||Sundarakanda ||

|| Sarga 52||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ द्विपंचाशस्सर्गः॥

तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः।
आज्ञापयत् वधं तस्य रावणः क्रोथमूर्चितः॥1||

स॥ रावणः महात्मनः वानरस्य तस्य वचनं श्रुत्वा क्रोधमूर्छितः तस्य वधं आज्ञापयत्॥

Ravana, hearing the words of the great Vanara , overpowered with anger , ordered that he be killed.

वधे तस्य समाज्ञप्ते रावणेन दुरात्मना।
निवेदितवतो दौत्यं नानुमेने विभीषणः॥2||
तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्।
विदित्वा चिंतयामास कार्यं कार्यविधौ स्थितः॥3||
निश्चितार्थः ततः साम्ना पूज्य शत्रुजिदग्रजम्।
उवाच हित मत्यर्थं वाक्यं वाक्य विशारदः॥4||

स॥ दुरात्मना रावणेन निवेदितवतः तस्य वधे समाज्ञप्ते विभीषणः नानु मेने ॥ कार्यविधौ स्थितः तं रक्षोधिपं कृद्धं उपस्थितं तत् कार्यं च विदित्वा कार्यं चिंतयामास॥ततः निश्चितार्थः शत्रुजित् वाक्यविशारदः पूज्यं अग्रजं अत्यर्थं हितं वाक्यं साम्ना उवाच॥

Vibhishana did not agree with the wicked Ravana's order to kill the one who announced himself ( as a messenger). ( Vibhishana) The one who stands by the right course of action, having realized that the Rakshasa king was angry, started thinking about the course of action. Then the winner of enemies skilled in speech having made up his mind, spoke to his reverential elder in meaningful and wholesome manner.

क्षमस्व रोषं त्यजराक्षसेंद्र
प्रसीदमद्वाक्य मिदं श्रुणुष्व।
वधं न कुर्वंति परावरज्ञाः
दूतस्य संतो वसुधाधिपेन्द्राः॥5||
राजधर्मविरुद्धं च लोकवृत्तैश्च विगर्हितम्।
तव चासदृशं वीर कपे रस्य प्रमापणम्॥6||

स॥ राक्षसेंद्र क्षमस्व । रोषं त्यज॥ इदं मद्वाक्यं श्रुणूस्व। वसुधाधिपेंद्राः परावरज्ञाः संतः दूतस्य वधं न कुर्वंति॥वीर कपेः प्रमापणं राजधर्मविरुद्धं च लोक वृत्तैश्च गर्हितं । तव च असदृशं ॥

Oh King of Rakshasas ! Forgive him. Give up your anger. Please hear my words. Rulers of the earth , good men who know what is exalted and what is mean, do not kill a messenger. Oh Mighty one ! Killing this Vanara is against the right conduct of kings and is deprecated in diplomacy. It is unbecoming of you.

धर्मज्ञश्च कृतज्ञश्च राजधर्म विशारदः।
परावरज्ञो भूतानां त्व मेव परमार्थवित्॥7||
गृह्यन्ते यदि रोषेण त्वादृशोsपि विपश्चितः।
ततः शास्त्रविपश्चित्त्वं श्रम एव हि केवलम्॥8||
तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद।
युक्तायुक्तं विनिश्चित्य दूत दण्डो विधीयताम्॥9||

स॥त्वमेव धर्मज्ञः च कृतज्ञः च राजधर्मविशारदः भूतानां परावरज्ञः परमार्थवित् ॥ त्वादृशः विचक्षणः रोषेण गृह्यंते ततः शास्त्रविपश्चित्वं केवलं श्रम एव हि ॥ राक्षसेंद्र शत्रुघ्न दुरासद प्रसीद । तस्मात् युक्तायुक्तं विनिश्चित्य दूतः दण्डः विधीयताम् ॥

' You alone are the knower of Dharma. You have a sense of gratitude. You know the statecraft. You know the right and wrong practices among all beings, and the supreme truth. If a wise one like you is overpowered with anger then the study of scriptures is a fruitless exercise. Oh King ! Oh destroyer of foes ! Oh Unassailable one ! Calm down. Only after carefully considering what is proper and improper then impose the punishment on the messenger".

विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः।
रोषेण महताssविष्टो वाक्य मुत्तरमब्रवीत्॥10||
न पापानां वधे पापं विद्यते शत्रुसूदन।
तस्मादेवं वधिष्यामि वानरं पापचारिणम्॥11||

स॥ राक्षसेश्वरः रावणः विभीषणवचः श्रुत्वा महता रोषेण आविष्टः उत्तरं वाक्यं अब्रवीत्॥शत्रुसूदन पापानां वधे पापं न विद्यते। वानरं पापचारिणं तस्मात् एवं वधिष्यामि॥

The king of Rakshasas Ravana hearing those words of Vibhishana , still overcome with anger replied to him. ' Oh Slayer of foes ! Killing sinners is not a sin. This Vanara is a sinner. So I shall have him killed'.

अधर्ममूलं बहुदोषयुक्तं अनार्यजुष्टं वचनम् निशम्य।
उवाच वाक्यं परमार्थतत्त्वम् विभीषणो बुद्धिमतां वरिष्ठ॥12||
प्रसीद लंकेश्वर राक्षसेन्द्र धर्मार्थ युक्तं वचनं श्रुणुष्व।
दूतान् अवध्यान् समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः॥13||

स॥ विभीषणः बुद्धिमतां वरिष्ठः बहुदोषयुक्तं अधर्ममूलं अनार्य जुष्टं वचनं निशम्य परमार्थतत्वं वचनं उवाच॥राक्षसेंद्र लंकेश्वर प्रसीद। धर्मार्थ युक्तं वचनं श्रुणुस्व। राजन् सन्तः सर्वत्र सर्वेषु वदंति। सर्वेषु समयेषु दूतान् अवध्यान् ॥

Vibhishana foremost among the wise, hearing the unrighteous words which are false and unacceptable to noble souls, spoke words of supreme truth. ' Oh King ! Please calm down. Hear these words of Dharma and Artha. Oh King ! The knowledgeable people every where say this. At all times the messengers are not to be killed'.

असंशयं शत्रुरयं प्रवृद्धः
कृतं ह्यने नाप्रिय मप्रमेयम्।
न दूतवध्यां प्रवदन्ति संतो
दूतस्य दृष्टा बहवो हि दण्डाः॥14||
वैरूप्यमंगेषु कशाभिघातो
मौण्ड्यं तथा लक्षण सन्निपातः।
एतान् हि दूते प्रवदन्ति दण्डान्
वधस्तु दूतस्य न नः श्रुतोsपि॥15||

स॥ अयं शत्रुः प्रवृद्धः अशंसयम् । अनेन अप्रमेयं अप्रियं कृतं हि । सन्तः दूतवध्याम् न प्रवदन्ति । दूतस्य बहवः दण्डाः दृष्टाः हि ॥अंगेषु वैरुध्यं कशाभिघातः मौण्ड्यं तथा लक्षण सन्निपातः एतत् दूते दण्डान् प्रवदंति। दूतस्य वधस्तु श्रुतः नास्ति॥

'Without a doubt this enemy has done a great harm. He has done incomparably unpleasant acts. The knowledgeable people do not talk of killing messengers. There are many punishments seen for the messengers. Deforming their limbs, flogging, shaving the head, similarly disfigurement, these are the punishments prescribed for a messenger. The killing of messenger is not heard'.

कथं च धर्मार्थवीनीतबुद्धिः
परावरप्रत्ययनिश्चितार्थः।
भवद्विधः कोपवशे हि तिष्ठत्
कोपन् नियच्छन्ति हि सत्त्ववन्तः॥16||
न धर्मवेदे न च लोकवृत्ते
न शास्त्रबुद्धि ग्रहणेषु चापि।
विद्येत कश्चित्तव वीर तुल्यः
त्वं ह्युत्तमः सर्व सुरासुराणाम्॥17||

स॥ धर्मार्थ विनीत बुद्धिः परावरप्रत्यय निश्चितार्थः । भवद्विधः कोपवसे कथं तिष्ठेत् । सत्त्ववंतः कोपं नियच्छन्ति हि ॥वीर धर्मवादे तव तुल्यः कश्चित् न । लोकवृत्ते (तव तुल्यः) न। शास्त्रबुद्धि ग्रहणेषुचापि न । त्वं सर्व सुर असुराणां उत्तमः हि॥

' Those well versed in Dharma and Artha they decide about good and bad. Learned ones like you how can you be swayed by anger. Courageous one keep the anger under control. Oh Great warrior there is none to equal you in the discussion of Dharma. None in the conduct of affairs. None in grasping the essence of Sastras. You are the best among all Suras and Asuras'.

शूरेणा वीरेण निशाचरेंद्र सुरासुराणामपि दुर्जयेन।
त्वया प्रगल्भाः सौरदैत्यसंघाः जितास्च युद्धेष्वकृत् नरेंद्राः॥
न चाप्यस्य कपेर्घाते कंचित्पश्याम्यहं गुणम्।
ते ष्वयं पात्यतां दण्डोयैरयं प्रेषितः कपिः॥18||

स॥ निशाचरेंद्र शूरेण वीरेण सुरासुराणां अपि त्वया दुर्जयेन। प्रगल्भाः सुरदैत्य संघाः नरेंद्राः युद्धेषु असकृत् जिताः च॥अस्य कपेः घाते अहं किंचित् गुणं न पश्यामि । अयं दण्डः यैः अयं कपिः प्रेषितः तेषु पात्यतां॥

'Oh Lord of night beings ! You are invincible by the brave , by the courageous, by Suras and Asuras. Hosts of loud mouthed Suras and Daityas have been won over by you repeatedly. I am not seeing any merit in killing this Vanara. This punishment has to be on those by whom he was sent'.

साधुर्वायदि वाsसाधुः परैरेष समर्पितः।
ब्रुवन्परार्थं परवान् न दूतो वध मर्हति॥19||
अपिचास्मिन्हते राजन् नान्यं पश्यामि खेचरम्।
इह यः पुनरागच्छेत् परं पारं महोदधेः॥20||
तस्मान्नास्य वधे यत्नः कार्यः परपुरंजयः।
भवान् सेंद्रेषु देवेषु यत्न मास्थातु मर्हति॥21||

स॥साधुः वा असाधुः यदि एष परैः समर्पितः। परार्थं ब्रुवन् परवान् दूतः वधं न अर्हति॥राजन् अपि च अस्मिन् हते यः महोदधेः परं पारं पुनः इह आगच्छेत् अन्यं खेचरं न पश्यामि॥परपुंजय तस्मात् अस्य वधे यत्नः न कार्यः । भवान् सेन्द्रेषु देवेषु यत्नं अस्थातुं अर्हति॥

' Good or bad he was sent by others. Speaking for others, the messenger does not deserve to be killed. Oh King ! Supposing he is killed , I do not see another creature who can cross the great ocean and come through the skies here. Oh Hero who can conquer citadels of enemies ! So effort in killing him should not be made. You are fit to fight against Devas including Indra '.

अस्मिन्विशिष्टे न हि दूत मन्यं
पश्यामि यस्तौ राजपुत्त्रौ।
युद्धाय युद्धप्रियाय दुर्विनीता
वुद्योजये दीर्घपथावरुद्धौ॥22||
पराक्रमोत्साह मनस्विनां च
सुरासुराणामपि दुर्जयेव।
त्वया मनो नन्दन नैतानाम्
युद्धायतिर्नाशयितुं न युक्ता॥23||

स॥ युधप्रिय अस्मिन् विनष्टे दुर्विनीतौ दीर्घपरावरुद्धौ तौ नरराजपुत्रौ यः युद्धाय उज्योजयेत् अन्यं दूतं न पश्यामि हि ॥नैतानां मनोनन्दन पराक्रमोत्साहमनस्विनां च सुरासुराणां अपि दुर्जयेन त्वया युद्धायतिः नाशयितुं न युक्ता ॥

'Oh Lover of war! If he is slain , I do not see anybody who can incite those two ill mannered princes who are obstructed from reaching this place ( to come here) . Delight of Rakshasas ! Invincible for all those endowed with vigor and valor or ( invincible) even for the Suras and Asuras, it is not proper for you lose a chance for war ( with those two princes)'.

हिताश्च शूराश्च समाहिताश्च
कुलेषु जाताश्च महागुणेषु।
मनस्विनः शस्त्रभृतां वरिष्टाः
कोट्यग्रतस्ते सुभृताश्च योधाः॥24||
त देक देशेन बलस्य तावत्
केचित्तवाsदेशकृतोsभियास्तु।
तौ राजपुत्त्रौ विनिगृह्य मूढौ
परेषु ते भावयितुं प्रभावम्॥25||

स॥ हिताश्च शूराश्च समाहिताश्च महागुणेषु कुलेषु जाताः मनस्विनः शस्त्रभृतां वशिष्टाः सुभृताश्च योधाः कोट्यग्रतः॥तत् तव आदेशकृतः केचित् बलस्य एकदेशेन मूढौ तौ राजपुत्रौ विनिगृह्य ते प्रभावं भावयितुं अभियांतु ॥

'You have well wishers, well established courageous ones, intellectuals born in noted families with good qualities, well paid wielders of weapons, in your presence. By your order let some powerful ones with one part (of the army) march out for war and capture the two princes exhibiting your power among your enemies '.

निशाचरणामधिपोsनुजस्य
विभीषणस्योत्तम वाक्यमिष्टम्।
जग्राह बुद्द्या सुरलोकशत्रु
र्महाबलो राक्षसराजमुख्यः॥26||

स॥ निशाचराणां सुरलोकशत्रुः महाबलः राक्षसराजमुख्यः अनुजस्य विभीषणस्य इष्टं उत्तमवाक्यं बुद्ध्या जग्राह॥

The mighty chief among the Rakshasas, the king of night roamers and enemy of gods accepted the words of excellent advice from Vibhishana.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे द्विपंचाशस्सर्गः ॥

Thus ends Sarga fifty two of Sundarakanda in Ramayana the first poem ever composed in Sanskrit by the first poet sage Valmiki

||ఓమ్ తత్ సత్||