||Sundarakanda ||

|| Sarga 5||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ पंचम स्सर्गः

ततस्स मध्यंगत मंशुमंतम् ज्योत्स्नावितानं महदुद्वमंतम्।
ददर्श धीमान्दिवि भानुमंतम् गोष्ठे वृषं मत्तमिव ब्रमंतम्॥1||

लोकस्य पापानि विनाशयंतम् महोदधिं चापि समेधयंतम्।
भूतानि सर्वाणि विराजयंतम् ददर्श शीतांशुमथाभियांतम्॥2||

या भाति लक्श्मी र्भुविमंदरस्था तदा प्रदोषेशु च सागरस्था।
तथैव तोयेषु चपुष्करस्था रराज सा चारुनिशाकरस्था ॥3||

हंसोयथा राजत पंजरस्थः सिंहो यथा मंदरकंदरस्थः।
वीरो यथा गर्वित कुंजरस्थः चंद्रोsपि बभ्राज तथांबरस्थः॥4||

स्थितः ककुद्मानिव तीक्ष्ण शृंगो महाचलश्वेत इवोच्छशृंम्गः।
हस्तीव जांबूनद बद्धशृंगो रराज चंद्रः परिपूर्णशृंगः॥5||

विनष्ट शीतांबुतुषारपंको महाग्रहग्राह विनष्ठ पंकः।
प्रकाश लक्श्माश्रयनिर्मलांको रराज चंद्रो भगवान् शशांकः ॥6||

शिलातलं प्राप्य यथा मृगेंद्रोमहारणं प्राप्य यथा गजेंद्रः।
राज्यं समासाद्य यथा नरेंद्रः तथाप्रकाशो विरराज चंद्रः॥7||

प्रकाश चंद्रोदय नष्ठदोषः प्रवृत्तरक्षः पिसिताशदोषः।
रामाभिरामेरितिचित्तदोषः स्वर्ग प्रकाशो भगवान् प्रदोषः॥8||

तंत्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपयंति नार्यः पतिभिः सुवृत्ता।
नक्तांचरा श्चापि तथा प्रवृत्ता निहर्तु मत्यद्भुतरौद्रवृत्ताः॥9||

मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासन संकुलानि।
वीरश्रियाचापि समाकुलानि ददर्श धीमान् स कपिः कुलानि॥10||

परस्परं चाधिक मक्षिपंति भुजांश्च पीना नधिक्षिपंति।
मत्त प्रलापा नधि विक्षिपंति दृढानि चापानि चविक्षिपंति॥11||

रक्षांसि वक्षांसि च विक्षिपंति गात्राणी कांतासु च विक्षिपंति ।
रूपाणि चित्राणि च विक्षिपंति धृढानि चापानि च विक्षिपंति॥12||

ददर्श कांताश्च समालभंत्यः तथापराः तत्र पुनः स्वपन्त्यः।
सुरूपवक्त्राश्च तथा हसंत्यः क्रुद्धाः पराश्चापि विनिश्र्वसंत्यः॥13||

महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः।
रराज वीरैश्च विनिश्र्वसद्भिः ह्रदोभुजंगैरिव निश्र्वसद्भिः॥14||

बुद्धि प्रधानान् रुचिराभिदानान् संश्रद्धधानान् जगतः प्रधानान्।
नानाविधान् रुचिराभिदानान् ददर्श तस्यां पुरियातुधानान्॥15||

ननंद दृष्ट्वा स च तान् सुरूपान् नानागुणानात्मगुणानुरूपान् ।
विद्योतमानान् स तदानुरूपान् ददर्श कांश्चिच्चपुनर्विरूपान्॥16||

ततो वरार्हाः सुविशुद्धभावाः तेषां प्रियः तत्र महानुभावाः।
प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः॥17||

श्रियाज्वलंती स्त्रपयोप गुढा यथा विहंगाः कुशुमोपगूढाः।
ददर्श काश्चित्प्रमदोपगूढाः यथा विहंगाः कुसुमोपगूढाः ॥18||

अन्याः पुनर्हत्म्यतलोपविष्टास्तत्र प्रियांकेषु सुखोपविष्टाः ।
भर्तुः प्रिया धर्म परा निविष्टा ददर्श धीमान्मदनाभि विष्टाः॥19||

अपावृताः कांचनराजिवर्णाः काश्चित्परार्थ्याः तपनीयवर्णाः।
पुनश्च काश्चिच्चशलक्ष्मवर्णाः कांत प्रहीणा रुचिरांगवर्णाः॥20||

ततः प्रियान्प्राप्य मनोभिरामाः सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः।
गृहेषु हृष्टाः परमाभिरामाः हरिप्रवीरः स ददर्श रामाः॥21||

चंद्रप्रकाशश्च हि वक्त्रमालाः वक्राक्षिपक्ष्माश्च सुनेत्रमालाः।
विभूषणानांच ददर्श मालाः शतह्रदानामिव चारुमालाः॥22||

नत्वेव सीतां परमाभिजाताम् पथिस्थिते राजकुले प्रजाताम्।
लतां प्रपुल्लामिव साधुजाताम् ददर्श तन्वीं मनसाभिजाताम्॥23||

सनातने वर्त्मनि सन्निविष्टाम् रामेक्षणां तां मदनाभिविष्टाम्।
भर्तुर्मनः श्रीमदनुप्रविष्टाम् स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम्॥24||

उष्णार्दितां सानुसृतास्रकंठीं पुरा वरार्होत्तम निष्ककंठीम्।
सुजातपक्ष्मामभिरक्तकंठीम् वने प्रवृत्तामिव नीलकंठीम्॥25||

अव्यक्त रेखामिव चंद्र रेखाम् पांसुप्रदिग्धा मिव हेमरेखाम्।
क्षतप्ररूढा मिव बाणरेखाम् वायुप्रभिन्नामिव मेघ रेखाम्॥26||

सीतामपस्यन् मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य।
बभूव दुःखाभिहतः शिरस्य प्लवंगमो मंद इवा चिरस्य ॥27||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे पंचमस्सर्गः॥

|| Om tat sat ||