||Sundarakanda ||

|| Sarga 42||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ द्विचत्वारिंशस्सर्गः

ततः पक्षि निनादेन वृक्षभंगस्वनेन च।
बभूवु स्त्राससंभ्रांताः सर्वे लंकानिवासिनः॥1||

विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः।
रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे॥2||

ततो गतायां निद्रायां राक्षस्यो विकृताननः।
तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम्॥3||

स ता दृष्ट्वा महाबाहुः महासत्त्वो महाबलः।
चकार सुमहद्रूपं राक्षसीनां भयावहम्॥4||

ततस्तं गिरि संकाशमतिकायं महाबलम्।
राक्षस्यो वानरं दृष्ट्वा प्रपच्छुर्जनकात्मजम्॥5||

कोsयं कस्य कुतो वायं किन्निमित्तमिहागतः।
कथं त्वया सहानेन संवादः कृत इत्युत ॥6||

आचक्ष्व नो विशालाक्षि माभूत्ते सुभगे भयम्।
संवाद मसितापांगे त्वया किं कृतवानयम्॥7||

अथाब्रवीन् महासाध्वी सीता सर्वांगसुंदरी।
रक्षसां भीमरूपाणां विज्ञाने मम का गतिः॥8||

यूयमेवाभिजानीत योsयं यद्वा करिष्यति।
अ हि रेव ह्यहेः पादान् विजानाति न संशयः॥9||

अहमप्यस्य भीतास्मि नैनं जानामि कोन्वयम्।
वेद्मि राक्षस मेवैन कामरूपिण मागतम्॥10||

वैदेह्या वचनं श्रुत्वा राक्ष्यस्यो विद्रुता दिशः।
स्थितः काश्चिद्गताः काश्चित् रावणाय निवेदितुम्॥11||

रावणस्य समीपेतु राक्षस्यो विकृताननाः।
विरूपं वानरं भीम माख्यातु मुपचक्रमुः॥12||

अशोकवनिकामध्ये राजन् भीमवपुः कपिः।
सीतया कृतसंवादः तिष्ठत्यमित विक्रमः॥13||

न च तं जानकी सीता हरिं हरिणलोचना।
अस्माभिर्बहुधा पृष्ठा निवेदयितुमिच्छति॥14||

वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा।
प्रेषितो वापि रामेण सीतान्वेषणकांक्षया॥15||

तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम्।
नानामृगगणाकीर्णम् प्रमृष्टं प्रमदावनम्॥16||

न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः।
यत्रा सा जानकी सीता स तेन न विनाशितः॥17|

जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते।
अथावा कः श्रमस्तस्यसैव ते नाभिरक्षिता॥18||

चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता।
प्रव्रद्धः शिंशुपावृक्षः स च तेनाभिरक्षितः॥19||

तस्योग्ररूपस्योग्र त्वं दंडमाज्ञातु मर्हसि।
सीता संभाषिता येन तद्वनं च विनाशितम्॥20||

मनः परिगृहीतां तां तव रक्षोगणेश्वर।
कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः॥21||

राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः।
हुताग्नि रिव जज्वाल कोपसंवर्तितेक्षणः॥22||

तस्य क्रुद्धस्य नेत्राभ्यां प्रापत न्नास्रबिंदवः।
दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिंदवः॥23||

आत्मनसदृशान् शूरान् किंकरान्नाम राक्षसः।
व्यादिदेश महातेजा निग्रहार्थं हनूमतः॥24||

तेषा मशीति साहस्रं किंकराणां तरस्विनाम्।
निर्ययुर्भवनात् तस्मात् कूटमुद्गरपाणयः॥25||

महोदरा महादंष्ट्रा घोररूपा महाबलाः।
युद्धाभिमनसः सर्वे हनुमद्ग्रहणोन्मुखाः॥26||

ते कपींद्रं समासाद्य तोरणस्थमवस्थितम्।
अभिपेतुर्महावेगाः पतंगा इव पावकम्॥27||

ते गदाभिर्विचित्राभिः परिघैः कांचनांगदैः।
अजघ्नुः वानरश्रेष्ठं शरैश्चादित्य सन्निभैः॥28||

मुद्गरैः पट्तिसैः शूलैः प्रासतोमरशक्तिभिः।
परिवार्य हनूमंतं सहसा तस्थुरग्रतः॥29||

हनुमानपि तेजस्वी श्रीमान् पर्वतसन्निभः।
क्षितवाविध्य लांगूलं ननाद च महास्वनम्॥30||

अ भूत्वा सुमहाकायो हनुमान्मारुतात्मजः।
धृष्ट मास्फोटयामास लंकां शब्देन पूरयन्॥31||

तस्यास्फोटितशब्देन महता सानुनादिना।
पेतुर्विहंगा गगनादुच्चैश्चेद मघोषयत् ॥32||

जयत्यति बलो रामो लक्ष्मणस्य महाबलः।
राजाजयति सुग्रीवो राघवेणाधिपालितः॥33||

दासोsहं कोसलेंद्रस्य रामस्या क्लिष्टकर्मणः।
हनुमान् शत्रुसैन्यानां निहंतामारुतात्मजः॥34||

न रावण सहस्रं मे युद्धे प्रतिबलं भवेत्।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः॥35||

अर्थयित्वा पुरीं लंकां अभिवाद्य च मैथिलीम्।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्॥36||

तस्य सन्नादशब्देन तेsभवन्भयशंकिताः।
ददृशुश्च हनूमंतं संध्यामेघ मिवोन्नतम् ॥37||

स्वामि संदेशनिश्संकाः ततस्ते राक्षसाः कपिम्।
चित्रैः प्रहरणैर्भीमैः अभिपेतुस्ततस्तः॥38||

स तै परिवृतः शूरैः सर्वत्रः सुमहबलैः।
अससादायसं भीमं परिघं तोरणाश्रितम्॥39||

स तं परिघमादाय जघान रजनीचरान्।
स पन्नगमिवादाय स्फुरंतं विनतासुतः॥40||

विचचा रांबरे वीरः परिगृह्य च मारुतिः।
स हत्वा राक्षसान् वीरान् किंकरान्मारुतात्मजः॥41||

युद्धकांक्षी पुनर्वीरः तोरणं समुपाश्रितः।
ततः तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः॥42||

निहतान् किंकरान् सर्वान् रावणाय न्यवेदयन्॥43||

स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्त लोचनः।
समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम्॥44||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे द्विचत्वारिंशस्सर्गः ॥

|| Om tat sat ||