||Sundarakanda ||

|| Sarga 50||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ पंचाशस्सर्गः॥

तमुद्वीक्ष्य महाबाहुः पिंगाक्षं पुरतः स्थितम्।
कोपेन महताssविष्टो रावणो लोकरावणः॥1||

शंकाहृतात्मा दध्यौ स कपींद्रं तेजसा वृतम्।
किम् एष भगवान् नंदी भवेत् साक्षात् इहागतः॥2||

येनशप्तोsस्मि कैलासे मया संचालिता पुरा।
सोsयं वानरमूर्तिः स्यात् किंसिद्बाणोsपिवाsसुरः॥3||

स राजा रोषताम्राक्षः प्रहस्तं मंत्रिसत्तमम्।
कालयुक्त मिवा चेदं वचो विपुल मर्थवत् ॥4||

दुरात्मा पृच्छ्यतामेष कुतः किं वाsस्य कारणम्।
वनभंगे च कोस्यार्थो राक्षसीनां च तर्जने॥5||

मत्पुरी मप्रधृष्यां वाssगमने किं प्रयोजनम्।
अयोधने वा किं कार्यं पृच्छ्यता मेष दुर्मतिः॥6||

रावणस्य वचश्रुत्वा प्रहस्तो वाक्यमब्रवीत् ।
समाश्वसिहि भद्रं ते न भीः कर्या त्वयाकपे॥7||

यदि तावत् त्वं इंद्रेण प्रेषितो रावणालयम्।
तत् त्वमाख्याहि माभूत्ते भयं वानर मोक्ष्यसे॥8||

यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च।
चार रूप मिदं कृत्वाप्रविष्टो नः पुरीमिमाम्॥9||

विष्णुना प्रेषितोपि वा दूतो विजयकांक्षिणा।
न हि ते वानरं तेजो रूपमात्रं तु वानरम्॥10||

तत्त्वतः कथयस्वाद्यततो वानर मोक्ष्यसे।
अनृतं वदतश्चापि दुर्लभं तव जीवितम्॥11||

अथवा यन्निमित्तं ते प्रवेशो रावणालये।
एवमुक्तो हरिश्रेष्ठः तदा रक्षोगणेश्वरम्॥12||

अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा।
धनदेन न मेशख्यं विष्णुना नास्मि चोदितः॥13||

जातिरेव मम त्वेषा वानरोsह मिहागतः।
दर्शने राक्षसेंद्रस्य दुर्लभे तदिदं मया॥14||

वनं राक्षस राजस्य दर्शनार्थे विनाशितं।
ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकांक्षिणः॥15||

रक्षणार्थं तु देहस्य प्रतियुद्धामयारणे।
अस्त्रपाशै र्नशक्योsहं बद्धुं देवासुरैरपि॥16||

पितामहा देव वरो ममाप्येष्योsभ्युपागतः।
राजानं द्रष्टुकामेन मयास्त्र मनुवर्तितम्॥17||

विमुक्तो ह्यह मस्त्रेण राक्षसैस्त्वभिपीडितः।
केनचिद्राजकार्येण संप्राप्तोsस्मि तवान्तिकम्॥18||

दूतोहमिति विज्ञेयो राघव स्यामितौ जसः।
श्रूयतां चापि वचनं मम पथ्य मिदं प्रभो॥19||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे पंचाशस्सर्गः ॥


|| Om tat sat ||