||Sundarakanda ||

|| Sarga 4||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ चतुर्थः सर्गः

स निर्जित्य पुरीं श्रेष्ठां लंकां तां कामरूपिणी।
विक्रमेण महातेजा हनुमान् कपिसत्तमः॥1||

अद्वारेण महाबाहुः प्राकारमभिपुप्लुवे।
प्रविश्य नगरीं लंकां कपिराजहितंकरः॥2||

चक्रेsथ पादं सव्यं च शत्रूणां स तु मूर्थनि।
प्रविष्ट सत्व संपन्नो निशायां मारुतात्मजः॥3||

स महापथमास्थाय मुक्तपुष्प विराजितम्।
ततस्तु तां पुरीं लंकां रम्यां अभिययौ कपिः॥4||

हसितोत्कृष्णनिनदै स्तूर्यघोषपुरस्सरैः।
वज्रांकुशनिकाशैश्च वज्रजालविभूषितैः॥5||

गृहमेघैः पुरी रम्या बभासे द्यौ रिवांबुधैः।
प्रजज्वाल तदा लंका रक्षोगणगृहै श्शुभैः॥6||

सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः।
वर्थमान गृहैश्चापि सर्वत स्सुविभूषिता॥7||

तां चित्रमाल्याभरणां कपिराजहितंकरः।
राघवार्थं चरन् श्रीमान् ददर्शच ननंद च ॥8||

भवनाद्भवनं गच्छन् ददर्श पवनात्मजः।
विविधाकृतिरूपाणि भवनानि ततस्ततः॥9||

शुश्राव मथुरं गीतं त्रिस्थानस्वरभूषितम् ।
स्त्रीणां मदसमृद्धानां दिविचाप्सरसामिव ॥10||

शुश्राव कांचीनिनदं नूपुराणां च निस्स्वनम्।
सोपाननिनदांश्चैव भवनेषु महात्मनाम् ॥11||

अष्फोटितनिनादांश्च क्ष्वेळितांश्च ततस्ततः।
शुश्राव जपतां तत्र मंत्रान् रक्षोगृहेषुवै॥12||

स्वाध्यानिरतांश्चैव यातुधानान् ददर्श सः।
रावण स्तवसंयुक्तान् गर्जतो राक्षसानपि॥13||

राजमार्गं समावृत्य स्थितं रक्षो बलं महत्।
ददर्श मध्यमे गुल्मे रावणस्य चरान्बहून्॥14||

दीक्षितान् जटिलान् मुंडान् गोजिनांबरवाससः।
दर्भमुष्टिप्रहरणान् अग्निकुंडायुधान् स्तथा॥15||

कूटमुद्गरपाणींश्च दंडायुधधरानपि।
एकाक्षान् एककर्णांश्च लंबोदरपयोधरान्॥16||

कराळान् भुग्नवक्त्रांच विकटान् वामनांस्तथा।
धन्विनः खड्गिनश्चैव शतघ्नी मुसलायुधान्॥17||

परिघोत्तमहस्तांश्च विचित्र कवलोज्ज्वलान्।
नातिस्थूलान् नातिकृशान् नातिदीर्घातिह्रस्वकान्॥18||

नातिगौरान् नातिकृष्णान् नातिकुब्जान्न वामनान्।
विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः॥19||

ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान्।
शक्तिवृक्षायुधांश्चैव पट्टसाशनिधारिणः॥20||

क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः।
स्रग्विणस्त्वनुलिप्तांश्च वराभरण भूषितान्॥21||

नानावेष समायुक्तान् यथा स्वैरगतान् बहून् ।
तीक्ष्णशूलधरांश्चैव वज्रिणस्य महाबलान्॥22||

शतसाहस्र मव्यग्र मारक्षं मध्यमं कपिः।
रक्षोधिपतिनिर्धिष्ठं ददर्शांतःपुराग्रतः ॥23||

स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम्।
राक्षसेंद्रस्य विख्यातमद्रि मूर्ध्नि प्रतिष्टितम्॥24||

पुंडरीकावतंसाभिः परिघाभिरलंकृतम्।
प्राकारावृत मत्यंतं ददर्श स महाकपिः॥25||

त्रिविष्ठपनिभं दिव्यं दिव्यनाद विविनादितम्।
वाजिहेषितसंघुष्टं नादितंभूषणैस्तथा॥26||

रथैर्यानैर्विमानैश्च तथा हयगजै श्शुभैः।
वारणैश्च चतुर्दंतै श्श्वेताभ्रनिचयोपमैः ॥27||

भूषितं रुचिर द्वारं मत्तैश्च मृगपक्षिभिः।
रक्षितं सुमहावीर्यै र्यातुधानै स्सहस्रशः॥
राक्षसाधिपतेर्गुप्त माविवेश महाकपिः॥28||

सहेमजांबूनदचक्रवाळम्
महार्हमुक्तामणिभूषितांतम्।
परार्थ्यकालागरुचंदनाक्तम्
स रावणांतःपुरम् आविवेश॥29||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे चतुर्थस्सर्गः॥

 

 


 

 

 

 





 



 

|| Om tat sat ||