||Sundarakanda ||

|| Sarga 40||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ पंचचत्त्वारिंशस्सर्गः॥

ततस्ते राक्षसेंद्रेण चोदिता मंत्रिणस्सुताः।
निर्ययुर्भवनात् तस्मात् सप्तसप्तार्चिवर्चसः॥1||

स॥ ततः राक्षसेंद्रेण उदिताः मंत्रिणः सप्तार्ति वर्चसः सप्त सुताः तस्मात् भवना त् निर्ययुः॥

Commanded by the king of Rakshasas, the seven sons of the minister, energetic like fire, then departed from the palace.

महबलपरीवारा धनुष्मंतो महाबलाः।
कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः॥2||
हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः।
तोयदस्वननिर्घोषै र्वाजीयुक्तर्महारथैः॥3||
तप्तकांचन चित्राणि चापान्यमित विक्रमाः।
विष्फारयंतः संहृष्टाः तटित्वंत इवांबुदाः॥4||

स॥महाबलपरीवाराः श्रेष्ठाः महाबलाः धनुष्मंतः कृतास्त्रविदां परस्परजैषिणः स्यात्॥हेमजालपरिक्षिप्तैः ध्वजद्भिः पताकिभिः तोयदस्वन निर्घोषैः वाजियुक्तैः महारथैः निर्ययुः॥तप्तकांचन चित्राणि चापानि विष्फारयंतः तटित्वंतः अंबुदा इव अमित विक्रमाः संहृष्टाः निर्ययुः ॥

(They were) endowed with great army. Mighty, best, experts in archery, having learnt all about Astras, desirous of winning over each other ,they went in chariots decked with golden mesh mounted with flag masts and flags making sounds like stormy clouds. (They were) Sporting wonderful bows shining with molten gold , like clouds shining with lightning, vary valiant and delighted.

जनन्यस्तु ततस्तेषां विदिता किंकरान् हतान्।
बभूवुश्शोकसंभ्रांताः सबांधवसुहृज्जनाः॥5||

स॥ ततः तेषां सबांधवसुहृत् जनाः जनन्यस्तु किंकरान् हतान् विदित्वा कामसंभ्रांताः बभूवुः॥

Then their friends and relatives , and mothers too knowing that Kinkaras have been killed have become agitated.

ते परस्परसंघर्षा तप्तकांचनभूषणाः।
अभिपेतुर्हनूमंतं तोरणस्थ मवस्थितम्॥6||
सृजंतो बाणवृष्टिं ते रथगर्जित निस्स्वनाः।
वृष्टिमंत इवांबोधा विचेरुर्नैरृतांबुदाः॥7||
अवकीर्णस्ततस्ताभिर्हनुमान् शरवृष्टिभिः।
अभवत्संवृताकारः शैलाराडिव वृष्टिभिः॥8||

स॥ तप्तकांचन भूषणाः परस्परसंघर्षात् तोरणस्थं अवस्थितम् हनूमंतं अभिपेतुः॥रथगर्जित निस्वनाः ते नैऋतांबुदाः बाणवृष्टिम् सृजंतः वृष्टिमंतः अम्बुदा इव विचेरुः॥ततः ताभिः शरवृष्टिभिः अवकीर्णः हनुमान् वृष्टिभिः संवृताकारः शैलाराडिवअभवत् ॥

Wearing burnished ornaments of gold which were dashing against each other, they attacked Hanuman perched on the archway. Roaring with the chariots rattling , they sent forth torrent of arrows like the bursting stormy clouds. Then Hanuman covered with the rain of arrows appeared like king of mountains covered with showers of rain.

स शरान्मोघयामास तेषा माशुचरः कपिः।
रथवेगं च वीराणां विचरन्विमलेंबरे॥9||
स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते।
धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरंबरे॥10||

स॥ आशुचरः सः कपिः विमले अंबरे विचरन् तेषां वीराणां शरान् रथवेगं च मोघयामास॥व्योम्नि धनुष्मद्भिः तैः क्रीडन् सः वीरः अम्बरे धनुष्मद्भिः मेघैः प्रभुः मारुतिः यथा प्रकाशते॥

The Vanara moving fast in the clear sky rendered the arrows of the heroes and the speed of their chariots impotent. The hero playing with those carrying bows in the sky shining like the powerful wind god playing in the sky with the clouds.

सकृत्वा निनदं घोरं त्रासयं स्तां महाचमूम्।
चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान्॥11||
तलेनाभ्यहनत्कांश्चित् पादैः कांश्चित्परंतपः
मुष्टिनाभ्यहनत्कांचिन् नखैः कांश्चिद्व्यदारयत्॥12||

स॥वीर्यवान् सः घोरं निनदं कृत्वा ताम् महाचमूं त्रासयन् तेषु रक्षस्सु वेगं चकार॥परंतः कांश्चित् तलेन अभ्यहनत् । काश्चि पादैः । काश्चित् मुष्टिना । काश्चित् नखैः । व्यदारयत् ॥

The hero moved fast making a loud noise frightening the army of Rakshasas. The scorcher of enemies hit some with palm, some with feet and some with fist. Some were pierced with nails.

प्रममाथोरसा कांश्चिदूरूभ्यां अपरान् कपिः।
केचित्तस्य निनादेन तत्रैव पतिता भुवि॥13||
ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च।
तत्सैन्यमगमत् सर्वं दिशोदश भयार्दितम्॥14||

स॥कपिः कांश्चित् उरसा । अपरान् ऊरुभ्यां प्रमाथ । केचित् तस्य निनादेन तत्रैव भुवि पतिताः॥तेषु अवसन्नेषु भूमौ निपतितेषु च ततः सर्वं सैन्यं भयार्दितं दश दिशः अगमत्॥

The Vanara strangled some with chest, some others with thighs. Some fell on the ground there itself by his roar. When they all dropped down dead on the ground , the army struck with fear fled in all directions.

विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः।
भग्ननीडध्वजच्चत्रैर्भूश्च कीर्णाsभव द्रथैः॥15||
स्रवतारुधिरेणाथ स्रवंत्यो दर्शिताः पथि।
विविधैश्च स्वरैर्लंका ननाद विकृतं तदा॥16||

स॥नागाः विस्वरम् विनेदुः । वाजिनः भुवि निपेतुः। भूश्च भग्ननीडध्वजच्छत्रैः रथैः कीर्णा अभवत्॥अथा स्रवता रुधिरेण पथि स्रवंत्यः दर्शिताः तदा लंका विविधैः स्वरैः विकृतं ननाद॥

The elephants trumpeted discordantly. Horses fell down on the ground. Even earth had the broken seats, parasols and flagstaffs. Streams of blood flowed. Then Lanka was filled with many kinds of horrifying sounds.

सतान्प्रवृद्दान्विहत्य राक्षसान्
महाबलश्चंडपराक्रमः कपिः।
युयुत्सुरन्यैः पुनरेव राक्षसैः
तमेव वीरोsभिजगाम तोरणम्॥17||

स॥ वीरः महाबलः चण्ड पराक्रमः स कपिः प्रवृद्धान् तान् राक्षसान् विनिहृत्य अन्यैः युयुत्सुः पुनरेव तं तोरणमेव अभिजगाम॥

The mighty hero , fiercely valiant Vanara having killed mighty Rakshasas desirous of battling others again went to the archway.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे पंचचत्त्वारिंशस्सर्गः ॥

Thus ends Sarga forty five of Sundarakanda in Ramayana the very first poem ever composed in Sanskrit by the first poet sage Valmiki.

|| om tat sat||