||Sundarakanda ||

|| Sarga 50||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ पंचाशस्सर्गः॥

तमुद्वीक्ष्य महाबाहुः पिंगाक्षं पुरतः स्थितम्।
कोपेन महताssविष्टो रावणो लोकरावणः॥1||
शंकाहृतात्मा दध्यौ स कपींद्रं तेजसा वृतम्।

स॥ महाबाहुः लोकरावणः सः रावणः पुरतः स्थितं महाबाहुं पिंगाक्षं महता कोपेन आविष्टः उद्दीक्ष्य॥

Mighty armed Ravana who torments the whole world, looking at the tawny eyed one surrounded with brilliance, overpowered with great anger thought over with doubt sin his heart.

किम् एष भगवान् नंदी भवेत् साक्षात् इहागतः॥2||
येनशप्तोsस्मि कैलासे मया संचालिता पुरा।
सोsयं वानरमूर्तिः स्यात् किंसिद्बाणोsपिवाsसुरः॥3||

स॥ एषः पुरा मया कैलासे संचालिते येन शप्तः अस्मि भगवान् साक्षात् इह आगतः नंदी भवेत् किं? । सः अयं वानरमूर्तिः महासुरः बाणः स्यात् किंस्वित् ॥

' Earlier when the Kailasa was shaken by me by whom I was cursed, could he be that lord Nandi who personally came here? Could he the great Asura Bana in Vanara form?

स राजा रोषताम्राक्षः प्रहस्तं मंत्रिसत्तमम्।
कालयुक्त मिवा चेदं वचो विपुल मर्थवत् ॥4||

स॥ सः राजा रोषताम्राक्षः मंत्रिसत्तमं प्रहस्तं कालयुक्तं अर्थवित् अविपुलम् इदं वचः वचः॥

That king with eyes red with anger , asked the best of ministers Prahasta with brief profound timely words.

दुरात्मा पृच्छ्यतामेष कुतः किं वाsस्य कारणम्।
वनभंगे च कोस्यार्थो राक्षसीनां च तर्जने॥5||
मत्पुरी मप्रधृष्यां वाssगमने किं प्रयोजनम्।
अयोधने वा किं कार्यं पृच्छ्यता मेष दुर्मतिः॥6||

स॥ एष दुरात्मा पृच्छतां कुतः अत्र ।किं कारणं वनभंगे च राक्षसीनां तर्जने च । अस्य अर्थः कः।एषः दुर्मतिः पृच्छताम् अप्रधृष्यां मत्पुरीं आगमने किं प्रयोजनम्। अयोधने वा किं कार्यं।

' Ask this wicked one from where did he come here. For what reason the grove was destroyed and Rakshasis threatened. What is the meaning of this. Ask this wicked one what is the use of his coming here to my city which is difficult to access. Why did he wage war'.

रावणस्य वचश्रुत्वा प्रहस्तो वाक्यमब्रवीत् ।
समाश्वसिहि भद्रं ते न भीः कर्या त्वयाकपे॥7||
यदि तावत् त्वं इंद्रेण प्रेषितो रावणालयम्।
तत् त्वमाख्याहि माभूत्ते भयं वानर मोक्ष्यसे॥8||

स॥ रावणस्य वचः श्रुत्वा प्रहस्तः वाक्यं अब्रवीत् । हे कपे भद्रं ते ।त्वया भीः न कार्या ।समाश्वसिहि॥वानर त्वं इंद्रेण रावणालयं प्रेषितः यदि तावत् तत् त्वं आख्याहि । भयं माभूत् । मोक्ष्यसे।

Hearing those words of Ravana Prahasta spoke these words." Oh Monkey feel safe. You need not be afraid. Be relaxed. Oh Vanara if you were sent by Indra to this place of Ravana that you tell us. Do not be afraid. You will be released".

यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च।
चार रूप मिदं कृत्वाप्रविष्टो नः पुरीमिमाम्॥9||
विष्णुना प्रेषितोपि वा दूतो विजयकांक्षिणा।

स॥ इदं चाररूपम् कृत्वा नः इमां पुरीं प्रविष्टः त्वं वैश्रवणस्य यमस्य वरुणस्य च विजयकांक्षिणा विष्णुना दूतः प्रेषितः वा अपि॥

" In this spies form you entered this our city. Were you sent by Vaisravana or Yama or Varuna. Or Vishnu desirous of victory sent you as messenger".

न हि ते वानरं तेजो रूपमात्रं तु वानरम्॥10||
तत्त्वतः कथयस्वाद्यततो वानर मोक्ष्यसे।
अनृतं वदतश्चापि दुर्लभं तव जीवितम्॥11||
अथवा यन्निमित्तं ते प्रवेशो रावणालये।

स॥वानरः ते रूपमात्रं तु । तेजः वानरः न हि । अद्य तत्त्वतः कथयस्व । ततः मोक्ष्यसे॥तव अनृतं वदतः जीवितं दुर्लभं। अथवा रावणालये ते प्रवेशः यन्निमित्तः॥

" You are Vanara by form only. By brilliance you are not Vanara. Today tell the truth. Then you will be released. If you tell untruth it will be difficult to live. For what reason did you enter the palace of Ravana".

एवमुक्तो हरिश्रेष्ठः तदा रक्षोगणेश्वरम्॥12||
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा।
धनदेन न मेशख्यं विष्णुना नास्मि चोदितः॥13||
जातिरेव मम त्वेषा वानरोsह मिहागतः।

स॥ एवं उक्तः हरिश्रेष्ठः तदा रावणेश्वरं अब्रवीत् । शक्रस्य यमस्य वरुणस्य न अस्मि । मे धनदेन सख्यं न। विष्णुना चोदितः न । एषा मम जातिरेव । अहं वानरः इह आगतः॥

Thus questioned , the best of Vanaras spoke to Ravana." I am not from Sakra or Yama or Varuna. I am not friend of Kubera. I was not sent by Vishnu. I am a Vanara who came here".

दर्शने राक्षसेंद्रस्य दुर्लभे तदिदं मया॥14||
वनं राक्षस राजस्य दर्शनार्थे विनाशितं।
ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकांक्षिणः॥15||
रक्षणार्थं तु देहस्य प्रतियुद्धामयारणे।
अस्त्रपाशै र्नशक्योsहं बद्धुं देवासुरैरपि॥16||
पितामहा देव वरो ममाप्येष्योsभ्युपागतः।

स॥ राक्षसेंद्रस्य दर्शने दुर्लभे मया तत् इदं वनं राक्षसराजस्य दर्शनार्थे विनाशितं ॥ततः बलिनः ते राक्षसाः युद्धकांक्षिणः प्राप्ताः देहस्य रक्षनार्थं तु मया रने प्रतियुद्धाः॥अहं देवासुरैरपि अस्त्रपाशैः बद्धं न शक्यः । एषः वरः पितामहादेव अभ्युपागतः॥

" To get to the presence of the king of Rakshasas is difficult. I have destroyed the grove to see the king. Then the powerful Rakshasas desirous of war came. To protect my body I fought back. I cannot be captured by Devas or Asuras by any weapons or ropes.This is a boon I have from the grand father Brahma".

राजानं द्रष्टुकामेन मयास्त्र मनुवर्तितम्॥17||
विमुक्तो ह्यह मस्त्रेण राक्षसैस्त्वभिपीडितः।
केनचिद्राजकार्येण संप्राप्तोsस्मि तवान्तिकम्॥18||

स॥ राजानं द्रष्टुकामेन मया अस्त्रं अनुवर्तितं । राक्षसैः अभिपीडितः तु अहं अस्त्रेण विमुक्तो हि । केनाचित् राजकार्येण तव अन्तिकं संप्राप्तः अस्मि॥

"To see the king I have obeyed the Astra. Bound by the Rakshasas I was freed by the Astra. For some work related to the king I have come to your presence".

दूतोहमिति विज्ञेयो राघव स्यामितौ जसः।
श्रूयतां चापि वचनं मम पथ्य मिदं प्रभो॥19||

स॥ अहं अमित तेजसः राघवस्य दूतः इति विज्ञेयः ।प्रभो इदं मम पथ्यं वचनं श्रूयतां चापि॥

" Know this that I am the messenger of the highly powerful Raghava. Oh King Please hear these good words from me".
.
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे पंचाशस्सर्गः ॥

Thus ends the Sarga fifty of Sndarakanda in Ramayana the first poem composed in Sanskrit by the first poet sage Valmiki.

||ओम् तत् सत्||