||Sundarakanda ||

|| Sarga 35||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||


सुन्दरकांड.
अथ पंचत्रिंशस्सर्गः

तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात् |
उवाच वचनं सांत्व मिदं मथुरया गिरः॥1||

स॥ वैदेही वानरर्षभात् रामकथां श्रुत्वा मधुरया गिरः सांत्वं इदं वचनं उवाच॥

Vaidehi , having heard the story of Rama from the bull among Vanaras, politely spoke the following lines with sweet words.

क्वते रामेण संसर्गः कथं जानासि लक्ष्मणम्।
वानराणां नराणं च कथामासीत् समागमः॥2||
यानि रामस्य लिंगानि लक्ष्मणस्य च वानर।
तानि भूयः समाचक्ष्व न मां शोकः समाविशेत्॥3||
कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशं।
कथ मूरू कथं बाहू लक्ष्मणस्य च शंस मे॥4||

स॥ते रामेण संसर्गः क्व | लक्ष्मणं कथं जानासि॥नराणां वानराणां समागमः कथं आसीत्॥ हे वानर ! रामस्य लिंगानि यानि | लक्ष्मणस्य च॥ भूयः तानि समाचक्ष्व | ( तदा) मां शोकः समाविशेत् ||रामस्य संस्थानं कीदृशं | रामस्य रूपं कीदृशं। कथां ऊरू कथं बाहुः मे शंस। तथैव लक्ष्मणस्य च॥

Where did you meet Rama. How do you know Lakshmana. How did this friendship between the humans and Vanaras develop. What are Rama's identifying marks and Lakshmana's too. You can tell me again. Then my sorrow will subside. How is Rama's form ? How are his looks? How are his thighs and arms please tell. Similarly Lakshmana's too !

एवमुक्तस्तु वैदेह्या हनुमान्मारुतात्मजः।
ततो रामं यथा तत्त्व माख्यातुमुपचक्रमे॥5||
जानंती बत दिष्ट्या मां वैदेहि परिपृच्छसि।
भर्तुः कमल पत्राक्षि संस्थानं लक्ष्मणस्य च॥6||
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै।
लक्षितानि विशालाक्षी वदतः श्रुणु तानि मे॥7||

स॥ वैदॆह्या एवं उक्तस्तु ततः हनुमान् मारुतात्मजः रामं तत्त्वं आख्यातुं उपचक्रमे॥ वैदेहि मां परिपृच्छसि बत कमलपत्राक्षी दिष्ट्या भर्तुः लक्ष्मणस्य च संस्थानं जानंति ||यानि रामस्य लक्ष्मणस्यच चिह्नानि यानि वै लक्षितानि तानि वदतः | मे श्रुणु॥

When Vaidehi spoke like this , then Hanuman , the son of wind god started to describe Rama's form as is. " Oh Vaidehi, with eyes like lotus petals, it is my good fortune that you are asking about the form of Rama and Lakshmana though you know them. Those identification marks of Rama as well as Lakshmana I will now tell you. Please hear'.

रामः कमलपत्राक्षः सर्वसत्वमनोहरः।
रूपदाक्षिण्य संपन्नः प्रसूते जनकात्मजे॥8||
तेजसाऽऽदित्य संकाशः क्षमया पृथिवी समः।
बृहस्पति समो बुद्द्या यशसा वासवोपमः॥9||
रक्षिता जीवलोकस्य स्वजन स्याभिरक्षिता।
रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः॥10||
रामोभामिनि लोकस्य चातुर्वर्णस्य रक्षिता।
मर्यादानां च लोकस्य कर्ता कारयिता च सः॥11||

स॥ जनकात्मजे प्रसूते रामः कमलपत्राक्षः | सर्वसत्त्व मनोहरः | रूपदाक्षिन्य संपन्नः॥तेजसा आदित्य समः। क्षमया पृथिवी समः। बुद्ध्या बृहस्पति समः | यशसा वासवः उपमः॥जीवलोकस्य रक्षिता | स्वजनस्याभि रक्षिता। परंतपः स्वस्य वृत्तस्य धर्मस्य च रक्षिता॥हे भामिनि | लोकस्य चातुर्वर्णस्य रक्षिता |सः लोकस्य मर्यादानां कर्ता च कारयिता च॥

'Oh Daughter of Janaka ! Rama is born with eyes like the lotus petals. He is one who delights all beings endowed with a form reflecting politeness and charm. In glow he is equal to Sun, in forbearance he is equal to earth. In intelligence he is equal to Brihaspati. In fame he is equal to Indra. Protects all beings. Protects his own people. The destroyer of enemies, he protects his own race and the righteousness. Oh Beautiful lady ! He protects all the four classes of society. He follows the code of conduct and make other follow too'.

अर्चिष्मा नर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः।
साधूनां उपकारज्ञः प्रचारज्ञः श्च कर्मणाम्॥12||
राजविद्या विनीतश्च ब्राह्मणनामुपासिता।
श्रुतवान् शीलसंपन्नो विनीतश्च परंतप॥13||
यजुर्वेद विनीतश्च वेदविद्भिः सुपूजितः।
धनुर्वेदेच वेदेषु वेदांगेषु च निष्ठितः॥14||

स॥ अत्यर्थं अर्चिष्मान् अर्चितः | ब्रह्मचर्य व्रते स्थितः | साधूनां उपकारज्ञः कर्मणां प्रचारज्ञः च॥सः राजविद्या विनीतः | ब्राह्मणानां उपासिता च। (सः) परंतपः श्रुतवान् शीलसंपन्नः विनीतः च॥यजुर्वेद विनीतः | वेदव्द्भिः सुपूजितः च॥ वेदेषु वेदांगेषु धनुर्वेदे च निष्ठितः॥

He is intensely luminous and worshipped. He is steadfast in observing the vows of self-control. He recognizes the right actions of sages. He knows the rites and administration too. He knows the statecraft. He is devotee of Brahmans. The destroyer of enemies is one who has heard the Vedas, He is disciplined and endowed with excellent conduct. Well versed in Yajurveda. respected by those who know Vedas. He is expert in Vedas and other parts of Vedas and the art of the bow.

विपुलांसो महाबाहुः कंबुग्रीवः शुभाननः।
गूढजत्रुः सुताम्राक्षो रामो देवि जनैश्रुतः॥15||
दुंदुभि स्वन निर्घोषः स्निग्धवर्णः प्रतापवान्।
सम स्समविभक्तांगो वर्णं श्यामं समाश्रितः॥16||

स॥ देवि विपुलांसः महाबाहुः कंबुग्रीवः शुभाननः घूढजत्रुः सुताम्राक्षः रामः जनैः श्रुतः॥दुंदुभिस्वन निर्घोषः स्निग्धवर्णः प्रतापवान् समः समविभक्तांगः श्यामं वर्णं समाश्रितः ||

'Oh Devi ! He is broad shouldered, long armed, with conch shaped neck, with auspicious looks, round shouldered and coppery eyed, he is heard by people. With voice like that of dundubhi , with shining beautiful complexion, full of valor, of equal proportions, his limbs are of equal proportions too. He is of dark color'.

त्रिस्थिरः त्रिप्रलंबश्च त्रिसमः त्रिषुचोन्नतः।
त्रिताम्र त्रिषु च स्निग्धो गंभीर त्रिषु नित्यशः॥17||
त्रिवलीवां स्त्र्यवनतः चतुर्व्यंगः त्रिशीर्षवान्।
चतुष्कलः चतुर्लेखः चतुष्किष्कुः चतुस्समः॥18||

स॥ त्रिस्थिरः त्रिप्रलंबश्च त्रिसमः त्रिषु च उन्नतः स्निग्धः नित्यशः त्रिषु गंभीरः ||त्रिवलीवां स्त्र्यवनतः चतुर्व्यंगः त्रिशीर्षवान् चतुष्कलः चतुश्किष्कुः चतुस्समः ||

'He is firm at three places, long in three places, with three even parts. He is elevated in three places, raised in three parts too. He has coppery reddish color in three parts and majestic. With three folds on his neck, has nipples and soles under the feet which are depressed. Four parts of his body are depressed. He has three spirals in his head. He has four lines on his thumb, four lines on his forehead, and has four well-proportioned parts'.

चतुर्दश समद्वंद्वः चतुर्दंष्ट्रः चतुर्गतिः।
महोष्ठहनुनासश्च पंचस्निग्धोsष्टवंशवान्॥19||
दशपद्मो दशबृह त्त्रिभिर्व्याप्तो द्विशुक्लवान्।
षडुन्नतो नवतनुः त्रिभिर्व्याप्नोति राघवः॥20||
सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः।
देशकालविभागज्ञः सर्वलोकप्रियं वदः॥21||
भ्राता च तस्य द्वैमात्र सौमित्रि रपराजितः।
अनुरागेण रूपेण गुणैश्चैव तथाविथः॥22||

स॥ चतुर्दशसमद्वंद्वः चतुर्दंष्ट्रः चतुर्गतिः महोष्टहनुनासः च पंचस्निग्धः अष्टवंशवान् || दशपद्मः दशबृहः त्रिभिः व्याप्तः द्विशुक्लवान् षडुन्नतः नवतनुः त्रिभिः व्याप्नोति॥ सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः देशकालविभागज्ञः सर्वलोकप्रियं वदः॥तस्य भ्राता च द्वैमात्रः सौमित्रिः अपराजितः अनुरागेण रूपेण गुणेन च तथाविधः॥

'He has fourteen parts of his body well proportioned. Has four sharp teeth, has four movements, has sharp nose, charming lips and jaws, has five smooth parts, and eight parts of the body which are long. Has ten lotus like limbs. Ten well-proportioned limbs, covered with three aspects, white in two parts, elevated in six limbs, has nine features, and is covered with three glories. Follower of truth and righteousness, prosperous, accumulates and favorably disposed too. He endears himself to all with his sweet words. His brother of a different mother, son of Sumitra, undefeated, in form and virtues is similar to his brother'.

तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ।
विचिन्वंतौ महीं कृत्स्नां अस्माभिरभिसंगतौ॥23||
त्वामेव मार्गमाणौ तौ विचरंतौ वसुंधराम्।
ददर्शतु र्मृगपतिं पूर्वजेनावरोपितम्॥24||
ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले।
भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम्॥25||
वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम्।
परिचर्यास्महे राज्यात् पूर्वजेनावरोपितम्॥26||

स॥ तौ उभौ नरशार्दूलौ त्वत् दर्शन समुत्सुकौ महीं विचिन्वंतौ अस्माभी अभिसंगतौ कृत्स्नां॥ त्वां एव मार्गमणौ वसुंधरां विचिन्वंतौ पूर्वजेन(वालिना) अवरोपितं मृगपतिं ( सुग्रीवं)ददर्श॥बहुपादप संकुले ऋष्यमूकस्य पृष्ठे भ्रातुः भयार्तं प्रियदर्शनं सुग्रीवं ददर्श॥वयं तु पूर्वजेन राज्यात् अवरोपितं सत्यसंगरं हरिराजं तं सुग्रीवं परिचर्यामहे॥

Those two tigers among men eager to see you , searching the whole world came in contact with us. Searching for you on this earth, they saw Sugriva, the one thrown out by his brother ( Vali). On the mountain Rishyamuka filled with variety of trees, they saw Sugriva who is pleasing to the eyes, who is scared of his brother. We were serving the king of Vanaras Sugriva , who is committed to truth and who has been thrown out by his elder brother'.

ततस्तौ चीरवसनौ धनुः प्रवरपाणिनौ।
ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ॥27||
स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः।
अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः॥28||
ततः स शिखरे तस्मिन् वानरेंद्रो व्यवस्थितः।
तयोः समीपं मामेव प्रेषयामास सत्वरम्॥29||

स॥ ततः तौ चीरवसनौ धनुः प्रवरपाणिनौ ऋष्यमूकस्य शैलस्य रम्यं देशं उपागतौ ||सः वानरर्षभः तौ नरव्याघ्रौ दृष्ट्वा भयमोहितः तस्य गिरेः शिखरं अवप्लुतौ || सः वानरेंद्रः तस्मिन् शिखरे व्यवस्थितः ततः तयोः ( रामलक्ष्मणयोः) समीपं मां एव सत्वरं प्रेषयामास॥

'Then the two clad in bark clothes, carrying their bows reached the beautiful place on the Rishyamuka mountain. The bull among Vanaras seeing the two tigers among men, scared jumped up to the peak of the mountain. That king of Vanaras sitting on the mountain top quickly sent me to meet the two'.

तावहं पुरुषव्याघ्रौ सुग्रीव वचनात्प्रभू |
रूपलक्षणसंपन्नौ कृतांजलिरुपस्थितः॥30||
तौ परिज्ञाततत्वार्थौ मया प्रीतिसमन्वितौ।
पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ॥31||
निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने।
तयो रन्योन्य सल्लपाद्भृशं प्रीति रजायत॥32||
ततस्तौ प्रीतिसंपन्नौ हरीश्वरनरेश्वरौ।
परस्पर कृताश्वासौ कथया पूर्व वृत्तया॥33||

स॥ अहं सुग्रीववचनात् प्रभू पुरुषव्याघ्रौ रूपलक्षणसंपन्नौतौ कृतांजलिः उपस्थितः ||परिज्ञात तत्त्वार्थौ पुरुषर्षभौ प्रीतिसमन्वितौ तं मया पृष्ठमारोप्य देशं प्रापितौ ||महात्मने सुग्रीवाय तत्त्वेन निवेदितौ तयोः अन्योन्य सल्लापात् भृशं प्रीतिः अजायत॥ततः प्रीतिसंपन्नौ हरीश्वर नरेश्वरौ पूर्ववृत्त कथया परस्पर कृत आश्वासौ॥

' On the orders of Sugriva I stood in front of the two lords, the tigers among men endowed with charming disposition and auspicious looks. Realizing their true disposition, I placed those tigers among men with pleasing disposition on my back and carried them back to our place. I faithfully reported on the two great souls to Sugriva. Both of them talked to each other and fond friendship developed. Then full of joy , the king of men and king of Vanaras assured each other with the stories of the past'.

ततः स सांत्वयामास सुग्रीवं लक्ष्मणाग्रजः।
स्त्री हेतोः वालिना भ्रात्रा निरस्त मुरुतेजसा॥34||
ततस्त्वन्नाशजं शोकं रामस्या क्लिष्टकर्मणः।
लक्ष्मणो वानरेंद्राय सुग्रीवाय न्यवेदयत् ||35||
स श्रुत्वा वानरेंद्रस्तु लक्ष्मणे नेरितं वचः।
तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान्॥36||

स॥ ततः स्त्रीहेतोः भ्रात्रा वालिना निरस्तं सुग्रीवं उरुतेजसा लक्ष्मणाग्रजः सांत्वयामास॥ततः लक्ष्मणः अक्लिष्टकर्मणः रामस्य त्वन्नाशजं शोकं वानरेंद्रस्य सुग्रीवाय न्यवेदयत् ||सः वानरेंद्रः तु लक्ष्मणेन ईरितं वचः तदा ग्रहग्रस्तः अंशुमान् इव अत्यर्थं निष्प्रभः आसीत् ||

' The elder brother of Lakshmana consoled Sugriva who was thrown out because of a woman. Then Lakshmana informed the king of Vanaras, Sugriva about Rama who is adept at accomplishing difficult tasks, and his grief on account of your loss. The king of Vanaras too on hearing the words spoken by Lakshmana, became luster less like the Sun overshadowed by a planet Rahu.'

ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया।
यान्याभरण जालानि पातितानि महीतले॥37||
तानि सर्वाणि रामाय आनीय हरियूधपाः।
संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव॥38||
तानि रामाय दत्तानि मयै वोपहृतानि च।
स्वनवंत्यवकीर्णानि तस्मिन् विगतचेतसि॥39||
तान्यंके दर्शनीयानि कृत्वा बहुविधं तव।
तेन देव प्रकाशेन देवेन परिदेवतम्॥40|

स॥ ततः त्वत् गात्रशोभीनि यानि आभरणजालानि महीतले पातितानि (दर्शयामाशुः)॥हरियूधपाः तानि सर्वाणि आनीय संहृष्टा रामाय दर्शयामास। तव सु गतिं तु न विदुः॥मयैव उपहृतानि तानि रामाय दत्तानि | तस्मिन् विगतचेतसि स्वनवंति अवकीर्णानि || दर्शनीयानि तव तानि अंके कृत्वा देवप्रकाशेन तेन देवेन बहुविधं परिदेवितम्॥

Then those ornaments worn by you and thrown away on the ground while being carried away by the Rakshasa were shown. The Vanara leaders brought all those ornaments to show to Rama with great joy. They had no idea of your whereabouts. I collected those ornaments and gave them to Rama. He lost his senses on seeing those jingling ornaments scattered around. The divine self who is effulgent like gods, wailed in many ways placing the ornaments on his lap.

पश्यतस्तानि रुदत स्ताम्यतश्च पुनः पुनः।
प्रादीपयन् दाशरथेस्तानि शोकहुताशनम्॥41||
शयितं च चिरं तेन दुःखार्तेन महात्मना।
मयापि विविधैर्वाक्यैः कृछ्छा दुत्थापिनः पुनः॥42||
तानि दृष्ट्वा महाबाहुः दर्शयित्वा मुहुर्मुहुः।
राघवः ससौमित्रिः सुग्रीवे स न्यवेदयत्॥43||
स त्वादर्शनादार्ये राघवः परितप्यते।
महता ज्वलता नित्यमग्निनेवाग्नि पर्वतः॥44||

स॥ तानि पश्यतः रुदतः पुनः पुनः ताम्यतश्च दाशरथेः शोकहुताशनं तानि प्रदीपवान् ||दुःखार्तेन तेन महात्मना शयितं च मयापि विविधैः वाक्यैः कृच्छात् पुनः उत्थापितः ||तानि दृष्ट्वा महाबाहुः मुहुः मुहुः दर्शयित्वा राघवः स सौमित्रिः सुग्रीवे न्यवेदयत् ||आर्य सः राघवः तव अदर्शनात् नित्यं महता अग्निना अग्निपर्वत इव ज्वलते परितप्यते ||

Seeing them again and again the grief in him was inflamed like fire. Rama the great self-immersed in sorrow lay down on the ground, I also consoled him with many words and with great difficulty. The long armed Rama along with Lakshmana looked at them ( ornaments) again and again and gave them to the care of Sugriva. Oh Respectable lady ! Because of not being able to see you , he is always blazing like the fire on a mountain on fire.

त्वत्कृते तमनिद्रा च शोकश्चिंता च राघवम्।
तापयंति महात्मानमग्न्यगार मिवाग्नयः॥45||
तवादर्शन शोकेन राघवः प्रविचाल्यते।
महता भूमिकंपेन महानिव शिलोच्चयः॥46||
काननानि सुरम्याणि नदीः प्रस्रवणानि च।
चरन् न रतिमाप्नोति त्वा मपश्यन् नृपात्मजे॥47||

स॥ त्वत्कृते महात्मानं तं राघवं अनिद्रा च शोकः चिंता च अग्न्यगारं अग्नयः इव तापयंति ||तव अदर्शन शोकेन राघवः महता भूमिकंपेन महान् शिलोच्छयः इव प्रविचाल्यते ||त्वां अपश्यन् सुरम्याणि प्रस्रवणानि चरन् नृपात्मजः रतिं न आप्नोति ||

'On account of you the great man is consumed by three fires of sleeplessness, sorrow and concern like the sacred fires of the sacred fire place. Because of not being able to see you Raghava is shaken like a lofty mountain by an earth quake. Not being able to see you , the king is not delighted even when he goes to delightful forests, rivers and streams'.

सत्वां मनुजशार्दूल क्षिप्रं प्राप्स्यति राघवः।
समित्रभांधवं हत्वा रावणं जनकात्मजे॥48||
सहितौ रामसुग्रीवावुभावकुरुतां तदा।
समयं वालिनं हंतुं तवचान्वेषणं तथा॥49||
ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः।
किष्किंधां समुपागम्य वाली युद्धे निपातितः॥50||
ततो निहत्य तरसा रामो वालिन माहवे।
सर्वेषां हरि संघानां सुग्रीवमकरोत् पतिम्॥51||

स॥ जनकात्मजे मनुजशार्दूलः राघवः समित्रबांधवं रावणं हत्वा त्वां क्षिप्रं प्राप्स्यति ||तदा रामसुग्रीवौ उभौ सहितौ वालिनं हंतुं तथा तव च अन्वेषणं समयं अकुरुताम् ||ततः स हरीश्वरः ताभ्यां वीराभ्यां कुमाराभ्यं सह किष्किंधां उपागम्य युद्धे वाली निपातितः॥ततः रामः आहवे तरसा वालिनं निहत्य सुग्रीवं सर्वेषां हरिसंघानां पतिं अकरोत् ||

'Oh Daughter of Janaka ! The tiger among men Raghava along with all his friends will kill Ravana quickly and attain you. Both Rama and Sugriva reached an agreement to kill Vali and also search for you. Then that king of Vanaras came to Kishkindha along with the two heroic princess and killed Vali in a battle. Then Rama having killed Vali in a battle , made Sugriva as the king of all Vanara troops'.

रामसुग्रीवयोरैक्यं देव्येवं समजायत।
हनुमंतं च मां विद्धि तयोर्दूतमिहागतम्॥52||
स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान् |
त्वदर्थं प्रेषयामास दिशो दश महाबलान् ||53||
अदिष्टा वानरेंद्रेण सुग्रीवेण महौजसा।
अद्रिराज प्रतीकाशाः सर्वतः प्रस्थिता महीम्॥54||

स॥ देवी रामसुग्रीवयोः इक्यं एवं समजायत | मां तयोः दूतं इह आगतं च हनुमंतं विद्धि | सुग्रीवः स्वराज्यं प्राप्य हरीश्वरान् समानीय त्वदर्थं दश दिशः महाबलान् प्रेषयामास॥वानरेंद्रेण महौजसा सुग्रीवेण अदिष्टाः अद्रिराजप्रतीकाशः महीं सर्वतः प्रस्थिता॥

'Oh Devi ! The union of Rama Sugriva happened in this way. Know me as Hanuman. I have come here as their messenger. Sugriva having got back his kingdom, got together all Vanaras and sent them in search of you in all directions. The king of Vanaras , the very powerful Sugriva has ordered Vanaras as huge as king of mountains to all parts of the earth'.

ततस्तु मार्गामाणावै सुग्रीव वचनातुराः।
चरंति वसुधां कृत्स्नां वयमन्ये च वानराः॥55||
अंगदो नाम लक्ष्मीवान् वालिसूनु र्महाबलः।
प्रस्थितः कपिशार्दूलः त्रिभागबलसंवृतः॥56||
तेषां नो विप्रणष्टानां विंध्ये पर्वतसत्तमे।
भृशं शोकपरीताना महोरात्रगणा गताः॥57||

स॥ ततः ते वयं अन्ये वानराः च सुग्रीव वचनातुराः मार्गमाणाः कृत्स्नां वसुधां चरंति ||वालिसूनुः महाबलः लक्ष्मीवान् त्रिभागबलसंवृतः कपिशार्दूलः अंगदः नाम प्रस्थितः ||विंध्ये पर्वतसत्तमे विप्रणष्टानाम् भृशं शोकपरीतानां तेषां नः अहोरात्रगणाः गताः॥

'Then we and other Vanaras , bound by Sugriva's words , are moving about the earth in search of you. The Son of Vali, called Angada , powerful , prosperous, together with one third of the army departed in search of you. In the mountains of Vindhya we spent many days and nights greatly immersed in sorrow and lost our way'.

ते वयं कार्यनैराश्यात् कालस्यातिक्रमणे।
भयाच्च कपिराजस्य प्राणां स्त्यक्तुं व्यवस्थिताः॥58||
विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च।
अनासाद्य पदं देव्याः प्राणां स्त्यक्तुं समुद्यताः॥59||
दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुंगवान्।
भृशं शोकार्णवे मग्नः पर्यदेवयदंगदः॥60||

स॥ ते वयं कार्यनैराश्यात् कालस्य अतिक्रमेण च कपिराजस्य भयात् च प्राणाम् त्यक्तुं व्यवस्थिताः॥वनदुर्गाणि गिरिप्रस्रवणानि च विचित्य देव्याः पदं अनासाद्य प्राणां त्यक्तुं समुद्यताः |प्रायोपविष्टान् सर्वान् वानरान् दृष्ट्वा अंगदः भृशं शोकार्णवे मग्नः पर्यदेवयत् ||

'All of us very much disheartened for not accomplishing the task, with time exceeded, and being afraid of the king of Vanaras , were ready to give up our lives. Having searched the impenetrable forest forts, mountain streams , unable to see the feet of the Devi, we decided to give up life. Seeing all the Vanaras ready for facing death , Angada himself plunged in intense fire of sorrow , was very much grieved'.

तव नाशं च वैदेहि वालिनश्च वधं तथा।
प्रायोपवेशमस्माकं मरणं च जटायुषुः॥61||
तेषां न स्स्वामिसंदेशा न्निराशानां मुमूर्षतां।
कार्यहेतो रिवायत श्शकुनि र्वीर्यवान् महान्॥62||
गृधराजस्य सोदर्यः संपातिर्नाम गृधराट्।
श्रुत्वा भातृवधं कोपात् इदं वचनमब्रवीत्॥63||

स॥ वैदेही तव नाशं च वालिनः वधः च जटायुषुः मरणं च अस्माकं प्रायोपवेशं ||स्वामिसंदेशात् निराशानाम् मुमूर्षतां तेषां नः कार्यहेतोः इव वीर्यवान् महाशकुनिः आयातः || गृधराजस्य सोदरः गृधराट् संपातिः नाम भातृवधं कोपात् इदं वचनम् अब्रवीत्॥

' Oh Vaidehi ! That you were not found, death of Vali , and death of Jatayu all led to our decision to die. As though to help those disappointed in being unable to meet kings orders, and set to die, powerful gigantic bird came. Brother of king of birds called Sampati , angered on hearing the killing of his brother said the following words'.

यवीयान्केन मे भ्राता हतः क्व च निपातितः।
एत दाख्यातु मिच्चामि भवद्भिः वानरोत्तमाः॥64||
अंगदो ऽकथय त्तस्य जनस्थाने महद्वधम्।
रक्षसा भीमरूपेण त्वा मुद्दिश्य यथातथम्॥65||
जटयुषो वधं श्रुत्वा दुःखित स्सोऽरुणात्मजः।
त्वां शशंस वरारोहे वसंतीं रावणालये॥66||
तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम्।
अंगदप्रमुखा स्तूर्णं ततः संप्रस्थिता वयम्॥67||

स॥ वानरोत्तमः मे यावीयान् भ्राता केन हतः क्व च निपातितः भवद्भिः एतत् आख्यातुं इछ्छामि ||त्वम् उद्दिश्य अंगदः भीमरूपेन रक्षसा जनस्थाने महद्वधं यथागतं तस्य अकथयत् || वरारोहे सः अरुणात्मजः जटायुषः वधः शुत्वा दुःखितः त्वां रावणालये वसंतीं शशंस॥तस्य संपातेः प्रीतिवर्धनं तत् वचनं श्रुत्वा अंगदप्रमुखाः वयं तूर्णम् ततः प्रस्थितः॥

"Oh Best of Vanaras by whom was my younger brother killed ? Where was he dropped down? I want to hear all of that from you". Angada narrated to him how he was killed by the dreadful Rakshasa as it happened, as he tried to rescue you. Oh Best among women ! Hearing about the death of Jatayu, the son of Aruna, grieved he said that you are in Ravana's palace. Then hearing that words Sampati increasing the happiness, Angada and others including all of us quickly departed from there'.

विंध्या दुत्थाय संप्राप्ताः सागरस्यांत मुत्तरम्।
त्वद्दर्शनकृतोत्साहा हृष्टाः तुष्टाः प्लवंगमाः॥68||
अंगदप्रमुखास्सर्वे वेलोपांत मुपस्थिताः।
चिंतां जग्मुः पुनर्भीताः त्वद्दर्शनसमुत्सकाः॥69||
अथाहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः।
व्यवधूय भयं तीव्रं शतं प्लुतः॥70||

स॥ प्लवंगमाः त्वत् दर्शनकृतोत्साहाः हृष्टाः तुष्टाः विंध्यात् उत्थाय सागरस्य उत्तर अंतं सम्प्राप्ताः॥अंगदप्रमुखाः सर्वे त्वत् दर्शनमुत्सुकाः वेलोपांतं उपस्थिताः भीताः पुनः चिंतां जग्मुः॥अथ अहं सागरं प्रेक्ष्य सीदतः हरिसैन्यस्य तीव्रं भयं व्यवधूय योजनानां शतं प्लुतः॥

'The Vanaras anxious to see you , delighted , satisfied , flew up from Vindhyas and reached the northern shores of the ocean. Angada and others anxious to see you standing on the shores of the ocean were afraid and again started thinking. Then seeing the desperate mood of the Vanara army , setting aside fear I leapt ( across the sea of ) hundred yojanas'.

लंका चापि मया रात्रौ प्रविष्टा राक्षसाकुला।
रावणश्च मया दृष्टः त्वं च शोकपरिप्लुता॥71||
एतत्ते सर्व माख्यातं यथावृत्त मनिंदिते।
अभिभाषस्व मां देवि दूतो दाशरथे रहम्॥72||
तं मां रामकृतोद्योगं त्वन्निमित्त मिहागतम्।
सुग्रीव सचिवं देवि बुद्द्यस्व पवनात्मजम्॥73||

स॥ राक्षसाकुला लंका च अपि मया रात्रौ प्रविष्टा मया रावणश्च दृष्टः शोकपरिप्लुता त्वं च॥अनिंदिते देवि एतत् यथावृतं ते आख्यातं | मम अभिभाषस्व | अहं दाशरथेः दूतः॥देवि रामकृतोद्योगं त्वन्निमित्तं इह आगतं तं माम् सुग्रीव सचिवं पवनात्मजं बुद्ध्यस्व॥

'I entered city of Lanka filled with Rakshasas in the night , I have seen Ravana and you too immersed in sorrow. Oh! Blameless lady ! I have narrated this as it happened. Please speak to me. I am messenger of Dasarathi. Oh Devi ! Know me, who has taken up Rama's mission for you and come here as the minister of Sugriva and son of wind god'.

कुशली तव काकुत्स्थ सर्वशस्त्रभृतां वरः।
गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः॥74||
तस्य वीर्यवतो देवि भर्तुः तव हिते रतः।
अहमेकस्तु संप्राप्तः सुग्रीव वचनादिह॥75||
मयेय मसहायेन चरता कामरूपिणा।
दक्षिणा दि गनुक्रांता त्वन्मार्गविचयैषिणा॥76||

स॥ सर्वशस्त्रभृतां वरः तव काकुत्स्थः कुशली | गुरोः आराधने युक्तः लक्ष्मणः च ||देवि वीर्यवतः तव भर्तुः तस्य हिते रतः अहं सुग्रीव वचनात् इह एकः प्राप्तः॥त्वन्मार्गविचयैषिणा कामरूपिणा असहायेन चरता मया इयं दक्षिणा दिक् अनुक्रांता॥

' The best among wielders of all weapons your Kakutstha is keeping well. Lakshmana involved in the service of his master is well too. Oh Devi ! Desirous of the welfare of your husband , I have come alone here on the orders of Sugriva. While moving in search of you , without any help, being able to assume any form, moving in southerly direction reached this place'.

दिष्ट्याहं हरिसैन्यानां त्वन्नाश मनुशोचताम्।
अपनेष्यामि संतापं तवाभिगमशंसनात्॥77||
दिष्ट्या हि मम न व्यर्थं देवि सागर लंघनम्।
प्राप्स्या म्यह मिदं दिष्ट्वा त्वद्दर्शनकृतं यशः॥78||
राघवश्च महावीर्यः क्षिप्रं त्वा मभिपत्स्यते।
समित्र बांधवं हत्वा रावणं राक्षसाधिपम्॥79||

स॥ दिष्ट्या अहं त्वन्नाशं हरिसैन्यानां संतापं तव अभिगमशंसनात् अपनेष्यामि॥देवि दिष्ट्या मम सागरलंघनं न व्यर्थम् | दिष्ट्या अहं त्वद्दर्शनकृतं इदं यशः प्राप्स्यामि ||महावीरः राघवः च समित्रबांधवं राक्षसाधिपं रावणं हत्वा क्षिप्रं त्वां अभिपत्स्यते॥

'Fortunately, for the Vanara army grieving worried about you loss, letting them know will dispel their sorrow. Oh Devi ! Fortunately the effort of jumping across the ocean is not wasted. Fortunately I will attain the fame of seeing you here. The great hero Raghava along with his friends having killed Rama will get you back quickly'.

माल्यवान्नाम वैदेहि गिरिणा मुत्तमो गिरिः।
ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ||80||
स च देवर्षिभिर्दिष्टः पिता मम महाकपिः।
तीर्थे नदी पतेः पुण्ये शंबसादन मुद्दरत्॥81||
तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि।
हनुमानिति विख्यातो लोकेस्वेनैव कर्मणा॥82||

स॥ वैदेही गिरीणां उत्तमः माल्यवान् नाम गिरिः ततः केसरी हरिः गोकर्णं पर्वतं गच्छति॥देवर्षिभिः दिष्टः माम् पिता सः महाकपिः नदीपतेः पुण्ये शंबसादनं उद्धरत्॥मैथिलि तस्य हरिणः क्षेत्रे वातेन जातः स्वेन कर्मणा एव लोके हनुमान् इति विख्यातः॥

' Oh Vaidehi ! Mountain named Malyavan is one of the best. From there Kesari, a Vanara went to mountain Gokarna. There predicted by the divine sages, he , a great Vanara and my father among the holy river which is lord of all rivers, killed Samabasadana. Oh Maithili ! In that monkeys land born of wind god , I am known to all as Hanuman by my own acts'.

विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः।
अचिरात् राघवो देवि त्वा मितो नयिताऽनघे॥83||
एवं विश्वासिता सीता हेतुभिः शोककर्शिता।
उपपन्नै रभिज्ञानै र्दूतं तमवगच्छति॥84||
अतुलं च गता हर्षं प्रहर्षेण च जानकी।
नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानंदजं जलं॥85||

स॥ वैदेहि विश्वासार्थं मया भर्तुः गुणाः उक्ताः | देवि राघवः अचिरात् त्वां इतः नयिता अनघे। शोककर्शिता सीता एवं हेतुभिः विश्वशिता उपपन्नैः अभिज्ञानैः तं दूतं अवगच्छति॥जानकी अतुलं हर्षं गता च प्रहर्षेण वक्रपक्ष्माभ्यां नेत्राभ्यां आनंदजं जलं मुमोच॥

'Oh Vaidehi ! to give you confidence I have described all the qualities. Oh Devi Raghav will soon take you from here'. Sita immersed in sorrow, presented with reasons identified, identified him as the messenger of Rama. Janaki then experienced immeasurable happiness, and shed tears of happiness through the curved eyelashes of her eyes.

चारु तद्वदनं तस्या स्ताम्रशुक्लायतेक्षणं।
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्॥86||
हनुमंतं कपिं व्यक्तं मन्यते नान्यथेति सा।
अथोवाच हनुमांस्तामुत्तरं प्रियदर्शनाम्॥87||

स॥ विशालाक्षायाः तस्याः चारु ताम्रशुक्लायतेक्षणं तत् वदनं राहुमुक्तः उड्डुरिव अशोभत॥सा हनुमंतं व्यक्तं कपिं मन्यते अन्यथा इति अथ हनुमान् प्रियदर्शनां तां उत्तरं उवाच॥

The face of the wide eyed lady Sita, with her large red eyes shone like the moon released from the shadow of Rahu. She realized that Hanuman is clearly a Vanara not any other. Then Hanuman looked at her who is pleasing to look at, and spoke.

एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि।
किंकरोमि कथं वाते रोचते प्रतियाम्यहम्॥88||

स॥ मैथिलि एतत् सर्वं आख्यातं समाश्वसिहि। किं करोमि कथं वा रोचते | अहं प्रतियामि ||

'Oh Maithili , I have told you everything , calm down. What shall I do, or what pleases you. I will go back'.

हतेऽसुरे संयति शंबसादने
कपिप्रवीरेण महर्षि चोदनात्।
ततोऽस्मि वायुप्रभवो हि मैथिलि
प्रभावतः तत्प्रतिमश्च वानरः॥89||

स॥ मैथिलि संयति शंबसादने असुरे कपिप्रवरेण महर्षिचोदनात् हते सति अथ वायुप्रभवः प्रभावतः तत्प्रतिमः वानरः अस्मि॥

'Oh Maithili ! on the orders of great Rishis when the best of Vanaras killed Samabasadana, I was born with powers of Vayu and equal to Vayu'.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे पंचत्रिंशस्सर्गः॥

Thus ends the Sarga thirty five of Sundarakanda in Ramayana ,the first poem ever composed in Sanskrit by the first poet sage Valmiki.

|| om tat sat||