रामकीर्तन हर्षिता द्रुमाश्रितं हनुमंतं वाक्यं उवाच॥अहं पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः शत्रुसैन्य प्रतापिनः दशरथस्य स्नुषा ॥ अहं महात्मनः वैदेहस्य जनकस्य दुहिता । धीमतः रामस्य भार्या सीत इति नाम नाम्ना॥

That Vaidehi hearing his words , delighted by the words of praise about Rama, addressed Hanuman who was seated on the tree. I am the daughter in law of Dasaratha, who is the foremost among the great kings on this earth, who knows self, who is a slayer of enemy armies. I am the daugther of the great soul Janaka , the king of Videha. I am the wife of sagacious Rama.

समा द्वादश तत्राहं राघवस्य निवेशने॥17||
भुंजाना मानुषान् भोगान् सर्वकामसमृद्धिनी।
तत्र त्रयोदशे वर्षे राज्ये नेक्ष्वाकुनंदनम्॥18||
अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे।

स॥ अहं तत्र राघवस्य निवेसने मानुषान् भोगान् भुंजाना सर्वकामसमृद्धिनी द्वादश समाः॥ तत्र त्रयोदसे वर्षे सोपाध्यायः राजा इक्ष्वाकुकुलनंदनं राज्येन अभिषिक्तुं प्रचक्रमे॥

I have lived in Rama's house for twelve years, enjoying the pleasures of a human being. Then in the thirteenth year, along with the Royal preceptor, the king decided to anoint Rama, the delight of Ikshwaku line, as the king.

तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने॥19||
कैकेयी नाम भर्तारं देवी वचनमब्रवीत्।
न पिबेयं न खादेयं प्रत्यहं मम भोजनम्॥20||
एष मे जीवितस्यांतो रामो यद्यभिषिच्यते।
यत्त दुक्तं त्वाया वाक्यं प्रीत्या नृपति सत्तम॥21||
तच्छेन्न वितथं कार्यं वनं गच्छतु राघवः।

स॥ तस्मिन् राघवस्य अभिषेचने संभ्रियमाणे कैकेयि नाम देवी भर्तारं वचनं अब्रवीत्॥ न पिबेयं प्रत्यहं भोजनं न खादेयं (यदि) रामः अभिषिच्यते । एशः मे जिवितं अंतः॥ नृपसत्तम त्वया प्रीत्या यत् तत् वाक्यं उक्ताम् तत् वितथं न कार्यं यदि राघवः वनम् गच्छतु॥

While the arrangements for anointing Rama are going on, queen by name Kaikeye spoke to her husband. 'I will not drink or eat or eat food. if Rama is anointed. This is the end of my life. Oh Best of Kings those words of love you spoke to me, if they are not to be false then Rama goes to forest'.

स राजा सत्यवाग्देव्या वरदानमनुस्मरन्॥22||
मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्।
ततस्थु स्थविरो राजा सत्ये धर्मे व्यवस्थितः॥23||
ज्येष्ठं यशस्विनं पुत्त्रं रुदन् राज्य मयाचत।
स पितुर्वचनं श्रीमान् अभिषेकात्परं प्रियम्॥24||
मनसा पूर्व मासाद्य वाचा प्रतिगृहीतवान्।

स॥ सत्यवाक् स राजा देव्याः वरदानं अनुस्मरन् कैकेय्याः अप्रियं वचनं श्रुत्वा मुमोह॥ ततः सत्ये धर्मे व्यवस्थितः स्थवीरः राजा रुदन् ज्येष्ठं पुत्रं राज्यं अयाचत। सः श्रीमान् पितुः वचनं अभिषेकात् परं प्रियं मनसा पूर्वं आसाद्य वाचा प्रतिगृहीतवान् ॥

The king ever truthful,remembering the word given to Kaikeye, hearing the unpleasant words of Kaikeye fainted. Then the king who is aged , who is established in righteous conduct, while crying begged his famed eldest son to give back the kingdom. That illustrious one for whom father's word as more important than the kingdom , having accepted in his mind then accepted his words.

दद्यान्नप्रतिगृह्णीयान् नब्रूयात् किंचिदप्रियम्॥25||
अ पि जीवितहेतोर्वा रामः सत्यपराक्रमः।
स विहा योत्तरीयाणि महार्हाणि महायशाः॥26||
विसृज्य मनसा राज्यं जनन्यै मां समादिशत्।
साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी॥27||
न हि मे तेन हीनया वासः स्वर्गेsपि रोचते।
प्रागेन तु महाभागः सौमित्रिः मित्रनंदनः॥28||
पूर्वज स्यानुयात्रार्थे द्रुमचीरै रलंकृतः।

स॥सत्यपराक्रमः रामः दद्यात् नप्रतिगृह्णियान् जीवितहेतोर्वा किंचिय् अप्रियम् नब्रूयात् ॥महायशाः सः महार्हाणि उत्तरीयाणि विहाय मनसा राज्यं विश्रुज्य माम् जनन्यै समादिशत्॥अहं तस्य अग्रतः वनचारिनी तूर्णं प्रस्थिता । तेन हीनायाः मे स्वर्गोपि न रोचते ॥महाभागः मित्रनंदनं सौमित्रि पूर्वजस्य अनुयात्रार्थे द्रुमचीरै रलंकृतः॥

Rama whose strength is his truthfulness, gives but not take even for his life, nor will he speak harsh words. That great person, casting off the luxurious upper garments, giving up the kingdom wholeheartedly, entrusted me to his mother. I myself started before him to be a forest dweller. for without him even heaven is not preferable. Sumitra's son, a noble one, a delight to his friends, dressed himself in bark clothes to follow his brother to the forest.

ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः॥29||
प्रविष्टाः स्म पुरा दृष्टं वनं गंभीरदर्शनम्।
वसतो दंडकारण्ये तस्याह ममितौजसः॥30||
रक्षसा पहृता भार्या रावणेन दुरात्मना।
द्वौमासौ तेन मे कालो जीवितानुग्रहः कृतः॥31||
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्तक्ष्यामि जीवितम्॥32||

स॥ ते वयं भर्तुः आदेशं बहुमान्य दृढव्रताः पुरा अदृष्टं गंभीतदर्शनं वनं प्रविष्टाः स्म॥अमिततेजसः तस्यां भार्या अहं दंडकारण्ये वसतः । दुरात्मना रक्षसा रावणेन अपहृता॥तेन द्वौमासौ कालो जीवितानुग्रहः कृतः। ततः द्वाभ्यां मासाभ्यां ऊर्ध्वं जिवितं तक्ष्यामि॥

Then we following the kings orders fully determined entered the impenetrable forest. While the most valiant Rama was living in Dandaka forest , I his wife was carried away by the evil minded Ravana. He has given me a two months to live. After those two months I will be giving up my life.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे त्रयस्त्रिंशस्सर्गः॥

Thus ends the Sarga thirty three of Sundarakanda in Ramayana the first poem ever composed in Sanskrit by the first poet sage Valmiki.

|| om tat sat||