||Sundarakanda ||

|| Sarga 48||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ अष्टचत्त्वारिंशस्सर्गः॥

ततस्सरक्षोधिपतिर्महात्मा
हनूमताक्षे निहते कुमारे।
मनः समाधाय तदेंद्रकल्पं
समादिदेशेंद्रजितं सरोषम्॥1||

त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता।
सुरेषुसेंद्रेषु च दृष्टकर्मा पितामहाराधनसंचितास्त्रः॥2||

तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः।
न शेकुः समरेस्थातुं सुरेश्वर समाश्रिताः॥3||

नकश्चित् त्रिषु लोकेषु संयुगे न गतश्रमः।
भुजवीर्यगुप्तश्च तपसा चाभिरक्षितः।
देशकालविभागज्ञः त्वमेव मतिसत्तमः॥4||

नतेsस्त्वशक्यं समरेषु कर्मणा
न तेsस्त्यकार्यं मतिपूर्व मंत्रणे।
नसोsस्ति कश्चित् त्रिषु संग्रहेषु वै
न वेद यस्तेsस्त्रबलं बलं च ते॥5||

ममानुरूपं तपसो बलं च ते
पराक्रमश्चास्त्रबलं च संयुगे।
न त्वां समासाद्य रणावमर्दे
मनः श्रमं गच्चति निश्चितार्थम्॥6||

निहताः किंकराः सर्वे जंबुमालीच राक्षसः॥7||

अमात्यपुत्त्रा वीराश्च पंचसेनाग्रयायिनः।
बलानि सुसमृद्धानि साश्वनागरथानिच॥8||

सहोदरः ते दयितः कुमारोsक्षश्च सूदितः।
न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन॥9||

इदं हि दृष्ट्वा मतिमन्महद्बलम्
कपेः प्रभावं च पराक्रमं च।
त्वमात्मनश्चापि समीक्ष्य सारं
कुरुष्व वेगं स्वबलानुरूपम्॥10||

बलावमर्दस्त्वयि सन्निकृष्टे
यथागते शाम्यति शांतशत्रौ।
तथा समीक्ष्यात्मबलं परं च
समारभस्व अस्त्रविदां वरिष्ठ ॥11||

न वीर सेना गणशोच्यवंति
न वज्र मादाय विशाल्पसारम्।
न मारुतस्यास्य गतेः प्रमाणम्
न चाग्निकल्पः करणेन हंतुम्॥12||

तमेव मर्थं प्रसमीक्ष्य सम्यक्
स्वकर्मसाम्याद्धि समाहितात्मा।
स्मरं श्च दिव्यं धनुषोsस्त्रवीर्यम्
प्रजाक्षतं कर्म समारभस्व॥13||

न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम्।
इयं च राजधर्माणां क्षत्रस्य च मतिर्मता॥14||

नानाशस्त्रैश्च संग्रामे वैशारद्यमरिंदम।
अवश्य मेव योद्धव्यं काम्यश्च विजयो रणे॥15|

ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुत प्रभावः।
चकार भर्तार मदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः॥16||

तत स्तैः स्वगणैरिष्टैरिंद्रजित् प्रतिपूजितः।
युद्दोद्दतः कृतोत्साहः संग्रामं प्रत्यपद्यत ॥17||

श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेः सुतः।
निर्जगाम महातेजाः समुद्र इव पर्वसु॥18||

स पक्षिराजोपमतुल्यवेगैः व्याळैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः।
रथं समायुक्त मसंगवेगं समारुरोहेंद्रिजिदिंद्र कल्पः॥19||

स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोsस्त्रविदां वरः।
रथेनाभिययौ क्षिप्रं हनुमान्यत्र सोsभवत्॥20||

स तस्य रथ निर्घोषं ज्यास्वनं कार्मुकस्य च।
निशम्य हरिवीरोsसौ संप्रहृष्टतरोsभवत्॥21||

सुमहच्चापमादाय शितशल्यांश्च सायकान्।
हनुंमंत मभिप्रेत्य जगाम रणपंडितः॥22||

तस्मिंस्ततः संयति जातहर्षे
रणाय निर्गच्छति बाणपाणौ।
दिशश्च सर्वाः कलुषाबभूवुः
मृगाश्च रौद्रा बहुदा विनेतुः॥23||

समागताः तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः।
नभः समावृत्य च पक्षि संघा विनेदुरुच्चैः परम प्रहृष्टाः॥24||

अयांतं स रथं तूर्णमिंद्रजितं कपिः।
निननादमहानादं व्यवर्थत च वेगवान्॥25||

इंद्रजित्तु रथं दिव्यमास्थितः चित्रकार्मुकः।
धनुर्विष्फारयामास तटिदूर्जितनिस्स्वनम्॥26||

ततः समेतावति तीक्ष्णवेगौ महाबलौ तौ रणनिर्विशंकौ।
कपिश्च रक्षोधि पतेश्च पुत्त्रः सुरासुरेंद्राविव बद्धवैरौ॥27||

स तस्य वीरस्य महारथस्य धनुष्मतः संयति सम्मतस्य।
शर प्रवेगं व्यहनत्प्रवृद्धः चचार मार्गे पितुरप्रमेये॥28||

ततः शरानायतती‍क्ष्णशल्यान् सुपत्रिणः कांचन चित्र पुंखान्।
मुमोच वीरः परवीरहंता सुसन्नतान् वज्रनिपातवेगान् ॥29||

ततस्तु तत् स्व्यंदननिस्स्वनं च मृदंगभेरीपटहास्वनंच।
निकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्प्रपात॥30||

शरणामंतरेष्वाशु व्यवर्तत महाकपिः।
हरिः तस्याभिलक्ष्यस्य मोघयन् लक्ष्य संग्रहम्॥31||

शरणामग्रतस्तस्य पुनस्समभिवर्तत
प्रसार्य हस्तौ हनुमान् उत्पपातानिलात्मजः॥32||

ता वुभौ वेगसंपन्नौ रणकर्म विशारदौ।
सर्वभूतमनोग्राहि चक्रतुर्युद्ध मुत्तमम्॥33||

हनूमतो न वेद राक्षसोंतरम्
नमारुतिः तस्य महात्मनोंतरम् ।
परस्परं निर्विषहौ बभूवतुः
समेत्य तौ देवसमानविक्रमौ॥34||

ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु।
जगाम चिंतां महतीं महात्मा समाधि संयोग समाहितात्मा॥35||

ततो मतिं राक्षसराजसूनुश्चकार तस्मिन् हरिवीरमुख्ये।
अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम्॥36||

ततः पैतामहं वीर स्सोsस्त्रमस्त्रविदां वरः।
संदधे सुमहातेजाः तं हरिप्रवरं प्रति॥37||

अवध्योयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्।
निजग्राह महाबाहुः मारुतात्मजमिंद्रजित्॥38||

तेन बद्धस्ततोsस्त्रेण राक्षसेन स वानरः।
अभवन्निर्विचेष्टश्च पपात च महीतले॥39||

ततोsथ बुद्ध्वा स तदास्त्रबंधं प्रभोः प्रभावात् विगतात्मवेगः।
पितामहानुग्रहमात्मनश्च विचिंतयामास हरिप्रवीरः ॥40||

ततः स्वायंभुवैर्मंत्रैः ब्रह्मास्त्रमभिमंत्रितम्।
हनुमांश्चिंतयामास वरदानं पितामहत्॥41||

नमेsस्त्रबंधस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात्।
इत्येव मत्वा विहितोsस्त्रबंधो मयाssत्मयोनेरसुवर्तितव्यः॥42||

सवीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च।
विमोक्ष शक्तिं परिचिंतयित्वा पितामहाज्ञामनुवर्तते स्म॥43||

अस्त्रेणापि हि बद्धस्य भयं मम न जायते।
पितमहेंद्राभ्यां रक्षितस्यानिलेनच ॥।44|||

ग्रहणेचापि रक्षोभिर्महान्मे गुणदर्शनः।
राक्षसेंद्रेण संवादः तस्मात् गृह्णंतु मांपरे॥45||

स निश्चितार्थः परवीरहंता समीक्ष्यकारी विनिवृत्तचेष्टः।
परैः प्रसह्याभिगतैर्निगृह्य ननाद तैः तैः परिभर्त्यृमानः॥46||

ततः तं राक्षासा दृष्ट्वा निर्विचेष्टमरिंदमम्।
बबंधुः शणवल्कैश्च द्रुमचीरैश्च संहतैः॥47||

स रोचयामास परैश्चबंधनम् प्रसह्यवीरैरभिनिग्रहं च।
कौतुहलान्मां यदि राक्षसेंद्रो द्रष्टुंव्यवस्येदिति निश्चितार्थः॥48||

स बद्धस्तेन वल्केन विमुक्तोsस्त्रेण वीर्यवान्।
अस्त्रबंधः स चान्यां हि न बंधमनुवर्तते॥49||

अथेंद्रजित्तु द्रुमचीरबद्धं विचर्यवीरः कपिसत्तमं तम्।
विमुक्त मस्त्रेण जगाम चिंताम् नान्येन बद्धो ह्यनुवर्ततेsस्त्रम्॥50||

अहो महत्कार्य कृतं निरर्थकं न राक्षसैर्मंत्रगतिर्विमृष्ठा।
पुनश्च नास्त्रे विहतेsस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे॥51||

अस्त्रेण हनुमान् मुक्तोनात्मानमवबुध्यत।
कृष्यमाणस्तु रक्षोभिः तैश्च बंधैर्निपीडितः॥52||

हन्यमानः ततः क्रूरै राक्षसैः काष्टमुष्टिभिः।
समीपं राक्षसेंद्रस्य प्राकृष्यत स वानरः॥53||

अथेंद्रजित्तं प्रसमीक्ष्यमुक्तं अस्त्रेण बद्धं द्रुमचीरसूत्रैः।
व्यदर्शयत्तत्र महाबलम् तं हरिप्रवीरं सगणाय राज्ञे॥54||

तं मत्तमिव मातंग बद्धं कपिवरोत्तमम्।
राक्षसा राक्षसेंद्राय रावणाय न्यवेदयन्॥55||

कोsयं कस्य कुतोवाsत्र किं कार्यं को व्यपाश्रयः।
इति राक्षसवीराणां तत्र संजज्ञिरे कथाः॥56||

हन्यतां दह्यतां वाsपि भक्ष्यतामिति चापरे।
राक्षसाः तत्र संक्रुद्धाः परस्पर मथाsब्रुवन्॥57||

अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोsधिपपादमूले।
ददर्श राज्ञः परिचारवृद्दान् गृहं महारत्न विभूषितं च॥58||

स ददर्श महातेजा रावणः कपिसत्तमम्।
रक्षोभिर्विकृताकारैः कृष्यमाण मितस्ततः॥59||

राक्षसाधिपतिं चापि ददर्श कपिसत्तमः।
तेजोबलसमायुक्तं तपंतमिव भास्करम्॥60||

सरोषसंवर्तित ताम्रदृष्टिः दशाननः तं कपिमन्ववेक्ष्य।
अथोपविष्यान् कुलशीलवृद्धान् समादिशत्तं प्रतिमंत्रिमुख्यान्॥61||

यथाक्रमं तैः स कपिर्विपृष्टः कार्यार्थमर्थस्य च मूलमादौ।
निवेदयामास हरीश्वरस्य दूतः सकाशात् अहमागतोस्मि॥62||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे अष्टचत्त्वारिंशस्सर्गः ॥

|| Om tat sat ||