||Sundarakanda ||

|| Sarga 39||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ एकोनचत्वारिंशस्सर्गः

मणिं दत्वा ततः सीता हनुमंतमथाsब्रवीत्।
अभिज्ञानं अभिज्ञातं एतत् रामस्य तत्त्वतः॥1||
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति।
वीरो जनन्या मम च राज्ञो दशरथस्य च॥2||

स॥ततः मणिं दत्त्वा सीता हनुमंतं अथ अब्रवीत्। एतत् रामस्य अबिज्ञात तत्त्वतः अभिज्ञानं॥ रामः मणिं दृष्ट्वा त्रयाणां संस्मरिष्यति.। वीरः मम जनन्या राज्ञः दशरथस्य च॥

Then she gave the jewel to Hanuman and said, ' This ornament is known to Rama very well. Seeing the jewel Rama will remember the three namely my mother, myself and the king Dasaratha '.

स भूयः त्वं समुत्साहे चोदितो हरिसत्तम।
अस्मिन् कार्य समारंभे प्रचिंतय यदुत्तरम्॥3||
त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम।
हनुमन् यत्नमास्थाय दुःखक्षयकरो भव॥4||
तस्य चिंतयतो यत्नो दुःखक्षयकरो भवेत्।
स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः॥5||
शिरसा वंद्य वैदेहीं गमनायोपचक्रमे।

स॥ हरिसत्तम सः भूयः समुत्साहे उदितः अस्मिन् कार्य समारंभे यदुत्तरं तत् त्वं प्रचिंतय॥हरिसत्तम अस्मिन् कार्यनियोगे त्वं प्रमाणं। हनुमान् यत्नं अस्थाय दुःखक्षयकरः भव । तस्य यत्नः चिंतयतः दुःखक्षयकरः भवेत् ॥ स मारुतिः भीमविक्रमः तथः इति प्रतिज्ञाय शिरसा वंद्या वैदेहीं गमनाय उपचक्रमे ॥

' Oh Best of Vanaras ! You plan so that Rama is prompted with enthusiasm in this effort. In this effort you are the responsible. Oh Hanuman after taking the initiative become the reducer of sorrow. Think of the action for him so that he becomes the reducer of sorrow'. Then that Maruti, the possessor of fearsome valor, bowing his head promised saying 'So be it'. and then started on his return journey.

ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम्॥6||
भाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत्।

स॥ देवि मैथिलि मारुतात्मजं वानरं भाष्पगद्गदय वाचा (पुनः) वाक्यं अब्रवीत्॥

Devi Maithili again spoke to the son of wind god with a voice choked with tears.

कुशलं हनुमान् ब्रूयाः सहितौ रामलक्ष्मणौ॥7||
सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वानरान्।
ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम्॥8||
यथा स च महाबाहुः मां तारयति राघवः।
अस्मात् दुःखांबुसंरोधात् त्वं समाधातुमर्हसि॥9||
जीवंतीं मां यथा रामः संभावयति कीर्तिमान्।
तत्तथा हनुमान् वाच्यं वाचा धर्ममवाप्नुहि॥10||

स॥ हनुमान् रामलक्ष्मण सहितौ सुग्रीवं च अमात्यं सह वृद्धान् वानरान् सर्वांश्चधर्मसंहितं कुशलं ब्रूयाः॥वानरश्रेष्ठ धर्मसंहितं कुशलं ब्रूयाः॥त्वं यथा महाबाहुः राघवः मां अस्मात् दुःखांबुसंरोधात् तारयति (तथा) समाधातुं अर्हसि ॥ हनुमान् कीर्तिमान् रामः जीवंतीं मां यथा संभावयति तत् वाच्यं तथा वाचा धर्मं अवाप्नुहि ॥

' Hanuman ! Communicate my welfare to Rama and Lakshmana, as also Sugriva along with all his ministers and other Vanaras. Oh Best of Vanaras convey this in a righteous manner. You may tell Rama in a way that he can help me cross the ocean of sorrow and relieve me. Oh Hanuman! Tell the words in a way that the famed Rama will take me when I am alive, then you will acquire fame'.

नित्यमुत्साह युक्ताश्च वाचः श्रुत्वा त्वयेरिताः।
वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये॥11||
मत्संदेशयुता वाचस्त्वत्तः श्रुत्वा च राघवः।
पराक्रमविथिं वीरो विधिवत् संविधास्यति॥12||

स॥ त्वया ईरितः उत्साहयुक्ताः वाचः नित्यं श्रुत्वा मत् अवाप्तये दासरथेः पौरुषं वर्दिष्यते॥वीरः रामः त्वत् मत् संदेशयुताः वाचः श्रुत्वा विधिवत् पराक्रमविधिं संविधास्यति ॥

' The words spoken by you with excitement , hearing those words, Dasarathi's manliness will be increased. Oh Vira ! Rama hearing the words of my message from you will surely make the valiant efforts'.

सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः।
शिरस्यंजलि माथाय वाक्य मुत्तरमब्रवीत्॥13|

स॥ हनुमान् मारुतात्मजः सीतायाः वचनं श्रुत्वा शिरस्य अंजलिं आथाय वाक्यं उत्तरं अब्रवीत् ॥

Hanuman, the son of the wind god, hearing those words of Sita, spoke bowing his head in reverence.

क्षिप्रमेष्यति काकुत्‍स्थो हर्यृक्षप्रवरैर्वृतः।
यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति॥14||
न हि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा।
यस्तस्य क्षिपतो बाणान् स्थातु मुत्सहतेsग्रतः॥15||
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्।
स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः॥16||
सहि सागरपर्यंतां महीं शासितु मीहते।
त्वन्निमित्तो हि रामस्य जयो जनकनंदिनि॥17||

स॥ काकुत्‍स्थः हर्यक्षु प्रवरैः वृतः क्षिप्रं एष्यति । युधि अरीन् विजित्य ते शोकंव्यपनयिष्यति ॥यः बाणान् क्षिपतः तस्य अग्रतः स्थातुं उत्सहते (तं) मर्त्येषु असुरेषु वा सुरेषु न पश्यामि हि ॥सः रणे अर्कमपि पर्जन्यं अपि वैवस्वतं अपि यमं विशेषतः तव हेतोः शोढुं शक्तः॥ सः सागरपर्यंतां महीं शासितुं अर्हति हि । जनकनंदिनि रामस्य जयः त्वन्निमित्तः हि॥

' The Kakutstha surrounded by the best of Vanaras and bears will come here. Defeating the enemies in the war he will relieve you of your sorrows. I do not see any one among the humans, Asuras and Devas who can face Rama's arrows when released. For your sake, he is capable of defeating even the Sun, the rain god, Vaivasavata or Yama in the war, He deserves to rule the whole earth like a king. Oh Janaka's daughter ! Rama's victory is for your beneifit only.'

तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम्।
जानकी बहु मेनेsथ वचनं चेद मब्रवीत्॥18||
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः।
भर्तृ स्नेहान्वितं वाक्यं सौहार्दादन्वमानयत्॥19||

स॥ जानकी तस्य सत्यं सम्यक् सुभाषितं तत् वचनं श्रुत्वा बहुमेने अथ इदं वचनं च अब्रवीत् ॥ततः सीता प्रस्थितं तं पुनः पुनः वीक्षमाणा भर्तृस्नेहान्वितं वाक्यं सौहार्दात् अनुमानयत् ॥

Janaki hearing the truthful proper good words of the one she held in great esteem she spoke the following words. Sita then looked again and again at the one ready to start. She made him understand the words conveying her love.

यदिवा मन्यसे वीर वसैकाह मरिंदम।
कस्मिंश्चित्संवृते देशे विश्रांतः श्वो गमिष्यसि॥20||
ममचेदल्पभाग्यायाः सानिध्यात्तव वानर।
अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्॥21||
गते हि हरिशार्दूल पुनरागमानाय तु।
प्राणाना मपि संदेहो ममस्यान्नत्र संशयः॥22||

स॥ वीर अरिंदम मन्यसे यदि कस्मिंश्चित् संवृते देशे एकाहं वस । विश्रांतः स्वः गमिष्यसि॥वानर तव सान्निध्यात् अल्पभाग्यायाः मम महत् अस्य शोकस्य मुहूर्तं मोक्षणं भवेत् चेत् ॥हरिशार्दूल पुनरागमनाय गते मम प्राणानां अपिसंदेहः स्यात् । अत्र संदेहः न ॥

' Oh Destroyer of enemies ! If you think it is appropriate, stay at a closed place for a day. Thus rested go tomorrow. Oh Vanara ! Your presence will provide even a moments relief to this unlucky one in great sorrow. Oh Best of Vanaras ! After you go my life is in doubt till you return. There is no doubt' .

तवा दर्शनजः शोको भूयो मां परितापयेत्।
दुःखा दुःखपरामृष्टां दीपयन्निव वानर॥23||
अयं च वीर संदेहाः तिष्टतीव ममाग्रतः।
सुमहां स्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर॥24||
कथं नु खलु दुष्पारं तरिष्यंति महोदधिम्।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ॥25||
त्रयाणामेव भूतानां सागरस्यास्य लंघने।
शक्तिस्स्यात् वैनतेयस्य तव वा मारुतस्य वा॥26||

स॥ वानर दुःखात् दुखपरामृष्टां माम् तव अदर्शनजः शोकः दीपयन् इव भूयः परितापयेत् ॥वीर हरीश्वरत्वत् सहायेषु हर्यक्षेषु अयं सुमहान् संदेहः मम अग्रतः तिष्ठतीव॥तानि हर्यक्षु सैन्यानि तौ वानरात्मजौ दुष्पारं महोदधिं कथं नु तरिष्यंति खलु॥अस्य सागरस्य लंघने भूतानां तव वा वैनतेयस्य वा मारुतस्य शक्तिः स्यात् ॥

' Oh Vanara ! Not seeing you will increase the agony in the one already agonized. It will inflame my sorrow and again trouble me. Oh Best of Vanaras, at the outset a great doubt dwells in my mind about your helpers like Vanaras and bears . That army of Vanaras and bears and the two princes, how can they cross ocean which is difficult to cross. Only three have the capability to cross this ocean namely you, Vainateya or the wind god '.

तदस्मिन् कार्य निर्योगे वीरैवं दुरतिक्रमे।
किं पश्यसि समाधानं त्वं हि कार्यविदां वरः॥27||
काममस्य त्वमेवैकः कार्यस्य परिसाधने।
पर्याप्तः परवीरघ्न यशस्य स्ते फलोदयः॥28||

स॥ वीरं तत् एवं दुरतिक्रमे अस्मिन् कार्यनिर्योगे किं समाधानं पश्यसि । त्वं कार्यविदां वरः हि ॥परवीरघ्न अस्य कार्यस्य परिसाधने त्वं एक एव पर्याप्तः कामं ते फलोदयः यशस्यः॥

' Oh Hero , in order to achieve this very difficult task, what means do you see. You are the best among those who are capable. Oh Slayer of enemy ! To accomplish this task only you are capable. The fruit of this accomplishment is yours only '.

बलैः समग्रैः यदि मां रावणं जित्य संयुगे।
विजयी स्वपुरं यायात्तत्तु मे स्यात् यशस्करम्॥29||
शरैस्तु संकुलां कृत्वा लंका परबलार्दनः।
मां नयेद्यदि काकुत्‍स्थः तत तस्य सदृशं भवेत्॥30||
तद्यथा तस्य विक्रांतमनुरूपं महात्मनः।
भवेदावहशूरस्य तथा त्वमुपपादय॥31||

स॥ संयुगे समग्रैः बलः रावणं जित्य मां विजयी स्वपुरं ययात् यदि तत् तस्य सदृशं भवेत् ॥परबलार्दनः काकुत्‍स्थः लंकां शरैः संकुलं कृत्वा माम् नयेत् यदि तत् तस्य सदृशं भवेत् ॥तत् महात्मनः आहवशूरस्य तस्य अनुरूपं विक्रांतं यथा भवेत् तथा त्वं उपपादय ॥

' In this war if Rama emerges victorious winning over Ravana along with his army and takes me home that is worthy of him. The Slayer of enemy , Kakustha, if he fills the entire Lanka with his arrows and takes me then that will be worthy of him. You propose a way of achieving victory which is worthy of of the great self, the hero of the war'.

तदर्थोपहितं वाक्यं सहितं हेतुसंहितम्।
निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत्॥32||

स॥ हनुमान् अर्थोपहितं प्रश्रितं हेतुसंहितं तत् वाक्यं निशम्य शेषं वाक्यं अब्रवीत् उत्तरं॥

Hanuman , having heard the meaningful courteous logical words and the rest then replied.

देवी हर्यृक्षसैन्यानां ईश्वरः प्लवतां वरः।
सुग्रीवः सत्त्वसंपन्नः तवार्थे कृतनिश्चयः॥33||
स वानर सहस्राणां कोटिभिरभिसंवृतः।
क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः॥34||
तस्य विक्रमसंपन्नाः सत्त्ववंतो महाबलाः।
मनः संकल्पसंपाता निदेशे हरयः स्थिताः॥35||
येषां नोपरि नाधस्तान् नतिर्यक्सज्जते गतिः।
न च कर्मसु सीदंति महत्स्वमित तेजसः॥36||

स॥ देवी हर्यक्षु सैन्यानां ईश्वरः प्लवतां वरः सत्त्वसंपन्नः सुग्रीवः तव अर्थे कृतनिश्चयः॥वैदेहि सः वानरसहस्राणां कोटिभिः अभिसंवृतः राक्षसानां निबर्हनः क्षिप्रं एष्यति ॥विक्रमसंपन्नाः सत्त्ववंतः महाबलाः मनः संकल्पसंपाताः हरयः तस्य निदेशे स्थिताः॥येषां गतिः उपरि न सज्जते अधस्तात् न तिर्यक् न अमित तेजसः महत्सु कर्मसु नसीदंति ॥

' Oh Devi ! Sugriva , the lord of the army of Vanaras, the foremost among the Vanaras, he is determined to accomplish the task for your sake. Oh Vaidehi ! Sugriva along with thousands of crores of Vanaras will reach and destroy all the Rakshasas. Powerful virtuous mighty Vanaras who can leap with speed of mind are at his command awaiting. Their movement cannot be impeded upwards downwards or horizontally. Being brilliant they do not fail in any given task'.

असकृतैर्महोत्साहैः स सागरधराहरा।
प्रदक्षिणीकृता भूमिः वायुमार्गानुसारिभिः॥37||
मद्विशिष्ठाश्च तुल्याश्च संति तत्र वनौकसः।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीव सन्निधौ॥38||
अहं तावदिह प्राप्तः किंपुनस्ते महाबलाः।
न हि प्रकृष्टाः प्रेष्यंते प्रेष्यंते हीतरे जनाः॥39||

स॥ महोत्साहैः वायुमार्गानुसारिभिः तैः असकृत् ससागरधराधरा भूमिः प्रदक्षिणीकृताः॥तत्र सुग्रीव सन्निधौ मत् विशिष्ठाश्च तुल्याः च वनौकसः संति॥ मत्तः प्रत्यवरः कश्चित् नास्ति ॥ अहं तावत् इह अनुप्राप्तः महबलाः ते किं पुनः । प्रकृष्टाः न प्रेष्यंते हि इतरे जनाः प्रेष्यंते हि॥

' Very enthusiastic ( Vanaras) following the aerial path they repeatedly go around the earth with all its oceans. In Sugriva's court there are Vanaras who are better than me and equal to me. There is none who is inferior to me. As I have reached here, so will the other more powerful ones. Oh Devi ! The best ones are not sent out for these tasks. Only the other ordinary ones will be sent.'

तदलं परितापेन देवि शोकोव्यपैतु ते।
एकोत्पातेन ते लंकामेष्यंति हरियूथपाः॥40||
ममपृष्ठगतौ तौ चंद्र सूर्याविवोदि तौ।
त्वत्सकाशं महासत्त्वौ नृशिंहावागमिष्यतः॥ 41||
तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ।
आगम्य नगरीं लंकां सायकैर्विधमिष्यतः॥42||

स॥ देवि तत् अलं परितापेन । ते शोकः व्यपैतु । ते हरियूथपाः एकोत्पातेन लंकां एष्यंति ॥महसत्त्वौ नृसिंहौ तौ च मम पृष्ठगतौ उदितौ चंद्रसूर्य इव त्वत्सकासं अभिगमिष्यतः॥ततः वीरौ नरवरौ रामलक्ष्मणौ सहितौ आगम्य लंकां नगरीं सायकैः विधमिष्यतः॥

' Oh Devi ! Enough of sorrow. Give up your sorrow. The Vanara army will reach Lanka in one jump. Both the great men, who are like lion among men , sitting on my back looking like Sun and moon will come to your presence. Then Rama and Lakshmana, the two heroes and the best among men having come will destroy city of Lanka with their arrows'.

सगणं रावणं हत्वा राघवो रघुनंदनः।
त्वा मादाय वरारोहे स्वपुरं प्रति यास्यति॥43||
तदाश्वसिहि भद्रं ते भव त्वं कालकांक्षिणी।
न चिरात् द्रक्ष्यसे रामं प्रज्वलंत मिवालनम्॥44||
निहते राक्षसेंद्रेsस्मिन् सपुत्रामात्यबांधवे।
त्वं समेष्यसि रामेण शशांकेनेव रोहिणी॥45||
क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि।
रावणं चैव रामेण निहतं द्रक्ष्यसेsचिरात्॥46||

स॥ रघुनंदनः राघवः रावणं सगणं हत्वा त्वां आदाय स्वपुरं प्रति यास्यति ॥तत् आश्वासिहि । ते भद्रं। त्वं कालकांक्षिनी भव। प्रज्वलंतं अनलं इव रामं न चिरात् द्रक्ष्यसे॥अस्मिन् सपुत्रबांधवे राक्षसेंद्रे निहते त्वं रोहिणी शशांकेन् इव रामेण समेष्यसि॥देवि मैथिली त्वं क्षिप्रं शोकस्य पारं यास्यसि । अचिरात् रामेण रावणं निहतं च द्रक्ष्यसि ॥

' The scion of Raghu , Raghava having killed Ravana along with his tribe, will return with you back to his city. That you be rest assured. Let auspicious things happen.You may count your time. You will soon see Rama burning with anger like fire. With the lord of Rakshasas killed along with his sons and relatives , you will reunite with Rama, like Rohini uniting with moon. Oh Devi ! Maithili you will soon go to the other shore of sorrow. Soon you will see Ravana killed by Rama.

एव माश्वास्य वैदेहीं हनुमान् मारुतात्मजः।
गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत्॥47||

स॥ हनुमान् मारुतात्मजः वैदेहीं एवं आश्वास्य गमनाय मतिं कृत्वा वैदेहीं पुनः अब्रवीत् ॥

Hanuman, the son of wind god, having thus assured Vaidehi, getting ready for return, spoke to Vaidehi again.

तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवं।
लक्ष्मणं च धनुष्पाणिं लंकाद्वारमुपस्थितम्॥48||
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्।
वानरान् वानरनेंद्राभान् क्षिप्रं द्रक्ष्यसि संगतान्॥49||
शैलांबुदनिकाशानां लंकामलयसानुषु।
नर्दतां कपिमुख्यानां आर्ये यूथान् अनेकशः॥50||

स॥ लंकाद्वारमुपास्थितं अरिघ्नं कृतात्मानं तं राघवं धनुष्पाणिं लक्ष्मनं च क्षिप्रं द्रक्ष्यसि॥नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् वारणेंद्राभान् संगतान् वानरान् क्षिप्रं द्रक्ष्यसि॥आर्ये शैलांबुदनिकासानां नर्दतां कपिमुख्यानां अनेकशः यूधानि लंकामलयमानुषु (द्रक्ष्यसि)॥

' Very soon you would see the accomplished slayer of foes , the accomplished wielder of bow, Rama along with Lakshmana at the door of Lanka. You will soon see heroes whose teeth and nails are their weapons, resembling tigers and lions in valor, also resembling well bred elephants. Oh Noble lady you will see roaring Vanara chiefs who resemble clouds roaring and hovering over the mountain peaks around Lanka.

स तु मर्मणि घोरेण ताडितो मन्मथेषुणा।
नश्रम लभते रामः सिंहार्दित इवद्विपः॥51||
मारुदो देवी शोकेन माभूत्ते मनसोsप्रियं।
शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि॥52||
रामाद्विशिष्ठः कोsन्योsस्ति कश्चित् सौमित्रिणा समः।
अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ॥53||

स॥ सः रामः घोरेन मन्मथेषुणा मर्मणि ताडितः सिंहार्दितः द्विपः इव न शर्म लभते॥देवि शोकेन मारुदः । ते मनसः अप्रियं माभूत् । पत्या शक्रेण शची इव नाथवती असि हि ॥रामात् विशिष्ठः अन्यः कः अस्ति। सौमित्रिणा समः कश्चित् । अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ॥

' Rama is tormented by the dreadful arrows of god of love pierced into vitals like an elephant hit by lion. He has no happiness in life. Oh Devi ! Do not weep in sorrow. Let your mind be not unpleasant. You have a great husband just as Sachi has her Lord in Indra. Who is superior to Rama. Who is equal to Lakshmana. Both the brothers are like fire and wind. They are your refuge'.

नास्मिं श्चिरं वत्स्यसि देवि देशे
रक्षोगणैरध्युषितेsति रौद्रे।
न ते चिरादागमनं प्रियस्य
क्षमस्व मत्संगमकालमात्रम्॥54||

स॥ देवि रक्षोगणैः अध्युषिते अतिरौद्रौ अस्मिन् देशे चिरं न वत्स्यसि ।ते प्रियस्य आगमनं न चिरात् । मत्संगमकालमात्रं क्षमस्व॥

' Noble lady you will not stay any longer in this dreadful place which is a stronghold of Rakshasas. Your beloved is coming very soon. For this period bear with me'.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे एकोनचत्वारिंशस्सर्गः ॥

Thus ends Sarga thirty nine of Sundarakanda in Ramayana the first ever poem composed in Sanskrit by the first poet sage Valmiki

॥ओम् तत् सत्॥