||Sundarakanda ||

|| Sarga 35||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ पंचत्रिंशस्सर्गः

तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात् ।
उवाच वचनं सांत्व मिदं मथुरया गिरः॥1||

क्वते रामेण संसर्गः कथं जानासि लक्ष्मणम्।
वानराणां नराणं च कथामासीत् समागमः॥2||

यानि रामस्य लिंगानि लक्ष्मणस्य च वानर।
तानि भूयः समाचक्ष्व न मां शोकः समाविशेत्॥3||

कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशं।
कथ मूरू कथं बाहू लक्ष्मणस्य च शंस मे॥4||

एवमुक्तस्तु वैदेह्या हनुमान्मारुतात्मजः।
ततो रामं यथा तत्त्व माख्यातुमुपचक्रमे॥5||

जानंती बत दिष्ट्या मां वैदेहि परिपृच्छसि।
भर्तुः कमल पत्राक्षि संस्थानं लक्ष्मणस्य च॥6||

यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै।
लक्षितानि विशालाक्षी वदतः श्रुणु तानि मे॥7||

रामः कमलपत्राक्षः सर्वसत्वमनोहरः।
रूपदाक्षिण्य संपन्नः प्रसूते जनकात्मजे॥8||

तेजसाssदित्य संकाशः क्षमया पृथिवी समः।
बृहस्पति समो बुद्द्या यशसा वासवोपमः॥9||

रक्षिता जीवलोकस्य स्वजन स्याभिरक्षिता।
रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः॥10||

रामोभामिनि लोकस्य चातुर्वर्णस्य रक्षिता।
मर्यादानां च लोकस्य कर्ता कारयिता च सः॥11||

अर्चिष्मा नर्चितोsत्यर्थं ब्रह्मचर्यव्रते स्थितः।
साधूनां उपकारज्ञः प्रचारज्ञः श्च कर्मणाम्॥12||

राजविद्या विनीतश्च ब्राह्मणनामुपासिता।
श्रुतवान् शीलसंपन्नो विनीतश्च परंतप॥13||

यजुर्वेद विनीतश्च वेदविद्भिः सुपूजितः।
धनुर्वेदेच वेदेषु वेदांगेषु च निष्ठितः॥14||

विपुलांसो महाबाहुः कंबुग्रीवः शुभाननः।
गूढजत्रुः सुताम्राक्षो रामो देवि जनैश्रुतः॥15||

दुंदुभि स्वन निर्घोषः स्निग्धवर्णः प्रतापवान्।
सम स्समविभक्तांगो वर्णं श्यामं समाश्रितः॥16||

त्रिस्थिरः त्रिप्रलंबश्च त्रिसमः त्रिषुचोन्नतः।
त्रिताम्र त्रिषु च स्निग्धो गंभीर त्रिषु नित्यशः॥17||

त्रिवलीवां स्त्र्यवनतः चतुर्व्यंगः त्रिशीर्षवान्।
चतुष्कलः चतुर्लेखः चतुष्किष्कुः चतुस्समः॥18||

चतुर्दश समद्वंद्वः चतुर्दंष्ट्रः चतुर्गतिः।
महोष्ठहनुनासश्च पंचस्निग्धोsष्टवंशवान्॥19||

दशपद्मो दशबृह त्त्रिभिर्व्याप्तो द्विशुक्लवान्।
षडुन्नतो नवतमः त्रिभिर्व्याप्नोति राघवः॥20||

सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः।
देशकालविभागज्ञः सर्वलोकप्रियं वदः॥21||

भ्राता च तस्य द्वैमात्र सौमित्रि रपराजितः।
अनुरागेण रूपेण गुणैश्चैव तथाविथः॥22||

तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ।
विचिन्वंतौ महीं कृत्स्नां अस्माभिरभिसंगतौ॥23||

त्वामेव मार्गमाणौ तौ विचरंतौ वसुंधराम्।
ददर्शतु र्मृगपतिं पूर्वजेनावरोपितम्॥24||

ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले।
भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम्॥25||

वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम्।
परिचर्यास्महे राज्यात् पूर्वजेनावरोपितम्॥26||

ततस्तौ चीरवसनौ धनुः प्रवरपाणिनौ।
ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ॥27||

स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः।
अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः॥28||

ततः स शिखरे तस्मिन् वानरेंद्रो व्यवस्थितः।
तयोः समीपं मामेव प्रेषयामास सत्वरम्॥29||

तावहं पुरुषव्याघ्रौ सुग्रीव वचनात्प्रभू ।
रूपलक्षणसंपन्नौ कृतांजलिरुपस्थितः॥30||

तौ परिज्ञाततत्वार्थौ मया प्रीतिसमन्वितौ।
पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ॥31||

निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने।
तयो रन्योन्य सल्लपाद्भृशं प्रीति रजायत॥32||

ततस्तौ प्रीतिसंपन्नौ हरीश्वरनरेश्वरौ।
परस्पर कृताश्वासौ कथया पूर्व वृत्तया॥33||

ततः स सांत्वयामास सुग्रीवं लक्ष्मणाग्रजः।
स्त्री हेतोः वालिना भ्रात्रा निरस्त मुरुतेजसा॥34||

ततस्त्वन्नाशजं शोकं रामस्या क्लिष्टकर्मणः।
लक्ष्मणो वानरेंद्राय सुग्रीवाय न्यवेदयत् ॥35||

स श्रुत्वा वानरेंद्रस्तु लक्ष्मणे नेरितं वचः।
तदासीन्निष्प्रभोsत्यर्थं ग्रहग्रस्त इवांशुमान्॥36||

ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया।
यान्याभरण जालानि पातितानि महीतले॥37||

तानि सर्वाणि रामाय आनीय हरियूधपाः।
संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव॥38||

तानि रामाय दत्तानि मयै वोपहृतानि च।
स्वनवंत्यवकीर्णानि तस्मिन् विगतचेतसि॥39||

तान्यंके दर्शनीयानि कृत्वा बहुविधं तव।
तेन देव प्रकाशेन देवेन परिदेवतम्॥40||

पश्यतस्तानि रुदत स्ताम्यतश्च पुनः पुनः।
प्रादीपयन् दाशरथेस्तानि शोकहुताशनम्॥41||

शयितं च चिरं तेन दुःखार्तेन महात्मना।
मयापि विविधैर्वाक्यैः कृछ्छा दुत्थापिनः पुनः॥42||

तानि दृष्ट्वा महाबाहुः दर्शयित्वा मुहुर्मुहुः।
राघवः ससौमित्रिः सुग्रीवे स न्यवेदयत्॥43||

स त्वादर्शनादार्ये राघवः परितप्यते।
महता ज्वलता नित्यमग्निनेवाग्नि पर्वतः॥44||

त्वत्कृते तमनिद्रा च शोकश्चिंता च राघवम्।
तापयंति महात्मानमग्न्यगार मिवाग्नयः॥45||

तवादर्शन शोकेन राघवः प्रविचाल्यते।
महता भूमिकंपेन महानिव शिलोच्चयः॥46||

काननानि सुरम्याणि नदीः प्रस्रवणानि च।
चरन् न रतिमाप्नोति त्वा मपश्यन् नृपात्मजे॥47||

सत्वां मनुजशार्दूल क्षिप्रं प्राप्स्यति राघवः।
समित्रभांधवं हत्वा रावणं जनकात्मजे॥48||

सहितौ रामसुग्रीवावुभावकुरुतां तदा।
समयं वालिनं हंतुं तवचान्वेषणं तथा॥49||

ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः।
किष्किंधां समुपागम्य वाली युद्धे निपातितः॥50||

ततो निहत्य तरसा रामो वालिन माहवे।
सर्वेषां हरि संघानां सुग्रीवमकरोत् पतिम्॥51||

रामसुग्रीवयोरैक्यं देव्येयं समजायत।
हनुमंतं च मां विद्धि तयोर्दूतमिहागतम्॥52||

स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरः ।
त्वदर्थं प्रेषयामास दिशो दश महाबलान् ॥53||

अदिष्टा वानरेंद्रेण सुग्रीवेण महौजसा।
अद्रिराज प्रतीकाशाः सर्वतः प्रस्थिता महीम्॥54||

ततस्तु मार्गामाणावै सुग्रीव वचनातुराः।
चरंति वसुधां कृत्स्नां वयमन्ये च वानराः॥55||

अंगदो नाम लक्ष्मीवान् वालिसूनु र्महाबलः।
प्रस्थितः कपिशार्दूलः त्रिभागबलसंवृतः॥56||

तेषां नो विप्रणष्टानां विंध्ये पर्वतसत्तमे।
भृशं शोकपरीताना महोरात्रगणा गताः॥57||

ते वयं कार्यनैराश्यात् कालस्यातिक्रमणे।
भयाच्च कपिराजस्य प्राणां स्त्यक्तुं व्यवस्थिताः॥58||

विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च।
अनासाद्य पदं देव्याः प्राणां स्त्यक्तुं समुद्यताः॥59||

दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुंगवान्।
भृशं शोकार्णवे मग्नः पर्यदेवयदंगदः॥60||

तव नाशं च वैदेहि वालिनश्च वधं तथा।
प्रायोपवेशमस्माकं मरणं च जटायुषुः॥61||

तेषां न स्स्वामिसंदेशा न्निराशानां मुमूर्षतां।
कार्यहेतो रिवायत श्शकुनि र्वीर्यवान् महान्॥62||

गृधराजस्य सोदर्यः संपातिर्नाम गृधराट्।
श्रुत्वा भातृवधं कोपात् इदं वचनमब्रवीत्॥63||

यवीयान्केन मे भ्राता हतः क्व च निपातितः।
एत दाख्यातु मिच्चामि भवद्भिः वानरोत्तमाः॥64||

अंगदो sकथय त्तस्य जनस्थाने महद्वधम्।
रक्षसा भीमरूपेण त्वा मुद्दिश्य यथातथम्॥65||

जटयुषो वधं श्रुत्वा दुःखित स्सोsरुणात्मजः।
त्वां शशंस वरारोहे वसंतीं रावणालये॥66||

तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम्।
अंगदप्रमुखा स्तूर्णं ततः संप्रस्थिता वयम्॥67||

विंध्या दुत्थाय संप्राप्ताः सागरस्यांत मुत्तरम्।
त्वद्दर्शनकृतोत्साहा हृष्टाः तुष्टाः प्लवंगमाः॥68||

अंगदप्रमुखास्सर्वे वेलोपांत मुपस्थिताः।
चिंतां जग्मुः पुनर्भीताः त्वद्दर्शनसमुत्सकाः॥69||

अथाहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः।
व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः॥70||

लंका चापि मया रात्रौ प्रविष्टा राक्षसाकुला।
रावणश्च मया दृष्टः त्वं च शोकपरिप्लुता॥71||

एतत्ते सर्व माख्यातं यथावृत्त मनिंदिते।
अभिभाषस्व मां देवि दूतो दाशरथे रहम्॥72||

तं मां रामकृतोद्योगं त्वन्निमित्त मिहागतम्।
सुग्रीव सचिवं देवि बुद्द्यस्व पवनात्मजम्॥73||

कुशली तव काकुत्‍स्थ सर्वशस्त्रभृतां वरः।
गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः॥74||

तस्य वीर्यवतो देवि भर्तुः तव हिते रतः।
अहमेकस्तु संप्राप्तः सुग्रीव वचनादिह॥75||

मयेय मसहायेन चरता कामरूपिणा।
दक्षिणा दि गनुक्रांता त्वन्मार्गविचयैषिणा॥76||

दिष्ट्याहं हरिसैन्यानां त्वन्नाश मनुशोचताम्।
अपनेष्यामि संतापं तवाभिगमशंसनात्॥77||

दिष्ट्या हि मम न व्यर्थं देवि सागर लंघनम्।
प्राप्स्या म्यह मिदं दिष्ट्वा त्वद्दर्शनकृतं यशः॥78||

राघवश्च महावीर्यः क्षिप्रं त्वा मभिपत्स्यते।
समित्र बांधवं हत्वा रावणं राक्षसाधिपम्॥79||

माल्यवान्नाम वैदेहि गिरिणा मुत्तमो गिरिः।
ततो गच्छति गोकर्णं पर्वतं केसरी हैः॥80||

स च देवर्षिभिर्दिष्टः पिता मम महाकपिः।
तीर्थे नदी पतेः पुण्ये शंबसादन मुद्दरत्॥81||

तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि।
हनुमानिति विख्यातो लोकेस्वेनैव कर्मणा॥82||

विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः।
अचिरात् राघवो देवि त्वा मितो नयिताsनघे॥83||

एवं विश्वासिता सीता हेतुभिः शोककर्शिता।
उपपन्नै रभिज्ञानै र्दूतं तमवगच्छति॥84||

अतुलं च गता हर्षं प्रहर्षेण च जानकी।
नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानंदजं तथा॥85||

चारु तद्वदनं तस्या स्ताम्रशुक्लायतेक्षणं।
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्॥86||

हनुमंतं कपिं व्यक्तं मन्यते नान्यथेति सा।
अथोवाच हनुमांस्तामुत्तरं प्रियदर्शनाम्॥87||

एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि।
किंकरोमि कथं वाते रोचते प्रतियाम्यहम्॥88||

हतेs सुरे संयति शंबसादने
कपिप्रवीरेण महर्षि चोदनात्।
ततोs स्मि वायुप्रभवो हि मैथिलि
प्रभावतः तत्प्रतिमश्च वानरः॥89||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे पंचत्रिंशस्सर्गः॥

 

|| Om tat sat ||