||Sundarakanda ||

|| Sarga 51||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ एकपंचाशस्सर्गः॥

तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः।
वाक्य मर्थवदव्यग्रः तं उवाच दशाननम्॥1||

स॥ सत्त्ववान् हरिसत्तमः महासत्त्वं तं दशाननम् अव्यग्रः अर्थवत् वाक्यं तं उवाच॥

Courageous Hanuman looking at the very powerful ten-headed one spoke to him slowly and with meaningful words.

अहं सुग्रीवसन्देशात् इह प्राप्तः तवालयम्।
राक्षसेंद्र हरीशस्त्वां भ्राता कुशलमब्रवीत्॥2||
भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः।
धर्मार्थोपहितं वाक्य मिहचामुत्र च क्षमम्॥3||

स॥ राक्षसेंद्र अहं सुग्रीव संदेशात् इह तव आलयं प्राप्तः। हरीशः भ्राता त्वां कुशलं अब्रवीत्॥भ्रातुः महात्मनः सुग्रीवस्य समादेशं इह च अमुत्र च दर्मार्थ उपहित वाक्यं क्षमम् शृणु ।

' I have come here to your palace with a message from Sugriva. The King of Vanaras who is like a brother asks about your welfare. You may hear the message of the great self, your brother which is pertinent to this world and the other world too , and is consistent with righteousness and propriety, and is beneficial too.

राजा दशरथो नाम रथकुज्ञरवाजिमाम्।
पितेव बंधुर्लोकस्य सुरेश्वर समद्युतिः॥4||
ज्येष्ठः तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः।
पितुर्निर्देशान्निष्क्रांतः प्रविष्ठो दंडकावनम्॥5||
लक्ष्मणेन सहभ्रात्रा सीताया चापि भार्यया।
रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः॥6||

स॥ रथकुंजिरवाजिमान् बंधुः लोकस्य पितेव सुरेश्वरद्युतिः दशरथः नाम राजा॥तस्य ज्येष्ठ पुत्रः प्रियकरः प्रभुः रामः नाम महातेजा धर्म्यं पम्थानमाश्रितः पितुः निर्देशात् निष्क्रांतः । लक्ष्मनेन सहभ्राता भार्यया सीता च अपि प्रविष्ठः दंडकावनम् ॥

The king named Dasaratha who is richly endowed with chariots, horses and elephants, is a friend of this world, equal to Indra in splendor. His very dear eldest son, the lord by the name Rama is highly effulgent one. He is righteous, followed a path on the orders of his father and went in exile. He entered Danadaka forest with his brother Lakshmana and his wife Sita too.

तस्य भार्या वने नष्टा सीता पतिमनुव्रता।
वैदेहस्य सुता राज्ञो जनकस्य महात्मनः॥7||
समार्गमाणस्तां देवीं राजपुत्त्रः सहानुजः।
ऋष्यमूकमनुप्राप्तः सुग्रीवेण समागतः॥8||
तस्य तेन प्रतिज्ञातं सीतायां परिमार्गणम्।
सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम्॥9||

स॥ सीता महात्मनः राज्ञो वैदेहस्य जनकस्य सुता सीता पतिव्रता तस्य भार्या वने नष्टा ॥तां देवीं मार्गमाणः सः राजपुत्रः अनुजः सह ऋष्यमूकं अनुप्राप्तः सुग्रीवेण समागतः॥तेन तस्य सीतायां परिमार्गणं प्रतिज्ञातं। रामेण सुग्रीवस्या अपि हरिराज्यं निवेदितुं ( प्रतिज्ञातं)॥

His wife Sita, a pious one, the daughter of the great self, King of Videha , Janaka, is lost in the forest. While searching for her, the prince along with his brother reached Rishyamuka and met with Sugriva, Searching for Sita has been promised by him (Sugriva). Securing the kingdom of Vanaras was promised by Rama.

ततः तेन मृथे हत्वा राजपुत्त्रेण वालिनम्।
सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः॥10||
त्वया विज्ञातपूर्वश्चवाली वानरपुंगवः ।
रामेण निहत सज्ञ्ख्येशरेणैकेन वानरः॥11||
स सीता मार्गमाणे व्यग्रः सुग्रीवसत्यसंगरः।
हरीन् संप्रेषयामास दिशः सर्वा हरीश्वरः॥12||

स॥ ततः तेन राजपुत्रेण वालिनं मृथे हत्वा सुग्रीवः हर्यृ क्षाणां राज्ये गणेश्वरः स्थापितः॥वाली वानरपुंगवः त्वया विज्ञातपूर्वः च । वानरः रामेण संख्ये एकेन शरेन निहतः॥सुग्रीवः सत्य संगरः हरीश्वरः स सीता मार्गमाणे व्यग्रः दिशः सर्वान् हरीन् संप्रेषयामास ॥

Then the prince killing Vali in a battle , made Sugriva as the leader of the the kingdom of Vanaras. Vali, the best of Vanaras is known to you earlier. He was killed with one arrow by Rama in the war. Sugriva, the king of Vanaras who battles for truth, anxious for searching for Sita sent Vanaras in all directions.

तां हरीणां सहस्राणि शतानि नियुतानि च।
दिक्षु सर्वासु मार्गन्ते ह्यथश्चोपरिचाम्बरे॥13||
वैनतेयसमाः केचित्केचित् तत्रानिलोपमाः।
असंगतयः शीघ्रा हरिवीरा महाबलाः॥14||

स॥ हरीणां सहस्राणि शतानि नियुतानि च ताम् सर्वासु दिक्षु अथश्च उपरि अंबरे च मार्गंते॥हरिवीराः महाबलाः असंगतयः शीघ्राः केचित् वैनतेयसमाः केचित् अनिलोपमाः।

Thousands of Vanaras are deployed for searching for her in all directions, in the skies and in the underworld too. Vanaras, swift footed powerful , some like Garuda, some like like wind god, went without touching the ground.

अहं तु हनुमान्नाम मारुतस्य औरसस्सुतः।
सीतायास्तु कृते तूर्णं शतयोजनमायतम्॥15||
समुद्रं लंघयित्वैव तां दिद्रुक्षुरिहागतः।
भ्रमता च मया दृष्टा गृहे ते जनकात्मजा॥16||
तद्भवान् दृष्टधर्मार्थः तपः कृत परिग्रहः।
परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि॥17||

स॥ अहं हनुमान् नाम मारुतस्य औरस सुतः । सीतायास्तु कृते तूर्णम् शतयोजनं आयतं समुद्रं लंघयित्वैव दिदृक्षु रिहागतः ॥भ्रमता मया ते गृहे जनकात्मजा दृष्टा। भवान् दृष्टधर्मार्थः ।तपः कृतपरिग्रहः । तत् महाप्राज्ञ त्वं परदारान् उपरोद्धं न अर्हसि॥

I am called Hanuman , Maruti's own son. Looking for Sita I quickly jumped across the hundred Yojana wide ocean. While moving around I have seen the daughter of Janaka in your palace. You are knower of the truth of righteousness, carried great austerities. Such a very wise person , abducting another's wife is not appropriate for you.

न हि धर्म विरुद्धेषु बह्वापायेषु कर्मसु।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विथाः॥18||
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम्।
शरणामग्रतः स्थातुं शक्तो देवासुरेष्वपि॥19||
न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन।
राघवस्य व्यळीकं यः कृत्वा सुखमवाप्नुयात्॥20||

स॥ भवद्भिः बुद्धिमानः धर्मविरुद्धेषु बह्वापयेषु मूलधातिषु कर्मसु न सज्जंते हि ॥लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् शराणां अग्रतः स्थातुं देवासुरेष्वपि कः शक्तः॥राजन् राघवस्य व्यलीकं कृत्वा सुखं अवाप्नुयात् त्रिषु लोकेषु कश्चन न विद्येत् ॥

Respectable people, wise ones , do not indulge in acts which are unrighteous, which strike at the very root of existence. Even Devas or Indra cannot stop the arrows let loose by Lakshmana or an angered Rama. Oh King ! After displeasing Rama there is none in the three worlds who can experience happiness.

तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्दि च।
बुध्यस्व नरदेवाय जानकी प्रतिदीयताम्॥21||
दृष्ठा हीयं मया देवी लब्दं य दिह दुर्लभम्।
उत्तरं कर्म यत् शेषं निमित्तं तत्र राघवः॥22||

स॥ तत् त्रिकालहितं धर्म्यं अर्थानुबंधि च वाक्यं मन्यस्व। नरदेवाय जानकी प्रतिदीयताम्॥मया इयम् देवी दृष्टाहि यत् दुर्लभं इह लब्धं । उत्तरं यत् कर्म शेषं तत्र राघवः निमित्तं॥

'Think of these words good for all three times, which are righteous, which provide you with material wealth. Oh King ! Janaki may be returned to the king of men. I have seen this lady which is very difficult. The course of further action will be planned by Rama'.

लक्षितेयं मया सीता तथा शोकपरायणा।
गृह्यायां नाभिजानासि पज्ञ्चास्यामिव पन्नगीं॥23||
नेयं जरयितुं शक्या सासुरैरमरैरपि।
विषसंसृष्ट मत्यर्थं भुक्तमन्नमिवौजसा॥24||

स॥ तथा शोकपरायणा इयं सीता मया लक्षिता पंचास्यं पन्नगीं इव यां गृह्य नाभिजानासि॥अत्यर्थं विषसंसृष्टं भुक्तं अन्नं इव इयं सासुरैः अमरैः अपि औजसा जरयितुं न शक्या ॥

This Sita immersed in sorrow , whom I have seen and you have abducted, is like a five headed serpent . Like the food mixed with venom, which is eaten cannot be absorbed by Devas or Asuras , this one too cannot be.

तपः सन्तापलब्दस्ते योsयं धर्मपरिग्रहः।
न स नाशयितुं न्याय आत्म प्राणपरिग्रहः॥25||
अवध्यतां तपोभिर्यां भवान् समनुपश्यति।
आत्मनः सासुरैर्देवैर्हेतुः तत्राप्ययं महान्॥26||

स॥ तपः संतापलब्धः ते यः अयं धर्मपरिग्रहः आत्मप्राणपरिग्रहः सः नाशयितुं न न्याय्यः॥भवान् तपोभिः आत्मनः सासुरैः देवैः याम् अवध्यतां समनुपश्यसि तत्रापि अयं महान् हेतुः ॥

'It is not proper that the accumulated righteousness by the virtue of austerities by you is lost and at the cost of your life. By virtue of penance you think yourself to be impossible to be killed by Asura and Devas , even there, there is a reason for concern'.

सुग्रीवो नहि देवोयं नासुरो न च राक्षसः।
न दानवो न गंधर्वो न यक्षो न च पन्नगः॥27||
तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि।

स॥ सुग्रीवः अयं देवः न। न असुरः । न राक्षसः । न दानवः। न गंधर्वः। न यक्षः । न च पन्नगः।राजन् तस्मात् प्राण परित्राणं कथं करिष्यसि॥

'Sugriva is not a God. Not an Asura. Not a Rakshasa. Not a Danava or Gandharva or Yaksha. Oh King how will you protect your life'.

न तु धर्मोपसंहारं अधर्मफलसंहितम्॥28||
तदेव फलमन्वेति धर्मश्चाधर्मनाशनः।
प्राप्त धर्मफलं तावत् भवता नात्र न संशयः॥29||
फलमस्याप्यधर्म्यस्य क्षिप्रमेव प्रपत्स्यसे।

स॥ धर्मोपसंहारं अधर्मफलसंहितं । न तु तत् फलमेव अन्वेति धर्मश्च अधर्म नाशनः॥भवता धर्मफलं प्राप्तं तावत् अत्र संशयः न । अस्य अधर्मस्य फलं अपि क्षिप्रमेव प्रपत्स्यसे॥

' Exceeding limits of righteousness yields the results of unrighteousness. The result of that is that righteousness is destroyed by the unrighteousness. There is no doubt about the righteous fruits you have obtained. This fruits of this unrighteous conduct will quickly be attained'.

जनस्थानवथं बुद्ध्वा बुद्ध्वा वालिवथं प्रति॥30||
रामसुग्रीव सख्यं च बुद्ध्यस्व हित मात्मनः।
कामं ख ल्वह मप्येकः सवाजिरथकुज्ञराम्॥31||
लंकां नाशयितुं शक्तस्तस्यैष तु न निश्चयः।

स॥ जनस्थानवधं बुद्ध्वा तथा वालिवथं बद्ध्वा रामसुग्रीव सख्यं च आत्मनः जितं बुद्ध्यस्व॥अहं एकः अपि सवाजिरथकुंजराम् लंकां नाशयितुं कामं शक्ताः खलु । एषः तु निश्चयः न॥

'Having known the killings in Janasthana , the killing of Vali ,and the friendship of Rama and Sugriva, know your own benefit too. I alone single-handedly have the capability to destroy the Lanka along will all the horses chariots, and elephants. This is not my resolution'.

रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ॥32||
उत्सादनममित्राणां सीतायैस्तु प्रधर्षिता।
अपकुर्वन् हि रामस्य साक्षादपि पुरंदरः॥33||
न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः।

स॥ रामेण हर्यक्षुगण सन्निधौ यैः सीता प्रधर्षिता अमित्राणां उत्सादनं प्रतिज्ञातं हि ॥रामस्य अपकुर्वन् साक्षात् पुरंदरः अपि सुखं न आप्नुयात् । त्वत् विधः किं पुनः॥

'Rama in the presence of all the Vanara groups took a vow to punish any unfriendly one who troubles Sita. Offending Rama even Purandara himself cannot live in happiness. What to say of you'.

यां सीते त्यभिजानासि येयं तिष्टति ते वशे॥34||
काळरात्रीति तां विद्धि सर्वलंकाविनाशिनीं।
तदलं कालपाशेन सीताविग्रहरूपिणा॥35||
स्वयं स्कन्थावसक्तेन क्षममात्मनि चिन्त्यतां।

स॥ यां सीता इति अभिजानासि या इयम् ते वशे तिष्ठति तां सर्वलंकाविनाशिनीं काळरात्रि इति विद्धि॥तत् सीताविग्रहरूपिणा स्वयं स्कन्धावसक्तेन कालपाशेन अलं । आत्मनि क्षेमम् चिन्त्यताम् ॥

' This one whom you know as Sita who is under your control living here, know her as the destroyer of whole of Lanka , the harbinger of dark night. In the form of Sita you are holding the noose of death on your shoulders. Enough. Think of your own wellbeing'.

सीताया स्तेजसा दग्धां राम कोपप्रपीडिताम्॥36||
दह्यमाना मिमां पश्य पुरीं साट्टप्रतोळिकां।
स्वानि मित्त्राणि मन्त्रींश्च ज्ञातीन् भातॄन् सुतान् हितान्॥37||
भोगान्दारां श्च लंकां च मा विनाशमुपानय।

स॥ तेजसा दग्धाम् रामकोपप्रपीडिताम् दह्यमानां साट्टप्रतोलिकां इमां पुरीं पश्य ॥स्वानि मित्राणि मंत्रींश्च ज्ञातीन् भातॄन् सुतान् हितान् भोगान् दारांश्च लंकां च विनाशं मा उपानय॥

' See the city of Lanka along with its market places and streets being burned by Rama's wrath and Sita's glowing fire. Do not bring about the destruction of your clan, brothers, friends, ministers, sons, wives and all pleasures'.

सत्यं राक्षस राजेंद्र शृणुष्व वचनं मम॥38||
रामदासस्य दूतस्य वानरस्य च विशेषतः।
सर्वान् लोकान् सुसंहृत्य सभूतान् स चराचरान्॥39||
पुनरेव तथा स्रष्ठुं शक्तो रामो महायशाः।

स॥ राक्षस राजेंद्र मम दूतस्य वानरस्य विशेषतः रामदासस्य सत्यं वचनं शृणुस्व ॥रामः महायशः सर्वान् लोकान् सभूतान् स चराचरान् सुसंहृत्य पुनरेव तथा स्रष्टुं शक्तः ॥

' Oh King of Rakshasas ! Hear the truthful words of this messenger a Vanara , specifically the servant of Rama. Illustrious Rama , after destroying all the worlds along with all beings can again recreate as before'.

देवासुर नरेन्द्रेषु यक्षरक्षोगणेषु च॥40||
विध्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च।
सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः॥41||
सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः।
यो रामं प्रतियुध्येत विष्णुतुल्य पराक्रमम्॥42||

स॥ विष्णुतुल्यपराक्रमं रामं प्रतियुध्येत देवासुरनरेंद्रेषु यक्षरक्षोगणेषु च सर्वेषु विद्याधरेषु गन्धर्वेषु उरगेषु च सिद्धेषु च किन्नरेन्द्रेषु सर्वतः पतत्रिषु सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति॥

' Equal to Vishnu in valor , there is none who can combat Rama among all the kings of Devas and Asuras, among the Yakshas and Rakshasas, among all Vidhyadharas , Gandharvas, Uragas and Siddhas or Kinnaras. All over the worlds among birds all beings, in all places at all times there is none.

सर्वलोकेश्वर स्यैवं कृत्वा विप्रिय मुत्तमं।
रामस्य राजसिंहस्य दुर्लभं तव जीवितम्॥43||

स॥ सर्वलोकेश्वरस्य राजसिंहस्य रामस्य एवं उत्तमम् विप्रियं कृत्वा तव जीवितम् दुर्लभं ॥

Having done this great offence to Rama , the Lord of all worlds, lion among princes , your life is difficult to sustain.

देवाश्च दैत्याश्च निशाचरेन्द्र गंधर्वविध्याधरनागयक्षाः।
रामस्य लोकत्रयनायकस्य स्थातुं नशक्ताः समरेषु सर्वे॥44||
ब्रह्मा स्वयंभूश्चतुराननोवा रुद्रस्त्रिणेत्रः त्रिपुरान्तको वा।
इन्द्रो महेन्द्रोः सुरनायको वा त्रातुम् न शक्ता युधि रामवध्यं॥45||

स॥ निशाचरेंद्र देवाश्च दैत्याश्च गन्धर्वविध्याधरनागयक्षाः सर्वे लोकत्रयनायकस्य रामस्य समरेषु स्थातुं न शक्ताः ॥युधि रामवध्यं स्वयम्भूः चतुराननः ब्रह्मा वा त्रिनेत्रः त्रिपुरांतकः रुद्रो वा इंद्रः सुरनायकः महेण्द्रः वा त्रातुं न शक्ताः॥

' Oh the king of night beings ! There is none among Devas Daityas, Gandharvas, Vidhyadharas, Nagas, Yakshas who can stand in the battle against Rams the leader of the three worlds. The self born four headed Brahma or the tree eyed destroyer of Tripura, Rudra or Indra or Mahendra cannot protect in war one whom Rama has decided to kill'.

स सौष्टवो पेत मदीनवादिनः
कपेर्निशम्याप्रतिमोsप्रियं च।
दशाननः कोपविवृत्तलोचनः
समादिशत् तस्य वथं महाकपेः॥46||

स॥ अप्रतिमः सः दशाननः अदीनवादिनः कपेः सौष्टवोपेतं अप्रियं वचः निशम्य कोपविवृतलोचनः तस्य महाकपेः वधं समादिशत् ॥

'The ten headed one who has no equals, hearing the extremely skillful unpleasant words of the Vanara with eyes rolling in anger ordered the killing of the great Vanara'.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे एकपंचाशस्सर्गः ॥

Thus ends the Sarga fifty one of Sundarakanda in Ramayana the first poem composed in Sanskrit by the first poet sage Valmiki.

|| om tat sat||