||Sundarakanda ||

|| Sarga 47||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ सप्तचत्त्वारिंशस्सर्गः॥

सेनापतीन् पंच स तु प्रमापितान् हनुमता सानुचरान् सवाहनान्।
समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमाक्षताग्रतः॥1||

स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान् कांचन चित्रकार्मुकः।
समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः॥2||

ततो महद्बालदिवाकरप्रभम् प्रतप्त जांबूनदजालसंततम्।
रथं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैरृतर्षभः॥3||

ततस्तपः संग्रह संचयार्जितम् प्रतप्त जांबूनदजाल शोभितम्।
पताकिनं रत्नविभूषितध्वजम् मनोजवाष्टाश्ववरैः सुयोजितम्॥4||

सुरासुराधृष्य मसंगचारिणं रविप्रभं व्योमचरं समाहितम्।
सतूणमष्टासिनिबद्धबंधुरम् यथाक्रमावेशित शक्तितोमरम्॥5||

विराजमानं प्रतिपूर्ण वस्तुना सहेमदाम्ना शशिसूर्यवर्चसा।
दिवाकराभं रथमास्थितः ततः स निर्जगामामरतुल्यविक्रमः॥6||

स पूरयन् खं महीं च साचलाम् तुरंगमातंग महारथस्वनैः।
बलैः स्समीतैः स हि तोरणस्थितम् समर्थ मासीनमुपागमत् कपिम्॥7||

स तं समासाद्य हरिं हरीक्षणो युगांतकालाग्निमिव प्रजाक्षये।
अवस्थितं विस्मितजातसंभ्रमः समैक्षताक्षो बहुमानचक्षुसा॥8||

स तस्यवेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः।
विचारयन् स्वं च बलं महाबलो हिमक्षये सूर्य इवाsभिवर्धते॥9||

स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिर स्थितः संयति दुर्निवारणम्।
समाहितात्मा हनुमंतमाहवे प्रचोदयामास शरैस्त्रिभिश्शितैः॥10||

ततः कपिं तं प्रसमीक्ष्य गर्वितम् जितश्रमं शत्रुपराजयोर्जितम्।
अवैक्षताक्षः समुदीर्णमानसः स बाणपाणिः प्रगृहीतकार्मुकः॥11||

स हेम निष्कांगद चारुकुंडलः समाससादाsशु पराक्रमः कपिम्।
तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि संभ्रमप्रदः॥12||

ररास भूमिर्नतताप भानुमान् ववौ न वायुः प्रचचाल चाचलः।
कपेः कुमारस्य च वीक्ष्य संयुगम् ननाद च द्यौरुदधिश्च चुक्षुभे॥13||

ततः सवीरः सुमुखान् पतत्रिणः सुवर्णपुंखान् सविषा निवोरगान्।
समाधिसंयोग विमोक्षतत्त्ववित् शरानथत्रीन् कपिमूर्ध्नपातयत्॥14||

स तैः शरैर्मूर्थ्नि समं निपातितैः क्षरन्नसृद्दिग्ध विवृत्तलोचनः।
नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः॥15||

ततः स पिंगाधिपमंत्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे।
उदग्र चित्रायुध चित्रकार्मुकम् जहर्ष चापूर्य चाहवोन्मुखः॥16||

स मंदराग्रस्थमिवांशुमालिको विवृद्धकोपा बलवीर्यसंयुतः।
कुमारमक्षं सबलं स वाहनम् ददाह नेत्राग्नि मरीचिभिस्तदा॥17||

ततस्स बाणासन चित्रकार्मुकः शर प्रवर्षो युधि राक्षसांबुदः।
शरान् मुमोचाशु हरीश्वराचले वलाहको वृष्टि मिवाsचलोत्तमे॥18||

ततः कपिस्तं रणचंडविक्रमम् विरुद्धतेजो बलवीर्यसंयुतम्।
कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षात् घनतुल्यविक्रमः॥19||

स बालबावाद्युधि वीर्यदर्पितः प्रवृत्तमन्युः क्षतजोपमेक्षणः।
समाससादाप्रतिमं कपिं रणे गजो महाकूपमिवावृतं तृणैः॥20||

स तेन बाणैः प्रसभं निपातितैः चकार नादं घननादनिस्स्वनः।
समुत्पपाताशु नभस्समारुति र्भुजोरुविक्षेपण घोरदर्शनः॥21||

समुत्पतंतं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान् ।
रथी रथिश्रेष्ठतमः किरन् शरैः पयोधरः शैलमिवाश्म वृष्टिभिः॥22||

स तान् शरां स्तस्य हरिर्विमोक्षयन् चचार वीरः पथि वायु सेविते।
शरांतरे मारुतवद्विनिष्पतन् मनोजनः संयति चंडविक्रमः॥23||

त मात्त बाणासन माहवोन्मुखं ख मास्तृणंतं निशिखैः शरोत्तमैः।
अवैक्षताक्षं बहुमान चक्षुसा जगाम चिंतां च स मारुतात्मजः॥24||

ततः शरैर्भिन्नभुजांतरः कपिः कुमारवीरेण महत्मना नदन्।
महाभुजः कर्मविशेषतत्त्ववित् विचिंतयामास रणे पराक्रमम्॥25||

अबालवद्बालदिवाकर प्रभः करोत्ययं कर्म महान् महाबलः।
न चास्य सर्वाहवकर्मशोभिनः प्रमापने मे मतिरत्र जायते॥26||

अयं महात्मा च महांश्चवीर्यत स्समाहितश्चातिसहश्च संयुगे।
असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः॥27||

पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखाग्रतः स्थितः।
पराक्रमो ह्यस्य मनांसि कंपयेत् सुरासुराणामपि शीघ्रगामिनः॥28||

न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्यरणेविवर्धते।
प्रमापणं त्वेव ममाद्य रोचते न वर्धमानोग्निरुपेक्षितुं क्षमः॥29||

इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान् ।
चकारवेगं तु महाबलः तदा मतिं च चक्रेsस्य वधे महाकपिः॥30||

स तस्य ता नष्टहयान् महाजवान् समाहितान् भारसहान् विवर्तने।
जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः॥31||

ततः तलेनाभिहतो महारथः स तस्य पिंगाधिपमंत्रिसत्तमः।
प्रभघ्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरंबरात्॥32||

स तं परित्यज्य महारथो रथं स कार्मुकः खड्गधरः ख मुत्सहन्।
तपोभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम्॥33||

ततः कपिस्तं प्रचरंतमंबरे पतत्रि राजानिलसिद्धसेविते।
समेतय तं मारुततुल्य विक्रमः क्रमेण जग्राह सपादयोर्दृढं॥34||

स तं समाविध्य सहश्रसः कपिः महोरगं गृह्य इवांडजेश्वरः।
मुमोच वेगात् पितृतुल्य विक्रमो महीतले संयति वानरोत्तमः॥35||

सभग्न बाहूरुकटीशिरोधरः क्षरन्नसृज्निर्मथितास्थिलोचनः।
स भग्नसंधिः प्रविकीर्णबंधनो हतः क्षितौ वायुसुतेन राक्षसः॥36||

महाकपिर्भूमितले निपीड्य तं चकार रक्षोधिपतेर्महत् भयम्।
महर्षिभिश्चक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः॥37||

सुरेश्चसेंद्रैर्भृशजात विस्मयैः हते कुमारे स कपिर्निरीक्षितः।
निहत्य तं वज्रिसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम्॥38||

तमेव वीरोभि जगाम तोरणं।
कृतः क्षणः काल इवा प्रजाक्षये॥ 39||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे सप्तचत्त्वारिंशस्सर्गः ॥

|| Om tat sat ||