||Sundarakanda ||

|| Sarga 46||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ षट्चत्त्वारिंशस्सर्गः॥

हतान् मंत्रिसुतान् बुद्ध्वा वानरेण महात्मना।
रावणः संवृताकारः चकार मतिमुत्तमाम्॥1||

स॥ महात्मना वानरेण मंत्रिसुतान् हतान् (इति) बुद्ध्वा रावणः संवृताकारः उत्तमाम् मतिं चकार॥

Ravana knowing that the minister's sons have been killed by the great Vanara, concealing his agony , applied his mind.

स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ।
प्रघसं भासकर्णं च पंच सेनाग्र नायकान्॥2||
संदिदेश दशग्रीवो वीरान्नयविशारदान् ।
हनुमद्ग्रहणा व्यग्रान् वायुवेगसमान्युधि॥3||

स॥ सः दशग्रीवः वीरान् नयविशारदान् राक्षसां विरूपाक्ष युपाक्षौ प्रघसं भासकर्णं च दुर्धरं च पंचसेनाग्रनायकान् युधि वायुवेग समान् हनुमान् ग्रहणाव्यग्रान् संदिदेश॥

The Ten-headed one commanded the five army generals Virupaksha, Yupaksha, Praghasa, Bhasakarna and Durdhara who are warriors skilled in statecraft, to capture in the battle Hanuman who equals wind god in speed

यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः।
सवाजिरथमातंगाः स कपिः शास्यतामिति॥4||
यतैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम्।
कर्म चापि समाधेयं देशकालविरोधिनम्॥5||
न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन्।
सर्वधा तन्महद्भूतं महाबलपरिग्रहम्॥6||

स॥ सेनाग्रगाः सर्वे महाबलपरिग्रहाः सवाजिरथमातंगाः स कपिः शास्यतां इति ॥तं वनालयं आसाद्य यत्नैः च भाव्यं देशकालविरोधिनं कर्मचापि समाधेयं॥ अहं कर्मणा प्रतितर्कयन् तं कपिं न मन्ये । सर्वथा महत् भूतं महाबलपरिग्रहं ॥

"Oh Army Generals ! All of you accompanied by large army along with horses, elephants, and chariots punish the Vanara. Approaching the forest dweller, he should be engaged with all efforts which are not against the time and place and even actions done by him. Judging by the actions, I do not think he is a Vanara. That great being is endowed with great strength".

भवेदिंद्रेण वा सृष्टमस्मदर्थं तपोबलात्।
सनागयक्षगंधर्वा देवासुरमहर्षयः॥7||
युष्माभि स्सहितैः सर्वेर्मया सह विनिर्जिताः।
तैरवश्यं विधातव्यं व्यळीकं किंचिदेव नः॥8||
तदेव नात्र संदेहः प्रसह्या परिगृह्यताम्।
नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः॥9||

स॥ अस्मदर्थं तपोबलात् इंद्रेण स नागयक्ष गंधर्वा देवासुर महर्षयः सृष्ठं वा॥युष्माभिः सह तैः सर्वैः मया विनिर्जिताः। अवश्यं तैः किंचिदेव व्यळीकं विधातव्यं ॥ तदेव अत्र संदेहः न । प्रसह्य परिगृह्यतां । धीरपरिक्रमः हरिः भवद्भिः न अवमान्यः च॥

' For us he might have been created by Indra along with Naga Yaksha Gandharva Devas or asuras or Maharshis. With your help I have defeated them all. Certainly even a little harm should be done. There is no doubt. He may be captured with force.The warrior of heroic strength should not be insulted '.

दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः।
वाली च सह सुग्रीवो जांबवंश्च महाबलः॥10||
नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः।
नैवं तेषां गतिर्भीमान तेजो न पराक्रमः॥11||
नमतिर्न बलोत्साहौ न रूपपरिकल्पनम्।
महत्सत्त्व मिदं ज्ञेयं कपिरूपं व्यवस्थितम्॥12||
प्रयत्नं महदास्थाय क्रियता मस्य निग्रहः।

स॥ पूर्वं मया विपुलविक्रमाः महाबलः वाली च जांबवंतः सुग्रीवः सह हरयः दृष्टा ॥ नीलः द्विविदादयः अन्ये सेनापतिः च तेषां गतिः न एवं तेजः पराक्रमः न॥ न मतिः बलः उत्साहः न रूपपरिकल्पनं । इदं कपिरूपं व्यवस्थितं महत् सत्त्वं ज्ञेयं ॥ महत् प्रयत्नं आस्थाय अस्य निग्रहः क्रियतां॥

" Earlier I have seen immensely powerful mighty Vanaras like Vali , Jambavan, and Sugriva. Nila Dvivida and other army generals too. They do not have his speed or valor. Not that intellect, not that stregth and energy or the ability to change form at will. This great being has taken the form of a Vanara. You have to put extraordinary efforts to capture him".

कामं लोकास्त्रयः सैंद्राः ससुरासुरमानवाः ।
भवता मग्रतः स्थातुं न पर्याप्ता रणाजिरे॥
तथापि तु नयज्ञेन जय माकांक्षता रणे॥14||
अत्मा रक्ष्यः प्रयत्नेन युद्धसिद्दिर्हि चंचला।

स॥ स इंद्राः स सुरासुरमानवाः त्रयः लोकाः रणाजिरे भवताम् अग्रतः स्थातुं न पर्याताः कामम्॥ तथापि तु रणे जयं आकांक्षया प्रयत्नेन आत्मा रक्ष्यः । युद्धसिद्धिः चंचलाः॥

" Along with Indra and all Suras Asuras and Manavas there is no one in the three worlds who is competent to stand in front of him. Even so desiring victory in the battle make all efforts to protect your self. The result of battle is uncertain".

ते स्वामि वचनं सर्वे प्रतिगुह्य महौजसः॥15||
समुत्पेतुर्महावेगा हुताशसमतेजसः।
रथैर्मत्तैश्च मातंगैर्वाजिभिश्च महाजनैः॥16||
शस्त्रैश्च विविधैः तीक्ष्‍णैः सर्वैश्चोपचिता बलैः।

स॥ महौजसः हुताश सम तेजसः ते सर्वे स्वामिवचनं प्रतिगृह्य महावेगाः रथैः मत्तैः मातंगैः महाजवैः वाजिभिश्च तीक्ष्णैः विविधैः शस्त्रैः सर्वे बलैः उपचिताः समुत्पेतुः॥

Those powerful ones, resplendent like the sacrificial fire, taking the leader's words moved together with their army of chariots , intoxicated elephants, with horses of great speed, and many kinds of sharp weapons,

ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम्॥17||
रस्मिमंतमिवोद्यंतं स्वतेजोरश्मिमालिनम्।
तोरणस्थं महोत्साहं महासत्त्वं महाबलम्॥18||
महामतिं महावेगं महाकायं महाबलम्।
तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः॥19||
तैस्तैः प्रहरणैर्भीमैरभिपेतुः ततस्ततः।

स॥ ततः वीराः स्वतेजोरस्मिमालिनं उद्यंतं रस्मिमंतं इव दीप्यमानं तोरणस्थं महोत्साहं महासत्त्वं महाबलं तं महाकपिं ददृशुः॥ महामतिं महावेगं महाकायं महाबलं तं समीक्ष्यैव ते सर्वे सर्वा दिक्षुः तैः तैः ततः ततः भीमैः प्रहरणैः अभिपेतुः व्यवस्थिताः ॥

Then the heroes saw Hanuman, the great Vanara the mighty intelligent being, shining by his own effulgence, rising and shining like a Sun, perched on the archway, Looking at him who is highly intelligent, speedy, mighty and is with huge form, they positioned themselves in with different fearsome weapons here and there in all directions. Then they attacked him.

तस्य पंचायसाः तीक्ष्णाः शिताः पीतमुखाः शराः॥20||
शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः।
स तैः पंचभिराविद्धः शरैः शिरसि वानरः॥21||
उत्पपात नदन् व्योम्नि दिशो दश विनादयन्।

स॥पंच तीक्ष्णाः शिताः पीतमुखाः उत्पलपत्राभाः आयसाः शराः तस्य शिरस्यु दुर्धरेण निपातिताः ॥ सः वानरः तैः पंचभी शरैः शिरसि आविद्धः नदन् दशदिशः विनादयन् व्योम्नि उत्पपात॥

Five arrows made of iron with powerful sharp steel shafts and polished yellow tips by Durdhara pierced his head, they were like shining like petals of lilies (for Hanuman). That Vanara hit by the five of them in the head , making a loud noise in all directions jumped up into the sky.

ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः॥22||
किरण् शतशतैः तीक्ष्‍णैरभिपेदे महाबलः।
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम्॥23||
सृष्टिमंतं पयोदांते पयोदमिव मारुतः।
अर्ध्यमानः ततस्तेन दुर्धरेणानिलात्मजः॥24||
चकार कथनं भूयो व्यवर्थत च वेगवान् ।
सदूरं सहसोत्पत्य दुर्दरस्य रथे हरिः॥25||
निपपात महावेगो विद्र्युद्राशिर्गिराविव।

स॥ ततः महाबलः दुर्धरः सरथः सज्यकार्मुकः तीक्ष्णैः शरशतैः किरण् अभिपेदे॥ स कपिः व्योम्नि शरवर्षिणं तं पयोदांते वृष्टिमंतं पयोदं मारुतः इव वारयामास॥तेन दुर्धरेन अर्ध्यमानः अनिलात्मजः ततः कदनं चकार। वेगवान् भूयः व्यवर्धत॥ स हरिः सहसा उत्पत्य महावेगः गिरौ विद्युत् राशिः इव दुर्धरस्य रथे निपपात॥

Then the powerful Durdhara mounted on his chariot hit him with hundreds of sharp arrows. That Vanara in the sky kept away the shower of arrows like wind keeps clouds from raining showers. Being attacked by Durdhara, the son of wind god fought the battle. Speedily he again increased his size. That Vanara having grown very fast, fell on the chariot like a lightning on a mountain.

ततः स मधिताष्टाश्वं रथं भग्नाक्षकूबरम्॥26||
विहायन्यपतद्भूमौ दुर्धरः त्यक्त जीवितः।

स॥ ततः सः मथिताष्टाश्वं भग्नाक्षकूबरं रथं विहाय त्यक्तजीवितः भूमौ न्यपतत् ॥

Then he ( Durdhara) lost the chariot with eight horses killed and the axle broken, lost his life and fell down on the ground.

तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि॥27||
संजातरोषौ दुर्दर्षावुत्पेततुररिंदमौ।
स ताभ्यां सहसोत्पत्य विष्ठितो विमलेंबरे॥28||
मुद्गराभ्यां महाबाहु र्वक्षस्यभिहितः कपिः।
तयोर्वेगवतोर्वेगं विनिहत्य महाबलः॥29||
निपपात पुनर्भूमौ सुपर्ण समविक्रमः।

स॥ दुर्धर्षौ अरिंदमौ विरूपाक्षयूपाक्षौ भुवि निपातितं तं दृष्ट्वा संजातरोषौ उत्पेतुः॥ विमले अंबरे तिष्ठितः महाबाहुः सः महाकपिः ताभ्यां सहसा उत्पत्य मुद्गराभ्यां वक्षसि अभिहितः॥ महाबलः सुपर्णसम विक्रमः वेगवतोः तयोः वेगं विनिहत्य पुनः भूमौ निपपात॥

The unassailable crushers of enemies Virupaksha and Yupaksha seeing Durdhara fallen to the ground, thus enraged jumped up. The great Vanara with powerful arms having leapt and standing the sky quickly hit both of them on the chest with iron hammers. The mighty one with the speed of Suparna, while resisting again fell on the ground.

स सालवृक्ष मासाद्य त मुत्पाट्य च वानरः॥30||
ता वुभौ राक्षसौ वीरौ जघान पवनात्मजः।
ततः तां स्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना॥31||
अभिपेदे महावेगः प्रसह्या प्रघसो हरिं।
भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान्॥32||

स॥ वानरः सः पवनात्मजः सालवृक्षं आसाद्य तं उत्पाट्य तौ उभौ वीरौ राक्षसौ जघान॥ततः तरस्विना वानरेन तान् त्रीन् हतान् ज्ञात्वा प्रघसः महावेगः प्रसह्या अभिपेदे । वीर्यवान् भासकर्णः च संकृद्धः शूलं आदाय॥

The Vanara, the son of wind god, seized a Sala tree. Uprooting the same, he killed the two heros. Then knowing that the three generals have been killed by the Vanara, Praghasa who moves with great speed violently attacked. The courageous Bhasakarna too enraged brought the spear.

एकतः कपिशार्दूलं यशस्विनमवस्थितम्।
पट्टिसेन शिताग्रेण प्रघसः प्रत्ययोधयत्॥33||
भासकर्णश्च शूलेन राक्षसः कपिसत्तमम्।
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्थ तनूरुहः॥34||
अभवत् वानरः क्रुद्धो बालसूर्य समप्रभः।

स॥ यशस्विनं कपिशार्दूलं एकतः अवस्थितं तं प्रघसः शिताग्रेण पट्टिसेन कपिसत्तमं प्रत्ययोधयत् भासकर्णः राक्षसः शूलेन॥ताभ्यां विक्षतैः गात्रैः असृग्धितनूरुहः सः वानरः बालसूर्यसमप्रभः कृद्धः अभवत्॥

The renowned, tiger among the Vanaras on the one side was attacked by Praghasa with sharp crowbar, Bhasakarna the Rakshasa attacked with a spear. Attacked by both of them with his body smeared with blood the Vanara shining like a rising Sun became angry.

समुत्पाट्य गिरेः शृंगं समृगव्याळपादपम्॥35||
जघान हनुमान्वीरौ राक्षसौ कपिकुंजरः।
ततस्तेष्ववसन्नेषु सेनापतिषु पंचसु॥
बलं च तदवशेषं च नाशयामास वानरः॥।36||
अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान्।
सकपिर्नाशयामास सहस्राक्ष इवासुरान्॥37||

स॥ कपिकुंजरः वीरः हनुमान् समृगव्यालपादपम् गिरे शृंगं समुत्पाट्य राक्षसौ जघान॥स॥ ततः तेषु पंचसु सेनापतिषु अवसन्नेषु वानरः तत् अवशेषं बलं नाशयामास॥स॥ स कपिः सहस्राक्षः असुरान् इव अश्वैः अश्वान् गजैः नागान् योधैः योधान् रथैः रथान् नासयामास॥

Hanuman, the best of Vanaras, plucked the peak of a mountain along with all animals and trees, using the same killed both the Rakshasas. After the five generals were killed , the Vanara then started to destroy the rest of the forces. Like Indra destroying the Asuras, the Vanara destroyed the horses with horses, the elephants with elephants, the warriors with warriors, the chariots with chariots.

हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः।
हतैश्च राक्षसैर्भूमीरुद्दमार्गा समंततः॥38||

स॥ हतैः नागैः तुरगैः भग्नाक्षैः महारथैश्च हतैः राक्षसः भूमिः समन्ततः रुद्धमार्गा॥

With dead elephants, horse, broken chariots, and the dead Rakshasas the whole ground was filled up.

ततः कपिस्तान् ध्वजिनीपतीन् रणे
निहत्य वीरान् सबलान् सवाहनान्।
समीक्ष्य वीरः परिगृह्य तोरणं
कृतक्षणः काल इव प्रजाक्षये॥39||

स॥ ततः वीरः कपिः वीरान् सबलान् स वाहनान् तान् ध्वजिनिपतीन् रणे निहत्य समीक्ष तोरनं परिगृह्य प्रजाक्षये कालः इव कृतक्षणः॥

Then the hero Vanara having killed the generals along with their forces and vehicles and reviewing the same went back to the archway much like the Time bent on destroying the humanity.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे षट्चत्त्वारिंशस्सर्गः ॥

Thus ends Sarga forty six of Sundarakanda of Ramayana the first poem ever composed in Sanskrit by the first poet sage Valmiki.

||om tat sat||