||Sundarakanda ||

|| Sarga 41||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ एकचत्वारिंशस्सर्गः

स च वाग्भिः प्रशस्ताभिः गमिष्यन् पूजितस्तया।
तस्माद्देशादपक्रम्य चिंतयामास वानरः॥1||

अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा।
त्रीन् उपायानतिक्रम्य चतुर्थ इह विद्यते॥2||

न साम रक्षस्सु गुणाय कल्पते
न दानमर्थोपचितेषु युज्यते।
नभेदसाध्या बलदर्पिता जनाः
पराक्रमस्त्वेव ममेह रोचते॥3||

न चास्य कार्यस्य पराक्रमा दृते विनिश्चयः कश्चिदिहोपपद्यते।
हतप्रवीराहि रणेहि राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम्॥4||

कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत्।
पूर्वकार्याविरोधेन स कार्यं कर्तु मर्हति॥5||

न ह्येक साधको हेतुः स्वल्पस्यापीह कर्मणः।
योह्यर्थं बहुधा वेद स समर्थोsर्थ साधने॥6||

इहैव तावत्कृतनिश्चयो ह्यहं
यदिव्रजेयं प्लवगेश्वरालयम्।
परात्म सम्मर्थविशेषतत्त्ववित्
ततः कृतं स्यान् ममभर्तृशासनम्॥7||

कथं नु खल्वद्य भवेत्सुखागतं
प्रसह्य युद्धं ममराक्षसैः सह।
तथैव खल्वात्मबलं च सारवत्
सम्मानयेन्मांच रणे दशासनः॥8||

ततः समासाद्य रणे दशाननं
समंत्रिवर्गं सबलप्रयायिनम्।
हृदि स्थितं तस्य मतं बलं च वै
सुखेन मत्वाह मितः पुनर्व्रजे॥9||

इदमस्य नृशंसस्य नंदनोपममुत्तमं।
वनं नेत्रमनःकांतं नानाद्रुमलतायुतम्॥10||

इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः।
अस्मिन् भग्ने ततः कोपं करिष्यति दशाननः॥11||

ततोमहत् साश्वमहारथद्विपं
बलं समादेक्ष्यति राक्षसाधिपः।
त्रिशूलकालायसपट्टि सायुधम्
ततोमहत् युद्धमिदं भविष्यति॥12||

अहं तु तैः संयति चंडविक्रमैः
समेत्य रक्षोभिरसह्यविक्रमः।
निहत्य तद्रावणचोदितं बलं
सुखं गमिष्यामि कपीश्वरालयम्॥13||

ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः।
ऊरुवेगेन महता द्रुमान् क्षेप्तु मथारभत्॥14||

ततस्तु हनुमान् वीरो बभंज प्रमदावनं।
मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम्॥15||

तद्वनं मथितैर्वृक्षैः भिनैश्च सलिलाशयैः।
चूर्णितैः पर्वताग्रैश्च बभूवा प्रियदर्शनम्॥16||

नाना शकुंतविरुतैः प्रभिन्नैः सलिलाशयैः।
ताम्रैः किसलयैः क्लांतैः क्लांतद्रुमलतायुतम्॥17||

न बभौ तद्वनं तत्र दावानलहतं यदा।
व्याकुलावरणा रेजुः विह्वला इव ता लताः॥18||

लतागृहैः चित्रगृहैश्च नाशितैः
महोरगैर्व्याळ मृगैश्च निर्दुतैः।
शिलागृहैरुन्मधितैः तथा गृहैः
प्रणष्टरूपं तदभून्महत् वनम्॥19||

सा विह्वला शोकलताप्रताना वनस्थलीशोकलताप्रताना।
जाता दशास्यप्रमदावनस्य कपेर्बलाद्दि प्रमदावनस्य॥20||

स तस्य कृतार्थपतेर्महाकपिः महद्व्यळीकं मनसो महात्मनः।
युयुत्सुरेको बहुभिः महाबलैः श्रिया ज्वलन् तोरणमास्थितः कपिः॥21||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे एकचत्वारिंशस्सर्गः ॥


|| Om tat sat ||