||Sundarakanda ||

|| Sarga 52||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ द्विपंचाशस्सर्गः॥

तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः।
आज्ञापयत् वधं तस्य रावणः क्रोथमूर्चितः॥1||

वधे तस्य समाज्ञस्ते रावणेन दुरात्मना।
निवेदितवतो दौत्यं नानुमेने विभीषणः॥2||

तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्।
विदित्वा चिंतयामास कार्यं कार्यविधौ स्थितः॥3||

निश्चितार्थः ततः साम्ना पूज्य शत्रुजिदग्रजम्।
उवाच हित मत्यर्थं वाक्यं वाक्य विशारदः॥4||

क्षमस्व रोषं त्यजराक्षसेंद्र
प्रसीदमद्वाक्य मिदं श्रुणुष्व।
वधं न कुर्वंति परावरज्ञाः
दूतस्य संतो वसुधाधिपेन्द्राः॥5||

राजधर्मविरुद्धं च लोकवृत्तैश्च विगर्हितम्।
तव चासदृशं वीर कपे रस्य प्रमापणम्॥6||

धर्मज्ञश्च कृतज्ञश्च राजधर्म विशारदः।
परावरज्ञो भूतानां त्व मेव परमार्थवित्॥7||

गृह्यन्ते यदि रोषेण त्वादृशोsपि विपश्चितः।
ततः शास्त्रविपश्चित्त्वं श्रम एव हि केवलम्॥8||

तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद।
युक्तायुक्तं विनिश्चित्य दूत दण्डो विधीयताम्॥9||

विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः।
रोषेण महताssविष्टो वाक्य मुत्तरमब्रवीत्॥10||

न पापानां वधे पापं विद्यते शत्रुसूदन।
तस्मादेवं वधिष्यामि वानरं पापचारिणम्॥11||

अधर्ममूलं बहुदोषयुक्तं
अनार्यजुष्टं वचनम् निशम्य।
उवाच वाक्यं परमार्थतत्त्वम्
विभीषणो बुद्धिमतां वरिष्ठ॥12|

प्रसीद लंकेश्वर राक्षसेन्द्र
धर्मार्थ युक्तं वचनं श्रुणुष्व।
दूतान् अवध्यान् समयेषु राजन्
सर्वेषु सर्वत्र वदन्ति सन्तः॥13||

असंशयं शत्रुरयं प्रवृद्धः
कृतं ह्यने नाप्रिय मप्रमेयम्।
न दूतवध्यां प्रवदन्ति संतो
दूतस्य दृष्टा बहवो हि दण्डाः॥14||

वैरूप्यमंगेषु कशाभिघातो
मौण्ड्यं तथा लक्षण सन्निपातः।
एतान् हि दूते प्रवदन्ति दण्डान्
वधस्तु दूतस्य न नः श्रुतोsपि॥15||

कथं च धर्मार्थवीनीतबुद्धिः
परावरप्रत्ययनिश्चितार्थः।
भवद्विधः कोपवशे हि तिष्ठत्
कोपन् नियच्छन्ति हि सत्त्ववन्तः॥16||

न धर्मवेदे न च लोकवृत्ते
न शास्त्रबुद्धि ग्रहणेषु चापि।
विद्येत कश्चित्तव वीर तुल्यः
त्वं ह्युत्तमः सर्व सुरासुराणाम्॥17||

न चाप्यस्य कपेर्घाते कंचित्पश्याम्यहं गुणम्।
ते ष्वयं पात्यतां दण्डोयैरयं प्रेषितः कपिः॥18||

साधुर्वायदि वाsसाधुः परैरेष समर्पितः।
ब्रुवन्परार्थं परवान् न दूतो वध मर्हति॥19||

अपिचास्मिन्हते राजन् नान्यं पश्यामि खेचरम्।
इह यः पुनरागच्छेत् परं पारं महोदधेः॥20||

तस्मान्नास्य वधे यत्नः कार्यः परपुरंजयः।
भवान् सेंद्रेषु देवेषु यत्न मास्थातु मर्हति॥21||

अस्मिन्विशिष्टे न हि दूत मन्यं
पश्यामि यस्तौ राजपुत्त्रौ।
युद्धाय युद्धप्रियाय दुर्विनीता
वुद्योजये दीर्घपथावरुद्धौ॥22||

पराक्रमोत्साह मनस्विनां च
सुरासुराणामपि दुर्जयेव।
त्वया मनो नण्दन नैरृतानाम्
युद्धायतिर्नाशयितुं न युक्ता॥23||

हिताश्च शूराश्च समाहिताश्च
कुलेषु जाताश्च महागुणेषु।
मनस्विनः शस्त्रभृतां वरिष्टाः
कोट्यग्रतस्ते सुभृताश्च योधाः॥24||

त देक देशेन बलस्य तावत्
केचित्तवाsदेशकृतोsभियास्तु।
तौ राजपुत्त्रौ विनिगृह्य मूढौ
परेषु ते भावयितुं प्रभावम्॥25||

निशाचरणामधिपोsनुजस्य
विभीषणस्योत्तम वाक्यमिष्टम्।
जग्राह बुद्द्या सुरलोकशत्रु
र्महाबलो राक्षसराजमुख्यः॥25||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे द्विपंचाशस्सर्गः ॥


|| Om tat sat ||