||Sundarakanda ||

|| Sarga 39||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ एकोनचत्वारिंशस्सर्गः

मणिं दत्वा ततः सीता हनुमंतमथाsब्रवीत्।
अभिज्ञानं अभिज्ञातं एतत् रामस्य तत्त्वतः॥1||

मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति।
वीरो जनन्या मम च राज्ञो दशरथस्य च॥2||

स भूयः त्वं समुत्साहे चोदितो हरिसत्तम।
अस्मिन् कार्य समारंभे प्रचिंतय यदुत्तरम्॥3||

त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम।
हनुमन् यत्नमास्थाय दुःखक्षयकरो भव॥4||

तस्य चिंतयतो यत्नो दुःखक्षयकरो भवेत्।
स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः॥5||

शिरसा वंद्य वैदेहीं गमनायोपचक्रमे।
ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम्॥6||

भाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत्।
कुशलं हनुमान् ब्रूयाः सहितौ रामलक्ष्मणौ॥7||

सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वानरान्।
ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम्॥8||

यथा स च महाबाहुः मां तारयति राघवः।
अस्मात् दुःखांबुसंरोधात् त्वं समाधातुमर्हसि॥9||

जीवंतीं मां यथा रामः संभावयति कीर्तिमान्।
तत्तथा हनुमान् वाच्यं वाचा धर्ममवाप्नुहि॥10||

नित्यमुत्साह युक्ताश्च वाचः श्रुत्वा त्वयेरिताः।
वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये॥11||

मत्संदेशयुता वाचस्त्वत्तः श्रुत्वा च राघवः।
पराक्रमविथिं वीरो विधिवत् संविधास्यति॥12||

सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः।
शिरस्यंजलि माथाय वाक्य मुत्तरमब्रवीत्॥13|

क्षिप्रमेष्यति काकुत्‍स्थो हर्यृक्षप्रवरैर्वृतः।
यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति॥14||

न हि पश्यामि मर्त्येषु वासुरेषु सुरेषु वा।
यस्तस्य क्षिपतो बाणान् स्थातु मुत्सहतेsग्रतः॥15||

अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्।
स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः॥16||

सहि सागरपर्यंतां महीं शासितु मीहते।
त्वन्निमित्तो हि रामस्य जयो जनकनंदिनि॥17||

तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम्।
जानकी बहु मेनेsथ वचनं चेद मब्रवीत्॥18||

ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः।
भर्तृ स्नेहान्वितं वाक्यं सौहार्दादन्वमानयत्॥19||

यदिवा मन्यसे वीर वसैकाह मरिंदम।
कस्मिंश्चित्संवृतो देसे विश्रांतः श्वो गमिष्यसि॥20||

ममचेदल्पभाग्यायाः सानिध्यात्तव वानर।
अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्॥21||

गते हि हरिशार्दूल पुनरागमानाय तु।
प्राणाना मपि संदेहो ममस्यान्नत्र संशयः॥22||

तवा दर्शनजः शोको भूयो मां परितापयेत्।
दुःखा दुःखपरामृष्टां दीपयन्निव वानर॥23||

अयं च वीर संदेहाः तिष्टतीव ममाग्रतः।
सुमहां स्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर॥24||

कथं नु खलु दुष्पारं तरिष्यंति महोदधिम्।
तानि हर्यृक्षसैन्यानि तौ वानरवरात्मजौ॥25||

त्रयाणामेव भूतानां सागरस्यास्य लंघने।
शक्तिस्स्यात् वैनतेयस्य तव वा मारुतस्य वा॥26||

तदस्मिन् कार्य निर्योगे वीरैवं दुरतिक्रमे।
किं पश्यसि समाधानं त्वं हि कार्यविदां वरः॥27||

काममस्य त्वमेवैकः कार्यस्य परिसाधने।
पर्याप्तः परवीरघ्न यशस्य स्ते फलोदयः॥28||

बलैः समग्रैः यदि मां रावणं जित्य संयुगे।
विजयी स्वपुरं यायात्तत्तु मे स्यात् यशस्करम्॥29||

शरैस्तु संकुलां कृत्वा लंका परबलार्दनः।
मां नयेद्यदि काकुत्‍स्थः तत तस्य सदृशं भवेत्॥30||

तद्यथा तस्य विक्रांतमनुरूपं महात्मनः।
भवेदावहशूरस्य तथा त्वमुपपादय॥31||

तदर्थोपहितं वाक्यं सहितं हेतुसंहितम्।
निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत्॥32||

देवी हर्यृक्षसैन्यानां ईश्वरः प्लवतां वरः।
सुग्रीवः सत्त्वसंपन्नः तवार्थे कृतनिश्चयः॥33||

स वानर सहस्राणां कोटिभिरभिसंवृतः।
क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः॥34||

तस्य विक्रमसंपन्नाः सत्त्ववंतो महाबलाः।
मनः संकल्पसंपाता निदेशे हरयः स्थिताः॥35||

येषां नोपरि नाधस्तान् नतिर्यक्सज्जते गतिः।
न च कर्मसु सीदंति महत्स्वमित तेजसः॥36||

असकृतैर्महोत्साहैः स सागरधराहरा।
प्रदक्षिणीकृता भूमिः वायुमार्गानुसारिभिः॥37||

मद्विशिष्ठाश्च तुल्याश्च संति तत्र वनौकसः।
मत्तः प्रत्यरः कश्चिन्नास्ति सुग्रीव सन्निधौ॥38||

अहं तावदिह प्राप्तः किंपुनस्ते महाबलाः।
न हि प्रकृष्टाः प्रेष्यंते प्रेष्यंते हीतरे जनाः॥39||

तदलं परितापेन देवि शोकोव्यपैतु ते।
एकोत्पातेन ते लंकामेष्यंति हरियूथपाः॥40||

ममपृष्ठगतौ तौ चंद्र सूर्याविवोदि तौ।
त्वत्सकाशं महासत्त्वौ नृशिंहावागमिष्यतः॥ 41||

तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ।
आगम्य नगरीं लंकां सायकैर्विधमिष्यतः॥42||

सगणं रावणं हत्वा राघवो रघुनंदनः।
त्वा मादाय वरारोहे स्वपुरं प्रति यास्यति॥43||

तदाश्वसिहि भद्रं ते भव त्वं कालकांक्षिणी।
न चिरात् द्रक्ष्यसे रामं प्रज्वलंत मिवालनम्॥44||

निहते राक्षसेंद्रेsस्मिन् सपुत्रामात्यबांधवे।
त्वं समेष्यसि रामेण शशांकेनेव रोहिणी॥45||

क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि।
रावणं चैव रामेण निहतं द्रक्ष्यसेsचिरात्॥46||

एव माश्वास्य वैदेहीं हनुमान् मारुतात्मजः।
गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत्॥47||

तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवं।
लक्ष्मणं च धनुष्पाणिं लंकाद्वारमुपस्थितम्॥48||

नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्।
वानरान् वानरनेंद्राभान् क्षिप्रं द्रक्ष्यसि संगतान्॥49||

शैलांबुदनिकाशानां लंकामलयसानुषु।
नर्दतां कपिमुख्यानां आर्ये यूथान् अनेकशः॥50||
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा।
नश्रम लभते रामः सिंहार्दित इवद्विपः॥51||

मारुदो देवी शोकेन माभूत्ते मनसोsप्रियं।
शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि॥52||

रामाद्विशिष्ठः कोsन्योsस्ति कश्चित् सौमित्रिणा समः।
अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ॥53||

नास्मिं श्चिरं वत्स्यसि देवि देशे
रक्षोगणैरध्युषितेsति रौद्रे।
न ते चिरादागमनं प्रियस्य
क्षमस्व मत्संगमकालमात्रम्॥54||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे एकोनचत्वारिंशस्सर्गः ॥

|| Om tat sat ||