||Sundarakanda ||

|| Sarga 49||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ एकोनपंचाशस्सर्गः॥

ततः स कर्मणा तस्य विस्मितो भीमविक्रमः।
हनुमान्रोषताम्राक्षो रक्षोधिपमवैक्षत॥1||

स॥ ततः सः भीमविक्रमः हनुमान् रोषताम्राक्षः तस्य कर्मणा विस्मितः रक्षोधिपं अवैक्षत॥

Then Hanuman who is of fierce valor, astonished by their actions, looked at the king of Rakshasas with eyes red with anger.

भ्राजमानं महार्हेण कांचनेन विराजता।
मुक्तजालावृते नाथ मकुटेन महाद्युतिम्॥2||
वज्रसंयोगसंयुक्तै र्महर्हमणिविग्रहैः।
हैमै राभरणैश्चित्रै र्मनसेव प्रकल्पितैः॥3||
महर्हक्षौमसंवीतं रक्तचंदनरूषितं।
स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः॥4||

स॥ महार्हेन कांचनेन विराजिता अथ मुक्ताजालवृतेनमुकुटेन भ्राजमानं महाद्युतिम्॥वज्रसंयोग संयुक्तैः महार्हमणिविग्रहैः मनसा प्रकल्पितैरिव चित्रैः हेमैः आभरणैः ॥महार्हक्षौम संवीतं रक्तचंदन रूषितं विचित्राभिः विविधाबिश्च भक्तिभिः स्वानुलिप्तं ॥

(the Rakshasa king was ) Of innate splendor, shining with a golden crown covered with glittering strings of pearls. ( He was decked with) with golden ornaments studded with diamonds, adorned with small motifs of precious gems as though designed with imagination. ( He was) Dressed in exquisite silk with many kinds of wonderful ornamental designs , smeared with red sandal paste , smeared with unguents.

विवृतैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः।
दीप्त तीक्ष्णमहादंष्ट्रैः प्रलंबदशनच्छदैः॥5||
शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसं।
नानाव्याळसमाकीर्णैः शिखरैरिव मंदरम्॥6||

स॥ दर्शनीयैः रक्ताक्षैः भीमदर्शनैः दीप्ततीक्ष्णमहादंष्ट्रैः प्रलंबदसनच्छदैः दशभिः शिरोभिः विचित्रैः ननाव्यालसमाकीर्णैः शिखरैः मंदरं इव भ्राजमानं महौजसं वीरं (ददर्श)॥

Heroic powerful and splendid, (he) appeared with blood red eyes, with fearsome looks, with shining sharp teeth with drooping lips, with ten heads, which looked like the peaks of Manadara mountain with different kinds of beasts.

नीलांजनचयप्रख्यं हारेणोरसि राजता।
पूर्ण चंद्राभवक्त्रेन सबलाकमिवांबुदम्॥7||
बाहुभिर्बद्धकेयूरैः चंदनोत्तमरूषितैः।
भ्राजमानांगदैः पीनैः पंचशीर्षैरिवोरगैः॥8||

स॥नीलांजनचयप्रख्यं उरसि राजता हारेण पूर्णचंद्राभव वक्त्रेण बलाकं अंबुदं इव ॥बद्धकेयूरैः चंदनोत्तमरुषितैः भ्राजमानांगदैः पीनैः पंचशीर्षैः उरगैरिव बहुभिः ॥

Like a black mountain of collyrium with a face like that of full moon, illuminated by the necklace on the chest which looked like cranes around a cloud. Smeared with best sandal paste , wearing armlets and shining bracelets, the stout arms looked like five headed serpents.

महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते।
उत्तमास्तरणास्तीर्णे सूपविष्टं वरानने॥9||
अलंकृताभिरत्यर्थं प्रमदाभिः समंततः।
वालव्यजनहस्ताभि ररात्समुपसेवितम्॥10||

स॥ रत्नसंयोग संस्कृते चित्रे उत्तमास्तरणास्तीर्णे श्फाटिके महति वरासने सूपविष्टं ॥अत्यर्थं अलंकृताभिः व्यालव्यजनहस्ताभिः प्रमदाभिः समंततः आरात् समुपसेवितं॥

( He was ) well seated on a huge magnificent throne of crystal encrusted with precious stones, which is on a beautiful carpet. Beautiful girls exceedingly well decorated ones , holding whisks in their hands in the vicinity, attended on him.

दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा।
मंत्रिभिर्मंत्रतत्त्वज्ञै र्निकुंभेन च मंत्रिणा॥11||
सुखोपविष्टं रक्षोभिः चतुर्भिः बलदर्पितैः।
कृत्स्नः परिवृतोलोकः चतुर्भिरिवसागरैः॥12||
मंत्रिभिर्मंत्रतत्त्वज्ञै रन्यैश्च शुभबुद्धिभिः।
अन्वास्यमानं रक्षोभिः सुरैरिव सुरेश्वरम्॥13||

स॥ दुर्धरेण प्रहस्तेन रक्षसा महापार्श्वेन मंत्रिणा निकुंभेन मंत्रतत्वज्ञैः मंत्रिभिः बलदर्पितैः चतुर्भिः रक्षोभिः सुखोपविष्टं चतुर्भिः सागरैः परिवृतं कृत्स्नं लोकम् इव॥मंत्र तत्वज्ञैः शुभबंधुभिः मंत्रिभिः अन्यैः रक्षोभिः सुरैः सुरेश्वरं इव अन्वास्यमानं ॥

He was attended by Rakshasas Durdhara Prahasta Mahaparsva Nikumbha, who are the ministers and learned ones. Attended by the four arrogant Rakshasas and comfortably seated he looked like the entire world surrounded by four oceans. Attended by learned ones, intellectuals ministers and other Rakshasas, he was like Indra attended by the gods.

अपश्यत् राक्षपतिं हनुमानतितेजसं।
विष्ठितं मेरुशिखरे सतोयमिव तोयदम्॥14||

स॥ हनुमान् अतितेजसं मेरुशिखरे विष्ठितं सतोयं तोयदं इव राक्षसपतिं अपश्यत् ॥

Hanuman saw the highly splendid, Rakshasa king who appeared like clouds laden with water on the peaks of Meru mountain.

सतैसंपीड्यमानोsपि रक्षोभिर्भीमविक्रमैः।
विस्मयं परमं गत्वा रक्षोधिपमवैक्षत॥15||
भ्राजमानं ततो दृष्ट्वा हनुमान्राक्षसेश्वरम्।
मनसा चिंतयामास तेजसा तस्य मोहिता॥16||

स॥ सः भीमविक्रमैः रक्षोभिः संपीड्यमानोपि परमं विस्मयं गत्वा रक्षोधिपं अवैक्षत॥ ततः हनुमान् भ्राजमानं तस्य तेजसा राक्षसेश्वरं दृष्ट्वा तस्य तेजसा मोहितः मनसा चिंतयामास॥

Though being troubled by the fearsome Rakshasas he ( Hanuman) looked at the Rakshasa king in amazement. Then Hanuman looking at the shining king of Rakshasas , attracted by his splendor, started thinking in his mind.

अहो रूप महोधैर्य महोसत्त्व महोद्युतिः।
अहो राक्षसराजस्य सर्वलक्षण युक्तता॥17||
यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः।
स्या दयं सुरलोकस्य सशक्रस्यापि रक्षिता॥18||

स॥। राक्षसराजस्य रूपं अहो। धैर्यं अहो। सत्त्वं अहो। द्युतिः अहो। सर्वलक्षणयुक्तता अहो॥अयं अधर्मः बलवान् न स्यात् यदि अयं राक्षसेश्वरः सशक्रस्य सुरलोकस्यापि रक्षिता स्यात् ॥

' Oh What form . What courage . What power. What glow. He is endowed with all merits. If he is not unrighteous, the the Rakshasa king could have been the lord of even the world of gods including Indra'.

अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः।
तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः॥19||
अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत्।

स॥ क्रूरैः नृशंसैश्च लोककुत्सितैः अस्यकर्मभिः सामरदानवाः सर्वे लोकाः अस्मात् बिभ्यति हि। अयं कृद्धः जगत् एकार्णवम् कर्तुं उत्सहते हि ।

With his contemptible wicked deeds, all people even the gods and demons are scared of this person. If he is angry he is capable of making the entire world into ocean.

इतिचिंतां बहुविधा मकरोन्मतिमान् कपिः॥
दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः॥20||

स॥ अमितौजसः राक्षसराजस्य प्रभावं दृष्ट्वा मतिमान् हरिः इति बहुविधां चिंतां अकरोत्॥

Thus seeing the power of the brilliant king of Rakshasas intelligent Hanuman entertained many thoughts.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे एकोनपंचाशस्सर्गः ॥

Thus ends Sarga forty nine of Sundarakanda in Ramayana the first poem composed in Sanskrit by the first poet sage Valmiki.

||ఓమ్ తత్ సత్||