||Sundarakanda ||

|| Sarga 3||( Sloka text in Devanagari) )

(PS: This is a true translation of the Sanskrit epic whcih tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ तृतीय सर्गः

स लंब शिखरे लंबे लंबतोयद सन्निभे।
सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः॥1||
निशि लंकां महोसत्त्वो विवेश कपिकुंजरः।
रम्यकानन तोयाढ्यां पुरीं रावणपालिताम्॥2||

स॥ स मेधावी मारुतात्मजः तोयद सन्निभे लंब शिखरे सत्त्वम् अस्थाय (सः) महासत्त्वः कपिकुंजरः रम्यकानन तोयाड्यां रावणपालितां लंकां विवेश)॥

That intelligent son of wind god relying on his own energy entered the city of Lanka which is on the tall peak resembling heavy rain bearing cloud , which is rich in delightful forests, groves and pools, and which is ruled by Ravana.

शारदांबुर प्रख्यैः भवनैरुपशोभिताम्।
सागरोपमनिर्घोषां सागरानिलसेविताम्॥3||
सुपुष्ठबलसंपुष्ठां यथैव विटपावतीम्।
चारुतोरण निर्यूहां पांडुरद्वारतोरणाम्॥4||
भुजगाचरितां गुप्तां शुभां भोगवती मिव।
तां सविद्युद्घनाकीर्णं ज्योतिर्मार्गनिषेविताम्॥5||
मंदमारुत संचारां यथेंद्रस्य अमरावतीम्।
शातकुंभेन महता प्राकारेणाभिसंवृताम्॥6||
किंकिणीजालघोषाभिः पताकाभिरलंकृताम्।
असाद्य सहसा हृष्टः प्राकारमभिपेदिवान्॥7||

स॥ ( हृष्टः सहसा प्राकारं आसाद्य) शारदाम्बुधर प्रख्यैः भवनैः उपशोभिताम् सागरोपम निर्घोषाम् सागरा निलसेविताम् (तां लंकां अभिपेदिवान्)॥ सुपुष्ठ बलसंपुष्ठाम् यथैव विटपावतीं चारुतोरण निर्यूहाम् पाण्डुरद्वार तोरणाम् (तां लंकां अभिपेदिवान्) ॥ भुजगा चरितां गुप्तां शुभां भोगवतीं इव (दृस्यां तां लंकां अभिपेदिवान्)। सविद्युत् घ्नाकीर्णम् ज्योतिर्मार्ग निषेविताम् तां (लंकां अभिपेदिवान्) ॥ मंदमारुत संचारां महता शातकुंभेन प्राकारेण अभिसंवृतां यथा इंद्रस्य अमरावतीं (तां लंकां अभिपेदिवान्)॥ किंकिणी जालघोषाभिः पताकाभीः अलंकृताम् (तां लंकां) हृष्टः सहसा आसाद्य प्राकारं अभिपेदिवान्॥

Delighted Hanuman having reached the ramparts saw the Lanka which was full of mansions like beautiful autumnal clouds,which is served by the sea breeze with sounds of the roar of the sea, which is strong with well nourished army stationed at the beautiful arch ways just like Vitapavathi , which is provided with white gates and arches, which is like Bhujagavati inhabited by snakes well protected and auspicious. Hanuman saw Lanka which is overcast with streaks of lightning , which is served by all planets and stars with winds blowing gently,which is like the city of Amaravati with golden ramparts adorned with jingling sounds of small bells and decorated with flags everywhere.

विस्मयाविष्ठहृदयः पुरीमालोक्य सर्वतः।
जांबूनदमयैर्द्वारैः वैढूर्यकृतवेदिकैः ॥8||
वज्रस्फटिकमुक्ताभिः मणिकुट्टिमभूषितैः।
तप्तहाटकनिर्यूहै राजतामलपांडुरैः॥9||
वैढूर्यकृतसोपानैः स्फाटिकांतर पांसुभिः।
चारुसंजवनोपेतैः खमिवोत्पतै श्शुभैः॥10||
क्रौंचबर्हिणसंघुष्ठैः राजहंसनिषेवितैः।
तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम्॥11||
वस्वौकसाराप्रतिमां तां वीक्ष्य नगरीं ततः ।
खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः॥12||

स॥ सर्वतः (स)जाम्बूनदमयैः द्वारैः (स)वैढूर्यकृत वेदिकैः पुरीं आलोक्य विस्मया विष्ठहृदयः , वज्र स्फटिकमुक्ताभिः (स)मणिकुट्टिमभूषितैः तप्तहाटकनिर्यूहैः राजतामलपाण्डुरैः ,(स)वैढूर्यकृत सोपानैः (स)स्फाटिकांतर पांसुभिः चारुसंजवनोपेतैः खमिवोत्पत्तैः शुभैः , क्रौंचबर्हिण संघुष्ठैः राजहंस निषेवितैः तूर्याभरण निर्घोषैः प्रतिनादितां खमिवोत्पतितुं वस्वौकसाराप्रतिमां तां नगरीं वीक्ष्य हनुमान् कपिः जहर्ष॥

Seeing the city full of golden gates, platforms made of gold encrusted with Vaidhuryas,diamonds, crystals and pearls, studded with diamonds, pure silver floors, stair cases encrusted with Vaidhurya and covered with crystal grains, lovely quadrangles echoing with the sounds of Krauncha birds and peacocks , inhabited by royal swans , filled with sounds of auspicious musical instruments raising to the sky resounding all over like the city of Vaswokasara, Hanuman the Vanara was delighted.

तां समीक्ष्य पुरीम् रम्यां राक्षसाधिपते श्शुभाम्।
अनुत्तमां वृद्धियुतां चिंतयामास वीर्यवान्॥13||

स॥ शुभां रम्यां अनुत्तमां वृद्धियुतां राक्षसाधिपतेः तां पुरीं वीक्ष्य वीर्यवान् हनुमतः चिन्तयामास॥

Seeing the incomparable, aupicious, beautiful, prosperous city the mighty Hanuman started to think.

नेयमन्येन नगरी शक्या धर्षयितुं बलात् ।
रक्षिता रावण बलैः उद्यतायुधदारिभिः ॥14||

स॥उद्यतायुधधारुभिः रावण बलैः रक्षिता इयं नगरो अन्येन बलात् धर्षयितुं न शक्या॥

This city protected by Ravana forces which are ready to fight cannot be overtaken by force.

कुमुदांगदयोर्वापि सुषेणस्य महाकपेः।
प्रसिद्धेयं भवेत् भूमिः मैंदद्विविदयो रपि॥15||

स॥ इयं भूमिः कुमुदांगदयोर्वापि महाकपेः सुषेणस्य मैन्दद्विविदयोरपि प्रसिद्धा भवेत्॥

This place can be reached by Kumuda, Angada and the great Vanara Sushena, as also Mainda and Dvivida.

विवस्वत स्तनूजस्य हरेश्च कुशपर्वणः।
ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥16||

स॥ (इयं भूमिः) विवस्वतः तनूजस्य हरेः कुषपर्वणः ऋक्षस्य केतुमालस्य मम च गतिः भवेत्॥

The son of Vivaswan, the chief of Vanaras (Sugriva) , Kusaparva, Riksha and myself also will be able to reach this place.

समीक्ष्यतु महाबाहू राघवस्य पराक्रमम्।
लक्ष्मणस्य विक्रांतं अभवत्प्रीतिमान् कपिः॥17||

स॥ कपिः महाबाहुः राघवस्य पराक्रमं लक्षमणस्य विक्रान्तं च समीक्ष्य प्रीतिमान् अभवत् ॥

The Vanara remembering the valor of mighty Rama and the valiant Lakshmana was happy.

तां रत्न वसनोपेतां कोष्ठागारावतंसकाम्।
यंत्रागारास्तनीमृद्धां प्रमदामिव भूषिताम्॥18||
तां नष्ठतिमिरां दीप्तैर्भास्वरैश्च महागृहैः।
नगरीं राक्षसेंद्रस्य स ददर्श महाकपिः॥19||

स॥ सः महाकपिः भास्वरैश्च दीप्तैः नष्ठतिमिरां महागृहैः तां राक्षसेन्द्रस्य नगरीं रत्न वसनोपेतां कोष्ठागारवतंसकाम् यन्त्रागारां स्तनीं ऋद्धां भूषिताम् प्रमदामिव ददर्श ॥

Hanuman looked at the city of the Rakshasa King whose darkness was dispelled by the bright gems and great mansions as if it were a young maiden. The prosperous city was like a well decorated woman adorned with oranament with walls for her dress, the stables for her ear rings, and the armouries for her breasts.

अथ सा हरिशार्दूलं प्रविशंतं महाबलः।
नगरीस्वेन रूपेण ददर्श पवनात्मजम्॥20||

स॥ अथ महाबलः हरिशार्दूलं प्रविशंतं पवनात्मजं सा नगरी स्वेन रूपेण ददर्श॥

The mighty Hanuman, a tiger among Vanaras entering the city was seen by Lanka, the presiding deity herself.

सा तं हरिवरं दृष्ट्वा लंकारावणपालिता।
स्वयमेवोथ्थिता तत्र विकृतानन दर्शना॥21||

स॥ रावणपालिता सा लंका तं हरिवरं दृष्ट्वा विकृतानन दर्शना तत्र स्वयमेव उत्थिता ॥

Seeing the best of Vanaras, the ugly looking Lanka ruled by Ravana rose up.

पुरस्तात् कपिवर्यस्य वायुसूनोरतिष्ठत।
मुंचमाना महानादं अब्रवीत् पवनात्मजम्॥22||

स॥ कपिवर्यस्य वायुसूनोः पुरस्तात् अतिष्ठत । महानादं मुंचमाना पवनात्मजं अब्रवीत्॥

She stood infront of the best of Vanaras. Making a great sound she spoke.

कस्त्वं केन च कार्येण इह प्राप्तो वनालय।
कथय स्वेह यत्तत्वं यावत्प्राणाधरंति ते ॥23||

स॥ (हे) वनालय कः त्वं। केन कार्येण इह प्राप्तः च। यावत् ते प्राणाः धरन्ति इह यत् तत्त्वं (तत्) कथयस्व॥

'Oh Forest dweller who are you ? For what reason have you come here? Speak the truth about yourself till you have a hold on your life.

न शक्यं खल्वियं लंका प्रवेष्ठुं वानर त्वया ।
रक्षिता रावण बलैः अभिगुप्तासमंततः॥24||

स॥ (हे) वानर रावण समन्ततः बलैः रक्षिता अभिगुप्ता लंका प्रवेष्ठुं त्वया न शक्यं॥

Oh Vanara protected by Ravana forces everywhere it is not possible for you to enter this city Lanka in secret.

अथ तामब्रवीद्वीरो हनुमानग्रतस्थिताम्।
कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि॥25||
का त्वं विरूपनयना पुरद्वारे अवतिष्ठसि।
किमर्थं चापि मां रुद्द्वा निर्भर्त्सयसि दारुणा॥26||

स॥ अथ अग्रत स्थिताम् तां वीरः हनुमान् अब्रवीत्। यत् त्वां मां परिपृच्छसि तत्त्वं ते कथयिष्यामि॥ हे दारुणा विरूप नयना पुरद्वारे अवतिष्ठसि का त्वं । किं अर्थम् मां रुद्ध्वा निर्भर्त्ससि ।

Then the valiant Hanuman spoke to that one standing in front of him. 'I will tell you what you are asking me. oh Dreadful woman with distorted eyes ! Who are you standing at the city gates? Why are you threatening me?'

हनुमाद्वचनं श्रुत्वा लंका सा कामरूपिणी।
उवाच वचनं क्रुद्धा परुषं पवनात्मजम्॥27||
अहं राक्षसराजस्य रावणस्य महात्मनः।
अज्ञाप्रतीक्षा दुर्दर्षा रक्षामि नगरीं इमाम्॥28||

स॥ हनुमात् तत् वचनं श्रुत्वा सा कामरूपिणी लंका कृद्धा पवनात्मजं परुषं वचनं उवाच॥अहं महात्मनः राक्षस राजस्य आज्ञाप्रतीक्षा इमाम् दुर्धर्षा नगरीं रक्षामि ॥

Hearing those words of Hanuman the angered Lanka who can assume any form spoke harsh words to the son of wind god. 'I am protecting this invincible city following the orders of the demon king'.

न शक्या मामवज्ञाय प्रवेष्ठुं नगरी त्वया।
अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया॥29||
अहं हि नगरी लंका स्वयमेव प्लवंगम।
सर्वतः परिरक्षामि ह्येतत्ते कथितं मया॥30||

स॥ मां अवज्ञाय त्वया नगरीं प्रवेष्ठुं न शक्या। अद्य मया निहतः प्राणैः परित्यक्तः स्वप्स्यसे॥ हे प्लवंगम ! अहं स्वयमेव नगरी लंका । सर्वतः परिरक्षामि एतत् ते कथितं॥

'Ignoring my presence it is not possible for you to enter the city. Today killed by me giving up life you will go to eternal sleep. Oh Hanuman I am the deity of Lanka. I will be protecting the city all over. This is my answer to you'.

लंकाया वचनं श्रुत्वा हनुमान्मारुतात्मजः।
यत्नवान् स हरिश्रेष्ठः स्थितश्शैल इवापरः॥31||
स तां स्त्रीरूप विकृतां दृष्ट्वा वानरपुंगवः।
अबभाषेsथ मेधावी सत्त्ववान् प्लवगर्षभः॥32||

स॥मारुतात्मजः सः हनुमान् लंकायाः वचनं श्रुत्वा यत्नवान् सः हरिश्रेष्ठः अपरं शैलः इव स्थितः॥सः मेधावी सत्त्ववान् प्लवगर्षभः वानपुंगवः स्त्रीरूप विकृतां तां अबभाषे॥

The son of wind god, Hanuman hearing those words of Lanka stood in front of her like another mountain. That intelligent powerful Hanuman, a bull among Vanaras spoke to that monstrous looking woman.

द्रक्ष्यामि नगरीं लंकां साट्टप्राकारतोरणाम्।
इत्यर्थमिह संप्राप्तः परं कौतूहलम् हि मे ॥33||
ववान्युपवनानीह लंकायाः काननानिच ।
सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे॥ 34||

स॥ साट्टप्राकारतोरणां लंकां द्रक्ष्यामि । इत्यर्थं इह संप्राप्तः । मे परं कौतूहलं हि॥इह वनानि उपवनानि काननानि च मुख्यानि गृहानि सर्वतः द्रष्ठुं मे आगमनं हि॥

'I have great curiosity. I have come to see the market places, ramparts and gateways. I have arrived here to see the gardens groves and forests as well as the main palaces'.

तस्य तद्वचनं श्रुत्वा लंका सा कामरूपिणी।
भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम्॥35||
मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम्।
न शक्यमद्य ते द्रष्टुं पुरीयं वानराधमा॥36||

स॥ तस्य तत् वचनं श्रुत्वा सा कामरूपिणी भूय एव पुनः परुषाक्षरं (वाक्यं) बभाषे॥स॥ हे दुर्बुद्धे वानराधमा मां अनिर्जित्य राक्षसेश्वर पालितां इयं पुरीं अद्य ते द्रष्ठुं न शक्यं॥

Hearing those words that ogress who can assume any form again spoke with harsh words. 'Oh Evil minded foolish monkey , without conquering me it is not possible for you to enter the city ruled by the king of demons'.

ततस्स कपिशार्दूलः तां उवाच निशाचरीम्।
दृष्ट्वापुरीं इमां भद्रे पुनर्यास्ये यथागतम्॥37||

स॥ ततः स कपि शार्दूलः तां निशाचरीम् (पुनः उवाच) ॥हे भद्रे इमां पुरीं दृष्ट्वा यथागतं पुनः यास्ये॥

Then the tiger among Vanaras again spoke to the night walker.’'Oh Noble lady, having seen the city I will go back the way I came.'

ततः कृत्वा महानादं सावै लंका भयावहं ।
तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥38||
ततस्स कपिशार्दूलो लंकया ताडितो भृशम्।
ननाद सु महानादं वीर्यवान् पवनात्मजः॥39||

स॥ ततः भयावहं महानादं कृत्वा सा लंका वेगिता तलेन वानरश्रेष्ठं ताडायामास । ततः लंकया भृशं ताडितः कपिशार्दूलः वीर्यवान् मारुतात्मजः सु महानादं ननाद॥

Then that Lanka making a frightening sound speedily hit Hanuman the best of Vanaras with her palm. Then thus hit badly by Lanka , the powerful son of wind god roared loudly.

ततस्संवर्तयामास वामहस्तस्यसोsंगुळीः।
मुष्ठिनाsभिजघानैनां हनुमान् क्रोधमूर्च्छितः॥40||
स्त्रीचेति मन्यमानेन नाति क्रोधः स्वयं कृतः।
सा तु तेन प्रहारेण विह्वलांगी निशाचरी॥41||
पपात सहसा भुमौ विकृतानन दर्शना।
ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम्॥42||
कृपां चकार तेजस्वी मन्यमानः स्त्रियम् तु ताम्।

स॥ ततः सः हनुमान् क्रोधमूर्छितः वाम हस्तस्य अंगुळीःसंवर्तयामास । एनाम् मुष्टिना अभिजघान॥स्त्री च इति मन्यमानेन स्वयं अतिक्रोधः न कृतः। सा निशाचरी तु तेन प्रहारेण विह्वलांगी विकृतानन दर्शना सहसा भूमौ पपात ॥ततः प्राज्ञः विनिपातितां तां दृष्ट्वा तां स्त्रियं तु मन्यमानः कृपां चकार ।

Then Hanuman overcome by anger clenched the fingers of his left hand and hit her with his fist. Considering that she is a woman he did not become too angry. That ugly looking night dweller with limbs shattered by that hit at once fell on the ground. Then seeing the fallen Lanka , considering that she is a woman Hanuman showed compassion.

ततो वैभृश संविग्ना लंका सा गद्गदाक्षरम्॥43||
उवाच गर्वितं वाक्यं हनूमंतं प्लवंगमम्।
प्रसीद महाबाहो त्रायस्व हरिसत्तम॥44||
समये सौम्य तिष्ठंति सत्त्ववंतो महाबलाः।
अहं तु नगरी लंका स्वयमेव प्लवंगम॥45||

स॥ ततः सा लंका भृश संविग्ना गद् गदाक्षरं अगर्वितं प्लवंगमम् हनूमंतं उवाच। हे महाबाहो प्रसीद । हरिसत्तम त्रायस्व॥ सौम्य सत्त्ववंतः महाबलाः समये तिष्ठंति । प्लवंगम अहं तु स्वयमेव नगरी लंका ॥

Then the greatly agitated Lanka spoke with choked voice to Hanuman the best among flyers. Oh Great armed one ! Be gracious. Oh Best of monkeys save me. Oh Noble one ! Great people hold back when time comes. Oh Best among flyers I am the deity of Lanka.'

निर्जिताहं त्वया वीर विक्रमेण महाबल।
इदं तु तथ्यं शृणूवै ब्रुवंत्या हरीश्वर॥46||
स्वयंभुवा पुरा दत्तं वरदानं यथा मम।
यदा त्वां वानरः कश्चित् विक्रमात् वशमानयेत्॥47||
तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्
स हि मे समयः सौम्य प्राप्तोsद्यतवदर्शनात्॥48||

स॥ हे वीर महाबल अहं त्वया विक्रमेण निर्जिता। हरीश्वरा इदं तु तथ्यं शृणुवै॥ पुरा स्वयंभुवा मम दत्तं वरदानं यथा । यदा त्वां कश्चित् वानरः विक्रमात् वशमानयेत् तदा रक्षसां भयमागयेत् (इति) त्वया हि विज्ञेयं ॥ हे सौम्य स समयः मे तव दर्शनात् संप्राप्तः॥

'Oh Valiant and mighty one,I have been conquered by your valor. Oh Best of monkeys this is certain please hear. In the past the creator gave me a boon. When a Vanara vanquishes you by his prowess you may know that the destruction of Rakshasa will set in. Oh Noble one that time has come with your appearance.

स्वयंभूविहितः सत्यो न तस्यास्ति व्यतिक्रमः ।
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः॥49||
रक्षसां चैव सर्वेषां विनाशः समुपागतः।
तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम्॥
विधत्स्वसर्व कार्याणि यानि यानीह वांच्छसि॥50||

स॥ स्वयंभूविहितः । सत्यः। तस्य व्यतिक्रमः न अस्ति॥ दुरात्मनः राज्ञ्जः रावणस्य सर्वेषां रक्षसां च सीतानिमित्तं विनाशः समुपागतः॥ हे हरिश्रेष्ठ ततः रावण पालितां पुरीं इह प्रविश्य यानि यानि कार्याणि वांच्छसि तत् सर्वकार्याणि विधत्स्व॥

'What has been ordained by the creator cannot be overcome. The ruin of evil minded king Ravana as well as all Rakshasas will come because of Sita. Oh Best of monkeys so enter this city ruled by Ravana and do what ever works you intended to do'.

प्रविश्य शापोपहतं हरीश्वरः
शुभां पुरीं राक्षस मुख्यपालिताम्।
यदृच्छया त्वं जनकात्मजां सतीम्
विमार्ग सर्वत्र गतो यथा सुखम्॥51||

स॥हरीश्वर शापोपहतं राक्षसमुख्य पालितां शुभां पुरीं यदृच्छया प्रविश्य त्वं सर्वत्र गतः यथासुखं सतीं जनकात्मजां विमार्गस्व॥

'Oh Best of monkeys ! having entered the city doomed by the curse and ruled by the chief of Rakshasas ,you may go every where and search for the chaste daughter of Janaka !.'

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे तृतीय स्सर्गः॥

Thus ends the third Sarga of Sundarakanda in Ramayana, the first ever poem of mankind composed by Maharshi Valmiki.

||om tat sat||

 

 

 

 

 

 

 

 

 

 





 



 

|| Om tat sat ||