||Sundarakanda ||

|| Sarga 34||( Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ चतुस्त्रिंशस्सर्गः

तस्यात् तद्वचनं श्रुत्वा हनुमान् हरियूधपः।
दुःखा दुःखाभिभूतायाः सांत्व मुत्तर मब्रवीत्॥1||

स॥ हरियूधपः दुःखात् दुःखाभिभूतायाः तस्याः तत् वचनं श्रुत्वा सांत्वं उत्तरं अब्रवीत्॥

Hearing the words of the one who was overwhelmed with sadness, Hanuman spoke words of consolation in reply.

अहं रामस्य संदेशात् देवि दूतस्तवागतः।
वैदेही कुशली रामः त्वां च कौशलमब्रवीत्॥2||
यो ब्रह्ममस्त्रं वेदांश्च वेद वेदविदां वरः।
स त्वा दाशरथी रामो देवि कौशल मब्रवीत्॥3||
लक्ष्मणश्च महातेजा भर्तुस्तेsनुचरः प्रियः।
कृतवान् शोकसंतप्तः शिरसा ते अभिवादनम्॥4||

स॥ देवी अहं रामस्य दूतः तव संदेशात् आगतः। वैदेही कुशली रामः त्वां च कौशलं अब्रवीत्॥ वेदविदां वरः यः ब्रह्मम् अस्त्रं च वेदांश्च वेद सः दाशरथी रामः त्वां कौशलं अब्रवीत् ॥ ते भर्तुः अनुचरः महातेजाः लक्ष्मणः च शोकसंतप्तः ते शिरसा अभिवादनं कृतवान् ॥

Oh Devi ! I am Rama's messenger, came here for you on his orders. Oh Vaidehi! Rama who is well, is enquiring your welfare. The one who knows all Vedas, who knows Brahma astra and Vedas too, who is a son of Dasaratha, that Rama asks about your welfare. Your husband's follower, the very mighty Lakshmana immersed in grief, bowing his head, offers salutations to you.

सा तयोः कुशलं देवी निशम्य नरसिंहयोः।
प्रीतिसंहृष्ट सर्वांगी हनूमंतं अथाब्रवीत्॥5||
कल्याणी बतगाथेयं लौकीकि प्रतिभाति मा।
एति जीवितमानंदो नरं वर्षशतादपि॥6||

स॥ अथ सा देवी प्रीतिसंहृष्टसर्वांगी तयोः नरसिंहयोः कुशलं निशम्य प्रीति संहृष्टः हनुमंतं अब्रवीत्॥ जीवंतं नरं वर्षशतादपि जीवंतं (तदा) आनंदः एति लौकीकि गाधा कल्याणि इति मे प्रतिभाति॥

Then that lady experiencing pleasure all over her limbs, hearing the welfare of the two lions among men, spoke to Hanuman. "The popular adage that ' the human being who lives hunderd years finds happiness ', appears to me as true".

तया समागते तस्मिन् प्रीतिरुत्पादिताद्भुता।
परस्परेण चालापं विश्वस्तौतौ प्रचक्रतुः॥7||
तस्याः तद्वचनं श्रुत्वा हनुमान् हरियूधपः।
सीतायाः शोकदीनायाः समीपमुपचक्रमे॥8||

स॥ समागते तस्मिन् तथा अद्भुता प्रीतिः उत्पादिता । तौ विश्वस्तौ परस्परेण आलापं च चक्रतुः॥ हनुमान् हरियूधपः सीतायाः शोकदीनायाः तस्याः समीपं उपचक्रमे ॥

As they conversed with each other, wonderful pleasure was felt by her. Both of them felt confidence in each other and conversed. Hanuman the best among Vanaras moved near Sita who is stricken with grief.

यथा यथा समीपं स हनुमानुपसर्पति।
तथा तथा रावणं सा तं सीता परिशंकते॥9||
अहोधिग्दुष्कृत मिदं कथितं हि य दस्य मे।
रूपांतर मुपागम्य स एवायं हि रावणः॥10||
तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता।
तस्या मे वानवद्यांगी धरण्यां समुपाविशत्॥11||

स॥ यथा यथा सः हनुमान् उपसर्पति तथा तथा सा सीता तं रावणं परिशंकते॥अहो यदि अयं रूपांतरं उपागम्य सः रावणः हि (अस्ति) इदं अस्य मे कथितं दुष्कृतं धिक्॥ अनवद्यांगी सा अशोकश्च शाखाम् विमुक्त्वा शॊककर्शिता तस्यां धरण्यामेव समुपाविशत् ॥

As Hanuman slowly moved towards her, Sita suspected he might be Ravana."Oh If this is that Ravana who is in disguise then I told him what should not have been told". That lady with flawless limbs, who is emaciated with grief, left the branch of the Ashoka tree held by her and squatted down on the ground.

हनुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम्।
अवंदत महाबाहुः ततस्तां जनकात्मजाम्॥12||
सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत।
तं दृष्ट्वा वंदमानं तु सीता शशिनिभानना॥13||
अब्रवीत् दीर्घमुच्छ्वस्य वानरं मधुरस्वरा।

स॥ महाबाहुः हनुमान् अपि दुःखार्तां भयमोहितां जनकात्मजां तां दृष्ट्वा अवंदत॥भयवित्रस्ता सा च एनं भूयः न अभ्युदैक्षत एव। तं शशिनिभानना सीता दीर्घः उच्छ्वस्य वंदमानं वानरं मधुर स्वरा अब्रवीत् ॥

Seeing that lady, daughter of Janaka, who is immersed in sorrow and filled with fear, Hanuman prostrated. Trembling with fear she did not even look at him. Then that moon faced lady Sita breathing deeply spoke softly to the Vanara who bowed down to her.

मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम्॥14||
उत्पादयसि मे भूयः संतापं तन्नशोभनम्।
स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत्॥15||
जनस्थाने मया दृष्टः त्वं स एवासि रावणः।
उपवासकृशां दीनां कामरूप निशाचर॥16||
संतापयसि मां भूयः संतप्तां तन्नशोभनम्।

स॥ यदि त्वं स्वयं मायावी रावणः मायां प्रविष्टः मे भूयः संतापं उत्पादयसि तत् न शोभनम्॥ यः रावणः स्वं रूपं परित्यज्य परिव्राजक रूपधृत् जनस्थाने मया दृष्टः त्वं स एव असि॥ निशाचर कामरूप उपवास कृशां संतप्तां दीनां मां भूयः संतापयसि तत् न शोभनम्॥

"If you are the trickster Ravana himself and entered here in disguise , then you are again causing grief . That is not good. You are the same Ravana I saw in Janasthana who having given up his own form was disguised as a mendicant . Oh Vile night-being, who can assume any form, you are again making me, who is already in sorrow and in a pitiable condition, who is emaciated due to fasting, more sorrowful. That is not good."

अथवा नैतदेवं हि यन्मया परिशंकितम्॥17||
मनसो हि मम प्रीतिरुत्पन्ना तवदर्शनात्।
यदि रामस्य दूतस्त्वं आगतो भद्रमस्तुते॥18||
पृछ्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे।
गुणान् रामस्य कथय प्रियस्य मम वानर॥19||
चित्तं हरसि मे सौम्य नदीकूलं यथा रयः

स॥ अथवा मया यत् परिशंकितं एतत् एवं न हि (किंतु) तव दर्शनात् मम मनसः प्रीतिः उत्पन्न हि ॥यदि त्वं रामस्य दूतः आगतः ते भद्रं अस्तु । हरिश्रेष्ठ त्वां मे प्रिया रामकथा पृच्छामि । वानर मम प्रियस्य रामस्य गुणान् कथय । हे सौम्य यथा नदीकूलं रयः तथा मे चित्तं हरसि ॥

"Or this may only be my suspicion because after seeing you my pleasure is generated in my mind. If you are Rama's messenger may all be well with you. Oh best of Vanaras! I am asking you tell me the story of Rama. Oh Vanara tell my dear Rama's virtues, Oh Gentle one! Like the currents in the river bank, you are luring my mind".

अहो स्वप्नस्य सुखता याsहमेवं चिराहृता॥20||
प्रेषितं नाम पश्यामि राघवेण वनौकसं।
स्वप्नेsपि यद्यहं वीरं राघवं सह लक्ष्मणम्॥21||
पश्येयं नावसीदेयं स्वप्नोsसि मममत्सरी।
नाहं स्वप्न महं मन्ये स्वप्ने दृष्ट्वा हि वानरम्॥22||
न शक्योsभ्युदयः प्राप्तुं प्राप्त श्चाभ्युदयो मम।

स॥ स्वप्नस्य सुखता अहो चिराहृता या राघवेण प्रेषितं नाम वनौकसं एवम् पश्यामि ॥ स्वप्ने अपि सहलक्ष्मणं वीरं राघवं पश्येयं यदि न अवसीदेयं मम स्वप्नः अपि मत्सरी॥ अहं इयं स्वप्नं न मन्ये। स्वप्ने वानरं दृष्ट्वा अभ्युदयः प्राप्तुं न शक्यः । (परंतु) मम अभ्युदयः प्राप्तः च ॥

'Oh the pleasure of a dream, I have been seeing the Vanara sent by Raghava in that way only. Even in a dream, If I can see heroic Raghava along with Lakshmana I will not be despondent. Even a dream is inimical to me. I donot think this is a dream. Seeing a Vanara in dream you cannot get happy tidings. But I am experiencing happiness'.

'किन्नु स्याच्चित्तमोहोsयं भवेद्वातगतिस्त्वियम्॥23||
उन्मादजो विकारो वा स्यादियं मृगतृष्णिका।
अथवा नायमुन्मादो मोहोsप्युन्मादलक्षणः॥24||
संबुध्ये चाह मात्मानं इमं चापि वनौकसम्।
इत्येवं बहुधा सीता संप्रधार्य बलाबलम्॥25||
रक्षसां कामरूपत्वान् मेने तं राक्षसाधिपम्।

स॥ अयं चित्तमोहः स्यात् किं नु ? इयं वातगतिः भवेत् । उन्मादजः विकारो वा। इयं मृगतृष्णिका स्यात् ॥अथवा न यं उन्मादः उन्मादलक्षणः मोहः अपि न।अहं आत्मानम् इयं वनौकसां संबुध्ये॥सीता इत्येवं बलाबलं बहुधा संप्रधार्य रक्षसां कामरूपत्वात् तं राक्षसाधिपम् मेने॥

' May be this is a delusion of the mind. This may be mental imbalance. It may have developed out of madness or change. This could be a mirage too. But this is not inasnity or nor is it delusion a sign of insanity. I am myself recognizing this Vanara'. Thus Sita in many ways weiging the strength and weakness of her thoughts and after reconsideration, decided that he is indeed the king of Rakshasas who can take any form .

'एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा॥26||
न प्रति व्याजहाराsथ वानरं जनकात्मजा।
सीतायाश्चिंतितं बुद्ध्वा हनुमान् मारुतात्मजः॥27||
श्रोत्रानुकूलै र्वचनैः तदा तां संप्रहर्षयत्।

स॥ तदा सा तनुमध्यमा जनकात्मजा एतां बुद्धिं कृत्वा अथ वानरं प्रति न व्याजहार ॥ हनुमान् मारुतात्मजः सीतायाः चिंतितं बुद्ध्वातदा श्रोत्रानुकूलैः वचनैः तां संप्रहर्षयत् ॥

Then that slender waisted daughter of Janaka, having entertained these thoughts did not respond to the Vanara. Then Hanuman, the son of wind god, hvaing undertsood Sita's thoughts spoke pleasing words that brought joy.

अदित्य इव तेजस्वी लोककांतः शशी यथा॥28||
राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा।
विक्रमेणोपपन्नश्च यथा विष्णु र्महायशाः॥29||
सत्यवादी मथुरवाग्देवो वाचस्पति र्यथा।
रूपवान् सुभगः श्रीमान् कंदर्प इव मूर्तिमान्॥30||

स॥अदित्य इव तेजस्वी शशी यथा लोककांतः देवः वैश्रवणो यथा सर्वस्य लोकस्य राजा महायशाः विष्णु यथा विक्रमेण उपपन्नः च॥सत्यवादी वाचस्पती यथा मधुर वाग्देवः । रूपवान् सुभगः श्रीमान् मूर्तिमान् कंदर्प इव॥

"He is Glorious like Sun, brings delight to the whole world like Moon, king of kings like Vaisrava, renowned like Vishnu endowed with valor. truthful in speech like Brihaspati, handsome, graceful, prosperous personification like Kamadeva.

स्थानक्रोथःप्रहर्ता च श्रेष्ठो लोके महारथः।
बाहुच्छाया मवष्टब्धो यस्य लोको महात्मनः॥31||
अपकृष्याश्रमपदान् मृगरूपेण राघवं।
शून्ये येनापनीतापि तस्य द्रक्ष्यसि यत् फलम्॥32||

स॥ स्थानक्रोधः प्रहर्ता च लोके शेष्ठः महारथः लोकः यस्य महात्मनः बाहुच्छायामवष्टभ्यो ॥येन राघवं मृगरूपेण आश्रमपदात् अपकृष्य शून्ये अपनीता असि त्वया यत् फलं द्रक्ष्यसि॥

He shows anger to the right persons, punishes too. Foremost among charioteers, a great self under the shadow of whose shoulders the world takes refuge. Such Raghava has been deceived by Ravana and from the empty Ashrama you were brought. The result of that deceitful action you will see.

'न चिरात् रावणं संख्ये यो वधिष्यति वीर्यवान्।
रोषप्रमुक्तै रिषुभिः ज्वलद्भिरिव पावकैः॥33||
तेनाहं प्रेषितो दूतः त्वत्सकाश मिहागतः।
तद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत्॥34||

स॥ वीर्यवान् यः नचिरात् रोषप्रमुक्तैः ज्वलद्भिः पावकैः इव इषुभिः संख्ये रावणं वधिष्यति। तेन दूतः प्रेषितः इह त्वत्सकाशं आगतः । त्वद्वियोगेन दुःखार्तः सः त्वां कौशलं अब्रवीत् ॥

'The heroic one will soon will kill Ravana in war with burning arrows released in great anger. I am the messenger sent by him standing in your presence. He has made enquires about your well being'.

लक्ष्मणश्च महातेजाः सुमित्रानंदवर्धनः।
अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत्॥35||
रामस्य च सखा देवि सुग्रीवो नाम वानरः।
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥36||

स॥ महातेजः सुमित्रानंदवर्धनः महाबाहुः लक्ष्मणः च अभिवाद्य सः त्वां कौशलं अब्रवीत् ॥ देवी रामस्य च सखा सुग्रीवः नाम वानरः वानरमुख्यानां राजा सः त्वां कौशलं अब्रवीत् ॥

'Lakshmana, the brilliant long armed one, the delight of Sumitra, offering salutations asks about your well being. Oh Devi! Rama's friend, Vanara by name Sugriva, king of Vanaras chiefs asks about your well being'.

'नित्यं स्मरति रामः त्वां ससुग्रीवः सलक्ष्मणः।
दिष्ट्या जीवसि वैदेही राक्षसीवशमागता॥37||
न चिरात् द्रक्ष्यसे रामं लक्ष्मणं च महाबलम्।
मध्ये वानर कोटीनां सुग्रीवं चामितौजसम्॥38||

स॥वैदेही ससुग्रीवः स लक्ष्मणः च रामः त्वां नित्यम् स्मरति।राक्षसीवशम् आगता दिष्ट्या जीवसि ॥रामम् महाबलं लक्ष्मणं च वानर कोटीनां मध्ये अमितौजसां सुग्रीवं च न चिरात् द्रक्ष्यसे॥

"Oh Vaidehi! Rama along with Lakshmana and Sugriva always thinks about you. By fortune, you are alive, though fallen into the hands of Rakshasis. You will soon see mighty Rama along with Lakshmana and Sugriva of unlimited prowess surrounded by crores of Vanaras".

अहं सुग्रीव सचिवो हनुमान् नाम वानरः।
प्रविष्ठो नगरीं लंकां लंघयित्वा महोदधिम्॥39||
कृत्वा मूर्थ्नि पदन्यासं रावणस्य दुरात्मनः।
त्वां द्रष्टु मुपयातोsहं समाश्रित्य पराक्रमम्॥40||

स॥ अहम् सुग्रीव सचिवः । हनुमान् नाम वानरः। महोदधिं लंघयित्वा लंकां नगरीं प्रविष्ठः ॥दुरात्मनः रावणस्य मूर्ध्निः पदान्यासं कृत्वा पराक्रमं समाश्रित्य अहं त्वां द्रष्टुं उपयातः॥

'I am the minister of Sugriva. A Vanara by name Hanuman. Crossing the great ocean I have entered the city of Lanka. Stepping on the head of the vile Ravana, using my valor I have come to see you'.

'नाह मस्मि तथा देवी यथा माम् अवगच्छसि।
विशंका त्यजतां एषा श्रद्धत्स्व वदतो मम॥41||

स॥ देवी मां यथा अवगच्छसि अहं तथा न अस्मि । एषा विशंका त्यजतां वदतः मम श्रद्धत्स्व॥

'Oh Devi I am not what you are thinking. Leave those doubts as I speak to you and trust me'.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे चतुस्त्रिंशस्सर्गः॥

ई विधमुगा श्रीमद्वाल्मीकि रामायणमुलो सुंदरकांडलो मुप्पदि नालुगव सर्ग समाप्तमु.

Thus ends the thirty fourth Sarga of Sundarakanda in Ramayana the first ever poem composed in Sanskrit by the firts poet sage Valmiki.

||om tat sat||
||ओम् तत् सत् ||