||Sundarakanda ||

|| Sarga 41||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ एकचत्वारिंशस्सर्गः

स च वाग्भिः प्रशस्ताभिः गमिष्यन् पूजितस्तया।
तस्माद्देशादपक्रम्य चिंतयामास वानरः॥1||

स॥ सः वानरः प्रशस्थाभिः वाग्भिः पूजितः तस्मात् देशात् अपक्रम्यगमिष्यन् चिंतयामास॥

That Vanara having been honored with choicest words , started thinking about going from that place.

अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा।
त्रीन् उपायानतिक्रम्य चतुर्थ इह विद्यते॥2||
न साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते।
नभेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते॥3||
न चास्य कार्यस्य पराक्रमा दृते विनिश्चयः कश्चिदिहोपपद्यते।
हतप्रवीराहि रणेहि राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम्॥4||

स॥ इदं कार्यं अल्पशेषं (अस्ति)। अयं असितेक्षणा दृष्टा। त्रीन् उपायान् अतिक्रम्य इह चतुर्थ विद्यते॥ रक्षस्सु साम गुणाय न कल्पते। अर्थोपचितेषु दानं न युज्यते। बलदर्पिताः जनाः भेद साध्याः न । इह मम पराक्रमस्त्वेव रोचते॥इह अस्य कार्यस्य पराक्रमात् ऋते विनिश्चयः कश्चित् न उपपद्यते। यत् रणे हतप्रवीराः राक्षसाः अद्य इह कथंचित् मार्दवं ईयुः॥

’ This black eyed lady has been seen. Very little work is remaining. Beyond the three strategies here there is a fourth strategy. With Rakshasas negotiation is of no use. Being wealthy gifts also will not work. For people proud of their strength dissension will not work. Here only my valor will work. Here for this task other than valor nothing else will hold. If I kill a few strong ones they may soften and yield.

कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत्।
पूर्वकार्याविरोधेन स कार्यं कर्तु मर्हति॥5||
न ह्येक साधको हेतुः स्वल्पस्यापीह कर्मणः।
योह्यर्थं बहुधा वेद स समर्थोsर्थ साधने॥6||

स॥ कार्ये कर्मणि निर्दिष्टे यः पूर्वकार्या विरोधेन बहूण्यपि साधयेत् सः कार्यं कर्तुं अर्हति॥ इह स्वल्पस्य अपि कर्मणः सार्धकः हेतुः एकः न हि । यः अर्थं बहुधा वेद सः अर्थसाधने समर्थः ॥

When a work is entrusted one who achieves many without affecting the earlier work is the one who is fit to do the work. Here for achieving a small task effcetively there is no one way. One who knows many ways is capable.

इहैव तावत्कृतनिश्चयो ह्यहं
यदि व्रजेयं प्लवगेश्वरालयम्।
परात्म सम्मर्थविशेषतत्त्ववित्
ततः कृतं स्यान् ममभर्तृशासनम्॥7||

स॥ अहं इहैव तावत् परात्मसम्मर्दविशेषतत्त्ववित् प्लवगेश्वरालयंव्रजेयं यदि ततः मम भर्तृ शासनं कृतं स्यात् ॥

Here itself if I go to the abode of Vanaras after understanding the difference between the strength of the enemy forces and our strength in war, then the orders of my lord are well executed.

कथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं ममराक्षसैः सह।
तथैव खल्वात्मबलं च सारवत् सम्मानयेन्मां च रणे दशाननः॥8||
ततः समासाद्य रणे दशाननं समंत्रिवर्गं सबलप्रयायिनम्।
हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वाह मितः पुनर्व्रजे॥9||

स॥ अद्य मम राक्षसैः सह प्रसह्य युद्धं कथं नु सुखागतं भवेत् तथैव आत्मबलं च सारवत् सः दशाननः च माम् रणे मानयेत्॥ततः समंत्रिवर्गं सबलप्रयायिनं दशाननं रणे समासाद्य तस्य हृदि स्थितं मतं बलं चैव मत्त्वा अहम् इतः सुखेन पुनः व्रजे॥

How to engage in a war with Rakshasas today ? How to have a happy ending ? That ten ten-headed will gauge his strength and ours in that way only. Then after finding out the strength of the ten-headed with his army chiefs marching forward and his mind along with his ministers, I can happily go from here.

इदमस्य नृशंसस्य नंदनोपममुत्तमं।
वनं नेत्रमनः कांतं नानाद्रुमलतायुतम्॥10||
इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः।
अस्मिन् भग्ने ततः कोपं करिष्यति दशाननः॥11||

स॥ नृशंसस्य अस्य इदं नेत्रमनः क्रांतं नानाद्रुमलायुतं उत्तमं वनं नंदनोपमं ॥शुष्कं वनं अनलः इव इदं विध्वंसयिष्यामि। अस्मिन् भग्ने ततः दशाननः कोपं करिष्यति॥

This wicked one's Ashoka grove is a feast to the eyes and mind with different kinds of trees creepers and is like the Nandana grove. Like a dry forest is destroyed by the fire, I will destroy this garden. When this is devatated the ten-headed will be angry.

ततोमहत् साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः।
त्रिशूलकालायसपट्टि सायुधम् ततोमहत् युद्धमिदं भविष्यति॥12||
अहं तु तैः संयति चंडविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः।
निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम्॥13||

स॥ ततः राक्षसाधिपः साश्वमहारथद्विपं महत् त्रिशूलकालायसपट्टि सायुधं बलं समादेक्ष्यति । ततः इदं महत् युद्धं भविष्यति॥ अहं तु चण्डविक्रमैः तैः रक्षोभिः संयति समेत्य असह्यविक्रमः रावणचोदितं तत् बलं निहत्य सुखम् कपीश्वरालयं गमिष्यामि॥

Then the king of Rakshasas will send a great force with horses chariots and elephants armed with tridents and spears.Then a great war will ensue. Then colliding with Rakshasas of irresistible valor endowed with fierce strength sent by Ravana, and destroying them, I can go happily to the abode of Vanaras.

ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः।
ऊरुवेगेन महता द्रुमान् क्षेप्तु मथारभत्॥14||
ततस्तु हनुमान् वीरो बभंज प्रमदावनं।
मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम्॥15||

स॥ ततः भीमविक्रमः मारुतिः कृद्धः अथ महता ऊरुवेगेन मारुतवत् द्रुमान् क्षेप्तुं आरभत् ॥ततः वीरः हनुमान् मत्तद्विजसमाघुष्टं नाद्रुमलायुतं प्रमदावनं बभंज॥

Then the fierce warrior Maruti being furious started uprooting the trees with speed sprung from his thighs.Then Hanuman felled a variety of trees and creepers inhabited by intoxicated birds in the beautiful garden meant for women folk.

तद्वनं मथितैर्वृक्षैः भिनैश्च सलिलाशयैः।
चूर्णितैः पर्वताग्रैश्च बभूवा प्रियदर्शनम्॥16||
नाना शकुंतविरुतैः प्रभिन्नैः सलिलाशयैः।
ताम्रैः किसलयैः क्लांतैः क्लांतद्रुमलतायुतम्॥17||
न बभौ तद्वनं तत्र दावानलहतं यदा।
व्याकुलावरणा रेजुः विह्वला इव ता लताः॥18||
लतागृहैः चित्रगृहैश्च नाशितैः महोरगैर्व्याळ मृगैश्च निर्दुतैः।
शिलागृहैरुन्मधितैः तथा गृहैः प्रणष्टरूपं तदभून्महत् वनम्॥19||

स॥ तत् वनं मथितैः वृक्षैः भिन्नैः सलिलाशयैः चूर्णितैः पर्वताग्रैश्च अप्रियदर्शनं बभूव॥क्लांतद्रुमलतायुतं तत् वनं ननाशकुंतविरुतैः प्रभिन्नैः सलिलासयैः क्लांतैः ताम्रैः किसलयैः दावानलहतंरणाः ताः लताः विह्वलाः इव रेजुः॥महत् तत् वनं नाशितैः लतागृहैः चित्रगृहैः निर्धुतैः महोरगैः व्यालमृगैश्चतथा उन्मथितैः शिलागृहैः गृहैः प्रणष्ट रूपं अभूत् ॥

That grove with destroyed trees, breached ponds, and powdered mountain peaks became ugly looking. With wilted trees and creepers, with birds shrieking with different kinds of sounds with ponds of water breached , and with tender coppery shoots withered, the garden looked as though burnt by forest fire and climbers looked like women shivering in fear with their robes disarrayed. The great garden lay destroyed with arbors and picture galleries ruined huge serpents and animals scattered , stone houses and sheds destroyed.

सा विह्वला शोकलताप्रताना वनस्थलीशोकलताप्रताना।
जाता दशास्यप्रमदावनस्य कपेर्बलाद्दि प्रमदावनस्य॥20||

स॥दशास्य प्रमदावनस्य परमदावनस्य कपेः सा वनस्थली बलात् विह्वला शोकलताप्रताना जाता॥

The pleasure garden of Ravana totally destroyed appeared as though it was spreading the creepers of sorrow by the Vanara who set out to protect the lady.

स तस्य कृतार्थपतेर्महाकपिः महद्व्यळीकं मनसो महात्मनः।
युयुत्सुरेको बहुभिः महाबलैः श्रिया ज्वलन् तोरणमास्थितः कपिः॥21||

स॥ सः महाकपिः महात्मनः तस्य अर्थपतेः मनसः महत् व्यलीकं कृत्वा महाबलैः बहुभिः एकः युयुत्सुः श्रियाज्वलन् तोरणम् आस्थिताः॥

The great Vanara glowing having created unpleasantness for the ruler of wealth . stood at the archway ready to fight single-handedly many warriors.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे एकचत्वारिंशस्सर्गः ॥

Thus ends Sarga forty one of Sundarakanda of Ramayana the first ever poem composed in Sanskrit , the first poet sage Valmiki

||om tat sat||