||Sundarakanda ||

|| Sarga 54||( Only Slokas in Devanagari) )

हरिः ओम्


सुंदरकांड.
अथ चतुःपंचाशस्सर्गः॥

वीक्षमाणस्ततो लंकां कपिः कृत मनोरथः।
वर्थमान समुत्साहः कार्यशेषमचिंतयत्॥1||

किन्नु खल्वशिष्ठं मे कर्तव्य मिह सांप्रतम्।
यदेषां रक्षसां भूयः संतापजननं भवेत् ॥2||

वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः।
बलैक देशः क्षपितः शेषं दुर्ग विनाशनम्॥3||

दुर्गेविनाशिते कर्म भवेत्सुखपरिश्रमम्।
अल्पयत्नेन कार्येsस्मिन् ममस्यात् सफलः श्रमः॥4||

योह्ययं मम लांगूले दीप्यते हव्य वाहनः।
अस्य संतर्पणं न्यायं कर्तुमेभिर्गृहोत्तमैः॥5||

ततः प्रदीप्तलांगूलः सविद्युदिव तोयदः।
भवनाग्रेषु लंकाया विचचार महाकपिः॥6||

गृहाद्गृहं राक्षसानां उद्यानानिच वानरः।
वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः॥7||

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्।
अग्निं तत्र स निक्षिप्य श्वसनेन समो बली॥8||

ततोन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥
मुमोच हनुमान् अग्निं कालानलशिखोपमम्॥9||

वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः।
शुकस्य च महातेजाः सारणस्य च धीमतः॥10||

तथा चेन्द्रजितो वेश्म ददाह हरियूथपः।
जम्बुमालेः सुमालेश्च ददाह भवनं ततः॥11||

रस्मिकेतोश्च भवनं सूर्यशत्रोः तथैव च।
ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः॥12||

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः।
विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च॥13||

कराळस्य पिशाचस्य शोणिताक्षस्य चैव हि।
कुंभकर्णस्य भवनं मकराक्षस्य चैव हि॥14||

यज्ञशत्रोश्च भवनं ब्रह्मशत्रोः तथैव च।
नरान्तकस्य कुंभस्य निकुंभस्य दुरात्मनः॥15||

वर्जयित्वा महातेजा विभीषण गृहं प्रति।
क्रममाणः क्रमेणैव ददाह हरिपुंगवः॥16||

तेषु तेषु महार्हेषु भवनेषु महायशाः।
गृहेष्वृद्धिमतां वृद्धिं ददाह महाकपिः॥17||

सर्वेषां समतिक्रम्य राक्षसेंद्रस्य वीर्यवान्।
असदाथ लक्ष्मीवान् रावणस्य निवेशनम्॥18||

ततस्तस्मिन् गृहे मुख्ये नानारत्न विभूषिते।
मेरुमंदर संकाशे सर्वमंगळशोभिते॥19||

प्रदीप्त मग्नि मुत्सृज्य लांगुलाग्रे प्रतिष्टितम्।
ननाद हनुमान् वीरो युगान्त जलदो यथा॥20||

श्वसनेन च संयोगात् अतिवेगो महाबलः।
कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ॥21||

प्रदीप्तमग्निं पवनः तेषु वेश्म स्वचारयत्।
अभूच्छ्वसन संयोगात् अतिवेगो हुताशनः॥22||

तानि कांचनजालानि मुक्तामणिमयानि च।
भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च॥23||

तानि भग्नविमानानि निपेतुर्वसुधातले।
भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये॥24||

संजज्ञे तुमुलः शब्दोराक्षसानां प्रधावतां।
स्वगृह्वस्य परित्राणे भग्नोत्साहोर्जितश्रियाम्॥25||

नूनमेषोsग्नि रायातः कपिरूपेण हा इति।
क्रन्दन्त्यः सहसापेतुः स्तनन्थयधराः स्त्रियः॥26||

काश्चिदग्नि परीतेभ्यो हर्म्येभ्यो मुक्त मूर्थजाः।
पतन्त्यो रेजिरेsभ्रेभ्यः सौदामिन्य इवाम्बरात्॥27||

वज्रविद्रुम वैडूर्य मुक्ता रजत संहितान्।
विचित्रान्भवनान् दातून् स्यन्दमानान् ददर्श ह॥28||

नाग्निः तृप्यति काष्ठानां तृणानां हरियूथपः।
नाग्नेर्नापि विशस्तानां राक्षसानां वसुंधरा॥29||

क्वचित् किंशुकसंकाशाः क्वचिच्छाल्मलिसन्निभाः।
क्वचित्कुंकुमसंकाशाः शिखावह्नेश्चकाशिरे॥30||

हनूमता वेगवता वानरेण महात्मना।
लंकापुरं प्रदग्धं तत् रुद्रेण त्रिपुरं यथा॥31||

ततस्तु लंकापुर पर्वताग्रे समुत्थितो भीमपराक्रमोग्निः।
प्रसार्यचूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः॥32||

युगान्त कालानलतुल्यवेगः समारुतोsग्निर्व्वृधे दिविस्पृक्।
विधूमरश्मिर्भवनेषु सक्तो रक्षः शरीराज्यसमर्पितार्चिः॥33||

आदित्यकोटीसदृशः सुतेजा लंकां समस्तां परिवार्य तिष्टन्।
शब्दैरनैकै रशनिप्ररूढैर्भिन्दन् निवाण्डं प्रबभौ महाग्निः॥34||

तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः।
निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेsभ्राः॥35||

वज्रीमहेंद्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणोsनिलो वा।
रुद्रोsग्निरर्को धनदश्च सोमो न वानरोsयं स्वयमेव कालः॥36||

किंब्राह्मणः सर्व पितामहस्य सर्वस्य धातुश्चतुराननस्य।
इहाsगतो वानर रूपधारी रक्षोपसंहारकरः प्रकोपः॥37||

किं वैष्णवं वा कपिरूपमेत्य रक्षो विनाशाय परं सुतेजः।
अनन्तमव्यक्त मचिन्त्य मेकम् स्वमायया साम्प्रत मागतं वा॥38||

इत्येवमूचुर्भवो विशिष्ठा रक्षोगणास्तत्र समेत्य सर्वे।
सप्राणि संघां सगृहां सवृक्षाम् दग्धां पुरीं तां सहसा समीक्ष्य॥39||

ततस्तु लंका सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा।
सपक्षिसंघा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम्॥40||

हा तात हापुत्त्रक कान्त मित्त्र हा जीवितं भोगयुतं सुपुण्यम्।
रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः॥41||

हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्त योधा।
हनूमतः क्रोध बलाभिभूता बभूव शापोपहतेव लंका॥42||

ससंभ्रमतस्त्रविषण्ण राक्षसाम् समुज्ज्वल ज्ज्वालहुताशनांकिताम्।
ददर्श लंकां हनुमान्महामनाः स्वयंभुकोपोपहता मिवावनिम्॥43||

भुंक्त्वा वनं पादपरत्नसंकुलम् हत्वातु रक्षांसि महान्ति संयुगे।
दग्ध्वा पुरीं तां गृहरत्न मालिनीम् तस्थौ हनुमान् पवनात्मजः कपिः॥44||

त्रिकूटशृंगाग्रतले विचित्रे प्रतिष्टितो वानरराजसिंहः।
प्रदीप्त लांगूलकृतार्चिमाली व्यराजताssदित्य इवांशुमाली॥45||

स राक्षसां स्तान् सुबहूंश्च हत्वा वनं च भंक्त्वा बहुपादपं तत्।
विसृज्य रक्षोभवनेषु चाग्निम् जगाम रामं मनसा महात्मा॥46||

ततस्तु तं वानरवीर मुख्यं महाबलं मारुततुल्य वेगम्।
महामतिं वायुसुतं वरिष्टं प्रतुष्टुवुर्देवगणाश्च सर्वे॥47||

भंक्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे।
दग्ध्वा लंकापुरीं रम्यां रराज स महाकपिः॥48||

तत्रदेवाः सगंधर्वाः सिद्धाश्च परमर्षयः।
दृष्ट्वा लंकां प्रदग्धां तां विस्मयं परमं गताः॥49||

तं दृष्ट्वा वानरश्रेष्ठं हनुमंतं महाकपिं।
कालाग्निरिति संचिन्त्य सर्वभूतानि तत्रसुः॥50||

देवाश्च सर्वेमुनिपुंगवाश्च गंधर्वविद्याधरनागयक्षाः।
भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम्॥51||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे चतुःपंचाशस्सर्गः ||

|| Om tat sat ||