||Sundarakanda ||
|| Sarga 44||( Slokas in Devanagari )
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
सुंदरकांड.
अथ चतुश्चत्वारिंशस्सर्गः॥
संदिष्टो राक्षसेंद्रेण प्रहस्तस्य सुतो बली।
जंबुमाली महदंष्ट्रो निर्जगाम धनुर्धरः॥1||
रक्तमाल्याबरधरः स्रग्वी रुचिरकुंडलः।
महानिवृत्तनयनः चंडः समरदुर्जयः॥2||
धनुश्शक्रधनुः प्रख्यं महद्रुचिरसायकम्।
विष्फारयानो वेगेन वज्राशनिसमस्वनम्॥3||
तस्य विष्फा र घोषेण धनुषो महता दिशः।
प्रदिशश्च नभश्चैव सहसा समपूर्यत॥4||
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः।
हनुमान् वेगसंपन्नो जहर्ष च ननाद च॥5||
तं तोरण विटंकस्थं हनुमंतं महाकपिम्।
जंबुमाली महाबाहुर्विव्याथ निशितैश्शरैः॥ 6||
अर्थ चंद्रेण वदने शिरस्येकेन कर्णिना।
बाहोर्विव्याथ नाराचैर्दशभिस्तं कपीश्वरम्॥7||
तस्त तच्छुशुभे ताम्रं शरेणाभिहतं मुखम्।
शरदीवांबुजं पुल्लं विद्धं भास्कर रश्मिना॥8||
तत्तस्य रक्तं रक्तेन रंजितं शुशुभे मुखम्।
यथाकाशे महपद्मं सिक्तं चंदन बिंदुभिः॥9||
चुकोप बाणाभिहतो राक्षसस्यमहाकपिः।
ततः पार्श्वेsतिविपुलां ददर्श महतीं शिलाम्।10|||
तरसा तां समुत्पाट्य चिक्षेप बलद्बली।
तां शरैर्दशभिः क्रुद्धः ताडयामास राक्षसः॥11||
विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चंडविक्रमः।
सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान्॥12||
भ्रामयंतं कपिं दृष्ट्वा सालवृक्षं महाबलम्।
चिक्षेप सुबहून् बाणान् जंबुमाली महाबलः॥13||
सालं चतुर्भिश्चिच्छेद वानरं पंचभिर्भुजे।
उरस्येकेन बाणेन दशभिस्तु स्तनांतरे॥14||
स शरैः पूरित तनुः क्रोधेन महतावृतः।
तमेव परिघं गृह्य भ्रामयामास वेगतः॥15||
अतिवेगोsतिवेगेन भ्रामयित्वा बलोत्कटः।
परिघं पातयामास जंबुमालेर्महोरसि॥16||
तस्य चैव शिरोनास्ति न बाहू न च जानुनी।
न धनुर्नरथो नाश्वास्त्रत्रादृश्यंत नेषवः॥17||
स हतः सहसातेन जंबुमाली महाबलः।
पपात निहतो भूमौ चूर्णितांगविभूषणः॥18||
जंबुमालिं च निहतं किंकरांश्च महाबलान्।
चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः॥19||
स रोषसंवर्तित ताम्र लोचनः
प्रहस्तपुत्रे निहते महाबले।
अमात्यपुत्रान् अतिवीर्यविक्रमान्
समादिदेशाशु निशाचरेश्वरः॥20||
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे चतुश्चत्वारिंशस्सर्गः ॥
|| Om tat sat ||