||Sundarakanda ||

|| Sarga 37||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ सप्तत्रिंशस्सर्गः

सीता तद्वचनं श्रुत्वा पूर्णचंद्र निभानना।
हनूमंत मुवाचेदं धर्मार्थसहितं वचः॥1||

स॥ सीता पूर्णचंद्र निभानना धर्मार्थसहितं तद्वचनं श्रुत्वा हनुमंतं इदं वचः उवाच॥

Sita who has a face like that of the moon, having heard the words full of righteousness, spoke as follows.

अमृतं विषसंस्पृष्टं त्वया वानरभाषितम्।
यच्च नान्यमना रामो यच्च शोकपरायणः॥2||
इश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे।
रज्ज्वेव पुरुषं बद्ध्वा कृतांतं परिकर्षति॥3||
विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तमः।
सौमित्रं मां च रामं च व्यसनैः पश्य मोहितान्॥4||

स॥वानर त्वया यच्चरामः न अन्यमना यच्च शोकपरायणः इति भाषितं (तत्) अमृतं विषसंस्पृष्टं॥कृतांतः पुरुषः रज्ज्वा बद्ध्वा इव सुविस्तीर्णे इस्वर्ये वा सुदारुणे व्यसने वा परिकर्षति ॥प्लवगोत्तम प्राणिनाम् नूनं विधिः असंहार्यः । व्यसनैः मोहितान् सौमित्रिं मां च रामं च पश्य॥

’ Oh Vanara ! The words you said that Rama is not thinking of any other thing and that he is immersed in sorrow, are like nectar mixed with poison. Death will snatch a man with a rope whether he is in great fortune or drowning in adversity. Oh Best of Vanaras ! Surely it is not possible to overcome fate. See how Rama , Lakshmana and myself are afflicted by sorrows’.

शोकस्यास्य कदा पारं राघवोsधिगमिष्यति।
प्लवमानः परिश्रांतो हतनौ स्सागरे यथा॥5||
राक्षासानां वधं कृत्वा सूदयित्वा च रावणं।
लंका मुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः॥6||

स॥ सागरे हतनौः प्लवमानः परिश्रांतः यथा राघवः अस्य शोकस्य पारं कदा अधिगमिष्यसि ॥कदा राक्षसानां च वधं कृत्वा रावणं सूदयित्वा कदा लंकां उन्मूलितां कृत्वा मां पतिः द्रक्ष्यति ॥

’ Raghava who suffered like the one getting drowned in a ship wreck, when will he reach the shore of the ocean of grief. When will he kill the Rakshasas, kill Ravana, and uproot Lanka ? When will he see me?’

स वाच्य संत्वरस्येति याव देव न पूर्यते।
अयं संवत्सरः कालः तावद्धि मम जीवितम्॥7||
वर्तते दशमे मासो द्वौतु शेषौ प्लवंगम।
रावणेन नृशंसेन समयो यः कृतो मम॥8||

स॥ अयं संवत्सर कालः यावदेव न पूर्यते संत्वरस्येति सः वाच्यः । मम जीवितं तावद्धिः॥ प्लवंगम रावणेन नृशंसेन मम कृतः समयः दशमे मासः वर्तते । शेषः द्वौ तु॥

' There is a time limit of one year. Before it is completed you must inform him. I am alive till that tme only. Oh Vanara in the time given by the wicked Ravana, this is the the tenth month. Only two months are remaining '.

विभीषणेन च भ्रात्रा मम निर्यातनं प्रति।
अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम्॥9||
मम प्रति प्रदानं हि रावणस्य न रोचते।
रावणं मार्गते संख्ये मृत्युः कालवशं गतम्॥10||
ज्येष्ठा कन्याsनला नाम विभीषण सुता कपे।
तया ममेद माख्यातं मात्रा प्रहितया स्वयम्॥11||

स॥ भ्रात्रा विभीषणेन मम निर्यातनं प्रति प्रयत्नेन अनुनीतः । तत् मतिं न कुरुते॥मम प्रति प्रदानं हि रावणस्य न रोचते । कालवशं गतं रावणं संख्ये मृत्युः मार्गते॥ कपे नला नाम विभीषण ज्येष्टा सुता कन्या मात्रा प्रहितया तया स्वयं मम इदं आख्यातं ॥

'(Ravana's) Brother Vibhishana made efforts to advise my restoration. Such thought has not been agreed to. Ravana does not like to return me. Having fallen into the trap of time, Ravana is in search of death in a war. Oh Vanara ! The eldest daughter of Vibhishana by name Nala sent by her mother told this to me.

असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः।
अंतरात्मा हि मे शुद्धः तस्मिं श्च बहवो गुणाः॥12||
उत्साहः पौरुषं सत्त्व मानृशंस्यं कृतज्ञता।
विक्रमश्च प्रभावश्च संति वानर राघवे॥13||
चतुर्दश सहस्राणि राक्षसानां जघान यः।
जनस्थाने विना भ्रात्रा शत्रुः कः तस्य नो द्विजेत्॥14||
न स शक्य स्तुलयितुं व्यसनैः पुरुषर्षभ।
अहं तस्य प्रभावज्ञा शक्रस्येव पुलोमजा॥15||
शरजालांशुमान् शूरः कपे रामदिवाकरः।
शत्रुरक्षोमयं तोयं उपशोषं नयिष्यति॥16||

स॥ हरिश्रेष्ठ पतिः क्षिप्रं मां असंशयं प्राप्स्यति। मे अंतरात्माच शुद्धः तस्मिंश्च बहवः गुणाः । वानर राघवे उत्साहः पौरुषं सत्त्वं अनृशंस्यं कृतज्ञता विक्रमश्च प्रभवश्च संति ॥ यः जनस्थाने विना भ्रात्रा चतुर्दश सहस्राणि राक्षसानां जघान तस्य कः शत्रुः नः द्विजेत् ॥सः पुरुषर्षभः व्यसनैः तुलयितुं न शक्यः । पुलोमजा शक्रस्येव अहं तस्य प्रभावज्ञा॥कपे शूरः राम दिवाकरः शरजालांशुमान् शत्रुरक्षोमयं तोयं उपशोषं नयिष्यति ॥

' Oh best of Vanaras ! My husband will reach this place soon no doubt about that. My conscience tells me of Rama's many virtues. Oh Vanara ! Raghava is endowed with perseverance , manliness, prowess, kindness, gratitude , competence, and power. Who is the enemy that will not tremble before the one who on his own without his brother's help killed fourteen thousand Rakshasas in Janasthana. Oh bull among men! He will not be shaken by sorrow. Like Puloma daughter of Indra I know his powers. Oh Vanara ! The Valiant Rama like the Sun with his volleys of dazzling arrows will dry up the sea of enemy forces'.

इति संजल्पमानां तां रामार्थे शोककर्षिताम्।
अश्रुसंपूर्णनयनां उवाच वचनं कपिः॥17||

स॥ इति संजल्पमानां रामार्थे शोककर्शितां अश्रु संपूणनयनां तां कपिः (इदं) वचनं उवाच॥

While she was speaking freely about Rama, tormented by sorrow, her eyes filled with tears . Then Vanara spoke to her.

श्रुत्वैवतु वचो मह्यं क्षिप्र मेष्यति राघवः।
चमूं प्रकर्षन्महतीं हर्यृक्षगणसंकुलाम्॥18||
अथवा मोचयिष्यामि त्वां अद्यैव वरानने।
अस्मात् दुःखात् उपारोह मम पृष्ठमनिंदिते॥19||
त्वां हि पृष्ठगतां कृत्वा संतरिष्यामि सागरम्।
शक्ति रस्तिहि मे वोढुं लंका मपि स रावणम्॥20||

स॥ राघवः श्रुत्वैवतु मह्यं वचः क्षिप्रं एष्यति चमूं प्रकर्षन् महतीं हर्यक्षुगणसंकुलां ॥वरानने अथवा अद्यैव त्वां अस्मात् दुःखात् मोचयिष्यामि । अनिंदिते मम पृष्टं उपारोह॥त्वां पृष्ठगतां कृत्वा सागरं संतरिष्यामि । मे सरावणं लंकां अपि वोढुं शक्तिः अस्ति हि॥

' Raghava , on hearing my words will soon come here leading a huge army of Vanaras and bears. Oh Beautiful Lady ! Today itself I will redeem you from your grief . Oh Blameless lady you climb on my back. Keeping you on my back I will cross the ocean. I have the power to lift the whole of Lanka along with Ravana '.

अहं प्रस्रवण स्थाय राघवायाद्य मैथिलि।
प्रापयिष्यामि शक्राय हव्यं हुत मिवानलः॥21||
द्रक्ष स्यद्यैव वैदेहि राघवं सह लक्ष्मणम्।
व्यवसाय समायुक्तं विष्णुं दैत्यवथे यथा॥22||
त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम्।
पुरंदर मिवासीनं नागराजस्य मूर्थनि॥23||

स॥ मैथिलि अनलः हुतं हव्यं शक्राय अहं प्रस्रवणस्थाय अद्यैव प्रापयिष्यामि ॥ वैदेहि दैत्य वधे व्यवसाय समायुक्तं विष्णुं यथा सहलक्ष्मणं राघवं अद्यैव द्रक्ष्यसि ॥त्वद्दर्शन कृतोत्साहं आश्रमस्थं महाबलं नागराजस्य मूर्धनि आसीनं पुरंदरम् इव ॥

' Maithili ! Like the sacred fire which carries the oblation to Indra, I will carry you to the one on Prasravana mountain today. Vaidehi, you will see Rama together with Lakshmana making all out efforts in killing Rakshasas like Vishnu killed Daityas. Rama staying in the ashram will be enthused in seeing you like the Indra seated on the king of elephants'.

पृष्ठमारोह मेदेवी मा विकांक्षस्व शोभने।
योगमन्विच्छ रामेण शशांके नेव रोहिणी॥24||
कथयंतीव चंद्रेण सूर्येण च महार्चिषा।
मत्पृष्ठमधिरुह्य त्वं तराssकाशमहार्णवौ॥25||
न हि मे संप्रयातस्य त्वा मितो नयतो अंगने।
अनुगंतुं गतिं शक्ता स्सर्वे लंकानिवासिनः॥26||
यथैवाह मिह प्राप्तः तथैवाहमसंशयः।
यास्यामि पश्य वैदेही त्वामुद्यम विहायसम्॥27||

स॥ देवी मम पृष्टं आरोह। शोभने मा विकांक्षस्व । रोहिणी शशांकेनैव (त्वं) रामेण योगं अन्विच्छ॥त्वं मत् पृष्ठं अधिरुह्य चंद्रेण महार्चिषा सूर्येण कथयंतीव आकाश महार्णवौ तर॥अंगने त्वां इतः नयतः संप्रयातस्य मे गतिं अनुगंतुं सर्वे लंकानिवासिनः न शक्ताः ॥वैदेहि यथैव अहं इह प्राप्तस्थः एव अहं त्वां उद्यम्य यास्यामि विहायसं न संशयम्॥

' Oh Divine Lady ! Climb on my back , do not be reluctant. Like Moon joining Rohini, you can unite with Rama. Climbing on my back you can cross the sky and ocean conversing with Moon and the flaming Sun. Oh Beautiful Lady! It is not possible for any of the inhabitants of Lanka to speedily follow me while I carry you from this place. Vaidehi ! Just as I reached here, similarly taking you on my back I will go across the sky. I have no doubt '.

मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम्।
हर्षविस्मित सर्वांगी हनुमंत मथाब्रवीत्॥28||
हनुमन् दूर मध्वानं कथं मां वोढुमिच्छसि।
तदेव खलु ते मन्ये कपित्वं हरियूथप॥29||
कथं वाल्पशरीरस्त्वं मामितो नेतु मिच्छसि।
सकाशं मानवेंद्रस्य भर्तुर्मे प्लवगर्षभ॥30||

स॥ मैथिली हरिश्रेष्ठात् अद्भुतं वचनं श्रुत्वा हर्ष विस्मित सर्वांगी अथ हनुमंतं अब्रवीत् ॥हनुमान् दूरं अध्वानं मां वोढुं कथं इच्छसि । हरियूथप ते कपित्वं तदेव खलु मन्ये॥वानरर्षभ अल्पशरीरः त्वं इतः मे भर्तुः मानवेंद्रस्य नेतुं कथं वा इच्छसि॥

Maithili, hearing those wonderful words of the best of Vanaras, was delighted experiencing joy and said the following. 'Hanuman ! How do you intend to carry me to such a distant place. This is truly your monkey nature. Oh Bull among Vanaras with your small body how will you take me to the lord of men and my husband '.

सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः।
चिंतयामास लक्ष्मीवान्नवं परिभवं कृतम्॥31||
न मे जानाति सत्त्वं वा प्रभावं वाsसितेक्षणा।
तस्मात् पश्यतु वैदेही यद्रूपं मम कामतः॥32||
इति संचित्य हनुमांस्तदा प्लवगसत्तमः।
दर्शयामास वैदेह्याः स्वरूप मरिमर्दनः॥33||

स॥ हनुमान् लक्ष्मीवान् मारुतात्मजः सीतायाः वचनं श्रुत्वा नवं परिभवं कृतं चिंतयामास॥ असितेक्षणा मे सत्त्वं वा प्रभवं न जानाति । तस्मात् कामतः मम यद्रूपं (तत्) वैदेहि पश्यतु ॥इति संचित्य तदा प्लवगसत्तमः हनुमान् अरिमर्दनः वैदेह्याः स्वरूपं दर्शयामास॥

The illustrious Hanuman, son of wind god hearing those words of Sita saw a new insult hurled at him. The Black eyed lady is not aware of my powers. Therefore let Vaidehi see the form I can assume of my free will. Thinking thus Hanuman , the best of fliers and crusher of enemies started showing his real form to Vaidehi.

स तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभः।
ततो वर्थितु मारेभे सीताप्रत्ययकारणात्॥34||
मेरुमंदर संकाशो बभौ दीप्तानलप्रभः।
अग्रतो व्यवतस्थे च सीताया वानरोत्तमः॥35||
हरिः पर्वत संकाशः ताम्रवक्त्रो महाबलः।
वज्रदंष्ट्रो नखो भीमो वैदेहीं इदमब्रवीत्॥36||

स॥ धीमान् प्लवगर्षभः सः तस्मात् पादपात् आप्लुत्य ततः सीताप्रत्ययकारणात् वर्धितुं आरेभे॥ वानरोत्तमः मेरुमंदरसंकासः दीप्तानलप्रभः बभौ । सीतायाः अग्रत्ः व्यवतस्थे॥पर्वत संकाशः ताम्रवक्त्रः महाबलः वज्रदंष्ट्र नखः भीमः हरिः वैदेहीं इदं अब्रवीत् ॥

The wise bull among Vanaras , getting down from the tree started growing in size to increase the confidence of Sita.The best of Vanaras glowing like a blazing fire appeared like mount Meru or Mandara. Then he stood in front of Sita. Resembling a mountain in size, with red face, powerful, with teeth and nails strong like diamonds, looking fearsome , Hanuman spoke to Vaidehi.

सपर्वतवनोद्देशां साट्टप्राकार तोरणाम्।
लंका मिमां स नाधां वा नयितुं शक्ति रस्ति मे॥37||
तदवस्थाप्यतां बुद्धि रलं देवि विकांक्षया।
विशोकं कुरु वैदेहि राघवं सह लक्ष्मणम्॥38||

स॥ सपर्वतवनोद्देशां साट्टप्राकारतोरणाम् सनाथं इमाम् लंकां नयितुं मे शक्तिः अस्ति ॥ देवि तत् विकांक्षस्व अलं बुद्धिः अवस्थाप्यताम् । वैदेहि सहलक्ष्मणं राघवं विशोकं कुरु ॥

'I have the power to carry whole of Lanka filled with mountains and gardens, forts ramparts and gateways along with its king. Oh Divine lady ! Enough of unworthy doubts. Be stable with your intellect. Oh Vaidehi rid Rama and Lakshmana of their sorrow'.

तं दृष्ट्वा भीमसंकाशं उवाच जनकात्मजा।
पद्मपत्रविशालाक्षी मारुत स्यौरसं सुतं॥39||

स॥ पद्मपत्रविशालाक्षि जनकात्मजा तं भीमसंकासं मारुतस्य औरसं सुतं दृष्ट्वा उवाच॥

The wide eyed lady, with eyes like lotus petals, the daughter of Janaka , seeing the fearsome form of the son of wind god spoke as follows.

तवसत्वं बलं चैव विजानामि महाकपे।
वायोरिव गतिं चैव तेजश्चाग्नेरिवाद्भुतम्॥40||
प्राकृतोsन्यः कथं चेमां भूमि मागंतु मर्हति।
उदधे रप्रमेयस्य पारं वानरपुंगव॥41||
जानामि गमने शक्तिं नयने चापि ते मम।
अवश्यं संप्रधा र्याशु कार्यसिद्धि र्महात्मनः॥42||

स॥ महाकपे तव सत्त्वं बलं चैव वायोरिव गतिं आग्नेरिव अद्भुतं तेजः च विजानामि ॥वानरपुंगव प्राकृतः अन्यः अप्रमेयस्य उदधेः पारं इमां भूमिं आगंतुं कथं अर्हति॥ गमने मम नयने च अपि शक्तिं जानामि । महात्मनः कार्यसिद्धि अवश्यं आशु संप्रधार्या ॥

' Oh Great Vanara ! I have understood your power and strength. The speed like that of wind , the brilliance like that of the fire is astonishing and splendid. Oh Best of Vanaras ! How can an ordinary person be capable of reaching this shore of the immeasurable ocean. I know that you have the power to carry me on the journey. After planning carefully the great people will surely achieve success '.

अयुक्तं तु कपिश्रेष्ठ मम गंतुं त्वयाsनघ।
वायुवेग सवेगस्य वेगो मां मोहयेत्तव॥43||
अहमाकाश मापन्ना ह्युपर्युपरि सागरम्।
प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेन गच्छतः॥44||
पतिता सागरे चाहं तिमिनक्रझुषाकुले।
भवेय माशु विवशा यादसामन्नमुत्तमम्॥45||

स॥ अनघ कपिश्रेष्ठ त्वया मम गंतुं अयुक्तं । वायुवेगसवेगस्य तव वेगः माम् मोहयेत् ॥सागरस्य उपरि आकाशं अहं वेगेन गच्छतः ते पृष्टात् भयात् आपन्ना प्रपतेयं॥तिमिनक्रझषाकुले सागरे पतिता अहं विवशा आशु यादसां उत्तमं अन्नं भवेयं॥

'Oh Sinless one , best of Vanaras , It is not proper for me to come with you. Your speed like that of the wind will render me unconscious. When you go over the sea speedily , out of fear I may fall off from your back. Falling in to the sea filled with crocodiles I will be helpless and immediately be good for the aquatic animals '.

न च शक्ष्ये त्वया सार्थं गंतुं शत्रुविनाशन।
कळत्रवति संदेहः त्वय्यपि स्यादसंशयः॥46||
ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः।
अनुगच्छेयु रादिष्टा रावणेन दुरात्मना॥47||
तैस्त्वं परिवृत श्शूरैः शूल मुद्गर पाणिभिः।
भवेस्त्वं संशयं प्राप्तो मया वीर कळत्रवान्॥48||

स॥ हे शत्रुविनाशन त्वया सार्थं गंतुं न शक्ष्ये च कळत्रवति त्वय्यपि संदेहः स्यात् असंशयः॥ ह्रियमाणां मां दृष्ट्वा भीमविक्रमाः राक्षसाः दुरात्मना रावणेन आदिष्टाः अनुगच्छेयुः ॥त्वं शूलमुद्गरपाणिभिः तैः शूरैः परिवृतः वीर मया कळत्रवान् त्वं संशयं प्राप्तः भवेः॥

'Oh Destroyer of foes ! It is not possible for me to go with you . When you are burdened with a woman doubtlessly you will have a concern too. Seeing me while being carried away, the fearsome Rakshasas ordered by the evil Ravana will follow you. Oh Hero ! Being surrounded by those warriors and carrying me, you too will have a concern'.

सायुधो बहवो व्योम्नि राक्षासास्त्वं निरायुधः।
कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम्॥49||
युध्यमानस्य रक्षोभिः तव तैः क्रूरकर्मभिः।
प्रपतेयं हि ते पृष्ठात् भयार्ता कपिसत्तम॥50||
अथ रक्षांसि भीमानि महंति बलवंति च।
कथंचित् सांपराये त्वां जयेयुः कपिसत्तम॥51||

स॥ व्योम्नि सायुधाः राक्षसाः बहवः त्वं निरायुथः संयातुं मां परिरक्षितुं च कथं शक्ष्यसि ॥कपिसत्तमः तव क्रूरकर्मभिः तैः युध्यमानस्य भयार्ता ते पृष्ठात् प्रपतेयं हि ॥कपिसत्तम अथ भीमानि महंति बलवंति च रक्षांसि सांपराये कथंचित् त्वं जयेयुः॥

' In the sky there will be many armed Rakshasas, and you will be alone without weapons. How can you fight and protect me too? Oh Best of Vanaras , while you are battling those who do wicked deeds , out of fear I may fall off your back. Oh Best of Vanaras ! The fearsome massive powerful Rakshasa may some how win over you in the fight '.

अथवा युध्यमानस्य पतेयं विमुखस्य ते।
पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः॥52||
मां वा हरेयु स्त्वद्दस्ताद्विशसेयुरथापि वा।
अव्यवस्थौ हि दृश्येते युद्धे जयापराजयौ॥53||
अहं वापि विपद्येयं रक्षोभि रभितर्जिता।
त्वत्प्रयत्नो हरिश्रेष्ठ भवे न्निष्फल एव तु॥54||

स॥ अथवा युध्यमानस्य ते विमिखस्य पतेयुं पतितां माम् गृहीत्वा पाप राक्षसाः नयेयुः॥त्वत् हस्तात् माम् हरेयुः अथापि वा विशसेयुः । युद्धे जयापराजयौ अव्यवस्थौ दृश्यते हि॥हरिश्रेष्ठ रक्षोभिः अभितर्जिता अहं विपद्येयं वापि त्वत्प्रयत्नः निष्फलः एव तु भवेत् ॥

'Or else while you are engaged in the fight when you turn your attention away, I may fall down. While I fall down the sinful Rakshasas may take me away. From your hands they may take me away or cut me to pieces. The success or defeat in a war is seen as uncertain. Oh Best of Vanaras ! In case I am caught by Rakshasas and intimidated and die, then all your effort would be waste too'.

कामं त्व मसि पर्याप्तो निहंतुं सर्वराक्षसान् ।
राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः॥55||
अथवाssदाया रक्षांसि न्यसेयु स्संवृते हि माम्।
यत्र ते नाभिजानीयुर्हरयो नापि राघवौ॥56||
अरंभस्तु मदर्थो यं ततस्तव निरर्थकः।
त्वया हि सह रामस्य महानागमने गुणः॥57||
मयि जीवित मायत्तं राघवस्य महात्मनः।
भातॄणां च महाबाहो तव राज कुलस्य च॥58||
तौ निराशौ मदर्थं तु शोकसंतापकर्शितौ।
सह सर्वर्क्षहरिभिस्त्यक्षतः प्राण संग्रहम्॥59||

स॥ त्वं सर्वरक्षसान् निहंतुं पर्याप्तः अपि कामं त्वया शस्तै राक्षसैः राघवस्य यशः हीयेत् ॥अथवा रक्षांसि मां आदाय यत्र ते हरयः राघवौ अपि नाभिजानीयुः संवृते न्यसेयुः ॥ततः मदर्थः तव आरंभस्तु निरर्थकः । त्वया सह रामस्य आगमने महान् गुणः॥महाबले महात्मनः रामस्य भ्रात्रूणां तव राजकुलस्य जीवितं मयि आयत्तं॥मदर्थं शोकसंतापकर्शितौ तौ निराशौ सर्वर्क्ष हरिभिः प्राणसंग्रहं त्यक्षतः॥

'You may be able to kill all the Rakshasas. But by that act of your killing Rakshasas Rama's fame will be diminished. Or else the Rakshasas having brought me back will conceal me in a place which neither Raghava nor you will know. So for my sake the effort you started will be a waste. Rama coming along with you will be great. Oh Powerful one ! The survival of Rama , his brothers, your kings relatives and yourself is dependent on my survival. Both of them immersed in sorrow , and with hopes lost , and all the Vanaras too will give up their lives'.

भर्तृ भक्तिं पुरस्कृत्य रामादन्यस्य वानर।
न स्पृशामि शरीरं तु पुंसो वानर पुंगव॥60||
यदहं गात्र संस्पर्शं रावणस्य बलाद्गता।
अनीशा किं करिष्यामि विनाथा विवशा सती॥61||
यदि रामो दशग्रीवमिह हत्वा स बांधवम्।
मामितो गृह्य गच्छेत्तत्तस्य सदृशं भवेत्॥62||

स॥ वानरपुंगव भर्तुः भक्तिं पुरस्कृत्य रामात् अन्यस्य शरीरं तु न स्प्रुशामि ॥अहं बलात् रावणस्य गात्रसंस्पर्शं गता यत् अनीशा विवशा सती । विनाथा किं करिष्यामि ॥रामः सबांधवं दशग्रीवं इह हत्वा मां इतः गृह्य गच्छेत् यदि तत् तस्य सदृशं भवेत् ॥

'Oh Best of Vanaras ! Devoted to my husband I cannot touch the body of any other person. I had body contact with Ravana when I was forcefully brought, as I had no control on myself. Without my husband what can I do. If Rama along with his relations kills Ravana along with all his relations here and takes me from here that will be proper '.

श्रुता हि दृष्टा श्च मया पराक्रमा महत्मनस्तस्य रणाविमर्दिनः।
स देवगंधर्वभुजंगराक्षसा भवंति रामेण समा हि संयुगे॥63||
समीक्ष्य तं संयति चित्रकार्मुकम् महाबलं वासवतुल्यविक्रमम्।
स लक्ष्मणं को विषहेत राघवम् हूताशनं दीप्त मिवानिलेरितम्॥64||
स लक्ष्मणं राघव माजिमर्दनम् दिशागजं मत्तमिव व्यवस्थितम्।
स हेत को वानरमुख्य संयुगे युगांत सूर्यप्रतिमं शरार्चिषम्॥65||

स॥ रणावमर्दिनः महात्मनः तस्य पराक्रमाः मया श्रुताः दृष्टाश्च संयुगे। देवगंधर्वभुजंगराक्षसाः रामेन समाः न हि॥चित्रकार्मुकं महाबलं वासवतुल्यविक्रमं सलक्ष्मणं अनिलेरितं दीप्तं हुतासनं इव तं राघवं सयति समीक्ष्य कः विषहेतः॥वानरमुख्य सलक्ष्मणं आजिमर्दनं मत्तं दिशगजं इव व्यवस्थितं शरार्चिषं युगांतसूर्यप्रतिमं राघवं संयुगे कः सहेत् ॥

'I have heard and seen the valor of the great one who is a crusher of enemies in the war. There is no one equal to Ram in Devas, Gandharvas, Bhujangas, and Rakshasas. The wielder of powerful bow, endowed with great strength, is equal to Vasava in strength. He is like a blazing fire whipped by wind. Who can withstand the power of Rama along with Lakshmana. Oh Chief of Vanaras ! Who can withstand Rama along with Lakshmana, who are steady like the intoxicated elephants supporting the quarters , whose rays of arrows resemble the rays of the Sun at the time of deluge '.

स मे हरिश्रेष्ठ स लक्ष्मणं पतिं सयूधपं क्षिप्र मिहोपपादय।
चिराय रामं प्रति शोककर्शिताम् कुरुष्व मां वानरमुख्य हर्षितां॥66||

स॥ हरिश्रेष्ठ सः सलक्ष्मणं सयूथपं पतिं क्षिप्रं इह उपपादय । वानरमुख्य रामं प्रति चिराय शोककर्शितां मां हर्षितां कुरुष्व॥

' Oh Best of Vanaras, Bring him along with Lakshmana and the army of Vanaras here quickly. Oh Chief of Vanaras delight make me who is immersed in sorrow thinking of Rama'.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे सप्तत्रिंशस्सर्गः ॥

Thus ends the Sarga thirty seven of Sundarakanda in Ramayana the first poem ever composed in Sanskrit by the first poet sage Valmiki.

||om tat sat||