||Sundarakanda ||

|| Sarga 54||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ चतुःपंचाशस्सर्गः॥

वीक्षमाणस्ततो लंकां कपिः कृत मनोरथः।
वर्थमान समुत्साहः कार्यशेषमचिंतयत्॥1||

स॥ ततः कृतमनोरथः कपिः लंकां वीक्षमाणः वर्धमान समुत्साहः शेषं कार्यं अचिंतयत्॥

Then having achieved his objectives the Vanara looking at the city of Lanka with growing zeal thought over the remaining work.

किन्नु खल्वशिष्ठं मे कर्तव्य मिह सांप्रतम्।
यदेषां रक्षसां भूयः संतापजननं भवेत् ॥2||
वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः।
बलैक देशः क्षपितः शेषं दुर्ग विनाशनम्॥3||
दुर्गेविनाशिते कर्म भवेत्सुखपरिश्रमम्।
अल्पयत्नेन कार्येsस्मिन् ममस्यात् सफलः श्रमः॥4||
योह्ययं मम लांगूले दीप्यते हव्य वाहनः।
अस्य संतर्पणं न्यायं कर्तुमेभिर्गृहोत्तमैः॥5||

स॥ यत् एषां राक्षसाम् भूयः संताप जननं भवेत् किं नु कर्तव्यं मे इह सांप्रातं अवशिष्टं॥ वनं प्रमथितं तावत् प्रकृष्टाः राक्षसाः हताः । बलैक देशः क्षपितः । दुर्गविनाशनं शेषं॥दुर्गे विनाशिते कर्म सुखपरिश्रमम् भवेत्। अस्मिन् कार्ये अल्पयत्नेन श्रमः सफलः स्यात्॥ ममलांगूले यः अयं हव्यवाहनः दीप्यते अस्य एभिः गृहोत्तमैः सन्तर्पणं कर्तुं न्यायम्॥

Presently the action that is left over as my duty is that action which will give more torment to these Rakshasas, The grove was destroyed. Powerful Rakshasas killed. One part of the army is destroyed. The destruction of the citadel is left. If the citadel is destroyed that action will be a happy conclusion. In this action success is there with a little effort. It is proper to satiate the fire burning on this tail with these best mansions.

ततः प्रदीप्तलांगूलः सविद्युदिव तोयदः।
भवनाग्रेषु लंकाया विचचार महाकपिः॥6||
गृहाद्गृहं राक्षसानां उद्यानानिच वानरः।
वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः॥7||

स॥ ततः प्रदीप्तलांगूलः महाकपिः सविद्युत् तोयदः इव लंकायाः भवनाग्रेषु विचचार॥सः वानरः उद्यानानि च प्रासादाश्च वीक्षमाणः असन्त्रस्तः राक्षसानां गृहात् गृहं चचार॥

Then Hanuman with his glowing tail, looking like a cloud with lightning, wandered on the top of the mansions in Lanka. That Vanara wandered without fear seeing the gardens and mansions , moving from one house to the other house of the Rakshasas.

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्।
अग्निं तत्र स निक्षिप्य श्वसनेन समो बली॥8||
ततोन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥
मुमोच हनुमान् अग्निं कालानलशिखोपमम्॥9||

स॥ महावेगः श्वसनेन समः बली वीर्यवान् सः प्रहस्तस्य निवेशनं अवप्लुत्य तत्र अग्निं निक्षिप्य ततः अन्यत् महापार्श्वस्य वेश्म पुप्लुवे हनुमान् कालनलशिखोपमम् अग्निं मुमोच॥

The mighty and speedy Hanuman , equalling the speed of Vayu, jumped on the mansion of Prahasta , setting the same to fire then jumped on the mansion of Mahaparsva. Hanuman looking like the fire at the time of dissolution set fire to the same.

वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः।
शुकस्य च महातेजाः सारणस्य च धीमतः॥10||
तथा चेन्द्रजितो वेश्म ददाह हरियूथपः।
जम्बुमालेः सुमालेश्च ददाह भवनं ततः॥11||
रस्मिकेतोश्च भवनं सूर्यशत्रोः तथैव च।
ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः॥12||
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः।
विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च॥13||

स॥ महातेजाः सः महाकपिः तदा वज्रदंष्ट्रस्य शुकस्य धीमतः सारणस्य च पुप्लुवे॥हरियूथपः तथा इंद्रजितः वेश्म ददाह।ततः जंबुमाले सुमालेश्च भवनम् ददाह॥रस्मिकेतोश्च भवनं तथैव रक्षसः सूर्यशत्रोः च ह्रस्वकर्णश्च दंष्ट्रश्च रोमशस्य च(ददाह)॥रक्षसः युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ददाह॥

The very brilliant and great Vanara jumped on the mansions of Vajradamshtra's, Suka's, wise Sarana's houses ( setting fire to the same). Then the best of Vanaras burnt the palace of Indrajit. Then he burnt Jambumaali's and Sumali's mansions. Then Rasmiketu's palace, similarly the mansions of the Rakshasas Hrasvakarna, DamShtra, Roma were burnt. Rakshasas Yuddhonmatta's, Matta's , DhvajagrIva's , Vidyujjihva's Ghora's similarly Hastimukha's mansions were burnt.

कराळस्य पिशाचस्य शोणिताक्षस्य चैव हि।
कुंभकर्णस्य भवनं मकराक्षस्य चैव हि॥14||
यज्ञशत्रोश्च भवनं ब्रह्मशत्रोः तथैव च।
नरान्तकस्य कुंभस्य निकुंभस्य दुरात्मनः॥15||
वर्जयित्वा महातेजा विभीषण गृहं प्रति।
क्रममाणः क्रमेणैव ददाह हरिपुंगवः॥16||

स॥ कराळस्य पिशाचस्य शोणिताक्षस्य च एव हि ददाह। कुंभकर्णस्य भवनं मकराक्षस्य च एव ददाह॥यज्ञशत्रोः भवनं तथैव ब्रह्मशत्रोः च नरान्तकस्य कुम्भस्य दुरात्मनः निकुंभस्यच भवनं ददाह॥ महातेजा विभीषण गृहं प्रति वर्जयित्वा क्रममाणः क्रमेनैव हरिपुंगवः ददाह॥

Karala's , Pisacha's, Sonitaksha's mansions also were burnt. Kumbhakarna's palace, Makarakshasa's palace also were burnt. Yagnyasatru's mansion, similarly Brahmasatru's , Narantaks's, Kumbha's and the wicked Nikumbha's mansions were also burnt. Leaving the palace of the great Vibhishana proceeding in order the best of Vanara's burnt the mansions.

तेषु तेषु महार्हेषु भवनेषु महायशाः।
गृहेष्वृद्धिमतां वृद्धिं ददाह महाकपिः॥17||
सर्वेषां समतिक्रम्य राक्षसेंद्रस्य वीर्यवान्।
असदाथ लक्ष्मीवान् रावणस्य निवेशनम्॥18||

स॥ महायशाः सः महाकपिः रुद्धिमतां महार्हेषु तेषु तेषु गृहेषु ऋद्धिं ददाह॥ वीर्यवान् लक्ष्मीवान् सर्वेषां समतिक्रम्य अथ राक्षसेंद्रस्य रावणस्य निवेशनम् अससाद॥

The great Vanara burnt the wealth in wealthy ones mansions.The heroic and illustrious one after crossing the residences of all the Rakshasas reached the palace of Ravana, the king of Rakshasas.

ततस्तस्मिन् गृहे मुख्ये नानारत्न विभूषिते।
मेरुमंदर संकाशे सर्वमंगळशोभिते॥19||
प्रदीप्त मग्नि मुत्सृज्य लांगुलाग्रे प्रतिष्टितम्।
ननाद हनुमान् वीरो युगान्त जलदो यथा॥20||

स॥ ततः हनुमान् नानारत्न विभूशिते मेरुमंदर संकाशे सर्वमंगळ शोभिते तस्मिन् मुख्ये गृहे लांगूलाग्रे प्रतिष्टं प्रदीप्तं अग्निं उत्सृज्य युगान्त जलदे ननाद॥

Then Hanuman set the palace decorated with different kinds of gems , filled with exquisite auspicious articles, a palace that was resembling mountains Mandara and Meru, on fire with tip of his burning tail. Then he roared like the thundering cloud at the time of dissolution.

श्वसनेन च संयोगात् अतिवेगो महाबलः।
कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ॥21||
प्रदीप्तमग्निं पवनः तेषु वेश्म स्वचारयत्।
अभूच्छ्वसन संयोगात् अतिवेगो हुताशनः॥22||
तानि कांचनजालानि मुक्तामणिमयानि च।
भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च॥23||

स॥ हुताशनः श्वसनेन संयोगात् अतिवेगः महाबलः प्रावर्धत । कालाग्निः इव जज्वाल॥पवनः प्रदीप्तं अग्निं तेषु वेश्मसु आचारयत् । श्वसनसंयोगात् हुताशनः अतिवेगः अभूत्॥ कांचनजालानि मुक्तामणिमयानि च रत्नवंति महन्ति च तानि भवनानि अवशीर्यन्त॥

The association of wind the fire grew rapidly. It glowed like the fire at the time of dissolution. Aided by the wind the the fire spread in the houses. Association with wind made the fire grow very fast.The golden mesh work along with studded pearls and gems and the big ones and the palaces came crashing down.

संजज्ञे तुमुलः शब्दोराक्षसानां प्रधावतां।
स्वगृह्वस्य परित्राणे भग्नोत्साहोर्जितश्रियाम्॥24||
नूनमेषोsग्नि रायातः कपिरूपेण हा इति।
क्रन्दन्त्यः सहसापेतुः स्तनन्थयधराः स्त्रियः॥26||
काश्चिदग्नि परीतेभ्यो हर्म्येभ्यो मुक्त मूर्थजाः।
पतन्त्यो रेजिरेsभ्रेभ्यः सौदामिन्य इवाम्बरात्॥27||

स॥स्वगृहस्य परित्राणे प्रधावतां भग्नोत्साहोर्जितश्रियां राक्षसानाम् नूनम् एषः अग्निः कपिरूपेण आयातः इति तुमुलः शब्दः संजज्ञे ॥काश्चित् स्त्रियः स्तनन्धराः मुक्तमूर्धजाः क्रन्दन्त्यः अग्निपरीतेभ्यः हर्म्येभ्यः सहसा पेतुः। अंबरात् अभ्रेभ्यः पतन्यः सौदामिन्यः इव॥

Running to protect their own houses, unable to protect them Rakshasa were saying 'surely the fire has come in the form of the Vanara. A tumultuous sound arose. Some women breast feeding their babies, with hair let loose, shouting jumped out of burning mansions. And they looked like the lightnings dropping from the clouds.

वज्रविद्रुम वैडूर्य मुक्ता रजत संहितान्।
विचित्रान्भवनान् दातून् स्यन्दमानान् ददर्श ह॥28||
नाग्निः तृप्यति काष्ठानां तृणानां च यथा तथा ।
हनुमान् राक्षसेंद्राणां विशस्तानां न तृप्यति॥

स॥ सः वज्रविद्रुम वैडूर्य मुक्ता रजत संहितान् विचित्रान् भवनात् स्यन्दमानान् धातून् ददर्श॥यथा अग्निः काष्टानां तृणानां न तृप्यति तथा हनुमान् राक्षसेंद्राणां विशस्तानां न तृप्यति॥

He saw pearls and silver mixed with diamonds and colorful corals in molten form dropping from the palaces. Like the fire which was not satisfied with dry sticks and grass , Hanuman was not satisfied with king of Rakshasas dead ones.

क्वचित् किंशुकसंकाशाः क्वचिच्छाल्मलिसन्निभाः।
क्वचित्कुंकुमसंकाशाः शिखावह्नेश्चकाशिरे॥30||
हनूमता वेगवता वानरेण महात्मना।
लंकापुरं प्रदग्धं तत् रुद्रेण त्रिपुरं यथा॥31||

स॥ वह्नेः शिखाः क्वचित् किंशुकसंकाशाः क्वचित् शाल्मलिसन्निभाः क्वचित् कुंकुम संकाशाः चकाशिरे॥ वेगवता वानरेण महात्मना हनुमता लंकापुरं रुद्रेण त्रिपुरं यथा प्रदग्धम्॥

Flames of the fire shining at one place appeared like Kimsuka flowers, some other place appeared like Salmali flowers, and yet another place like Kumkum flowers. The speedy Vanara Hanuman burnt the city of Lanka like Rudra burnt down city of Tripura.

ततस्तु लंकापुर पर्वताग्रे समुत्थितो भीमपराक्रमोग्निः।
प्रसार्यचूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः॥32||
युगान्त कालानलतुल्यवेगः समारुतोsग्निर्व्वृधे दिविस्पृक्।
विधूमरश्मिर्भवनेषु सक्तो रक्षः शरीराज्यसमर्पितार्चिः॥33||
आदित्यकोटीसदृशः सुतेजा लंकां समस्तां परिवार्य तिष्टन्।
शब्दैरनैकै रशनिप्ररूढैर्भिन्दन् निवाण्डं प्रबभौ महाग्निः॥34||

स॥तत्ः वेगवता हनुमाता विश्रुष्टः भीमपराक्रमः अग्निः चूडावलयं प्रसार्य प्रदीप्तः लंकापुरपर्वताग्रे समुत्थितः॥विधूमरस्मिः भवनेषु सक्तः समारुताग्नि रक्ष्ः शरीराज्यसमर्पितार्चिः युगान्तकालानलतुल्यवेगः ववृधे॥आदित्यकोटि सदृशः सुतेजाः समस्तां लंकां परिवार्य तिष्टन् महाग्निः अनैकैः अशनिप्ररूढैः शब्दैः अण्डं भिन्दन् इव प्रबभौ॥

The fire lit by the speedy Hanuman who has fierce valor, created circles of fires which rose to the mountain top on which city of Lanka was sitting. The fire without smoke from the mansions, fanned by the wind, fire from the Rakshasa bodies which were offered upto the fire , grew at the speed of the fire at the time of dissolution. The radiant fire appeared like crores of Suns, surrounding and standing on entire Lanka. It was glowing with sounds, like the sounds produced by Indra's thundebolt , as through whole universe was breaking.

तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः।
निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेsभ्राः॥35||
वज्रीमहेंद्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणोsनिलो वा।
रुद्रोsग्निरर्को धनदश्च सोमो न वानरोsयं स्वयमेव कालः॥36||

स॥ तत्र रुक्षप्रभः किंशुकपुष्पचूडः अग्निः अम्बरात् अतिप्रवृद्धः अभ्राः निर्वानधूमाकुलराजयः नीलोत्पलाभाः प्रचकाशिरे॥अयं वानरः न। वज्री त्रिदशेश्वरः महेन्द्रः वा साक्षात् यमः वा अनिलो वा रुद्रः अग्निः अर्कः धनदश्च सोमः स्वयं कालः एव वा॥

The fire spread intense brightness like the kimsuka flowers shooting upto the sky. The clouds engulfed by the smoke rising froom the subsiding fire was shining like blue lotuses. ' ' This not a Vanara. It is wielder of thunder bolt, the lord of the gods, Indra or Yama himself or wind god, Rudra or fire god, Sun or Kubera or moon or the god of death himself '.

किंब्राह्मणः सर्व पितामहस्य सर्वस्य धातुश्चतुराननस्य।
इहाsगतो वानर रूपधारी रक्षोपसंहारकरः प्रकोपः॥37||
किं वैष्णवं वा कपिरूपमेत्य रक्षो विनाशाय परं सुतेजः।
अनन्तमव्यक्त मचिन्त्य मेकम् स्वमायया साम्प्रत मागतं वा॥38||
इत्येवमूचुर्भवो विशिष्ठा रक्षोगणास्तत्र समेत्य सर्वे।
सप्राणि संघां सगृहां सवृक्षाम् दग्धां पुरीं तां सहसा समीक्ष्य॥39||

स॥ सर्वपितामहस्य सर्वस्य धातुः चतुराननस्य ब्रह्मणह् रक्षोपसंहारकरः प्रकोपः वानररूपधारी इह आगतः उपायातः किम्?॥ अनंतं अव्यक्तं अचिन्त्यं एकं वैष्णवम् परं सुतेजः साम्प्रतं रक्षो विनासाय स्वमायया कपिरूपं एत्य आगतं किं वा॥ सप्राणि संघां सगृहं सवृक्षां तां पुरीं सहसा दग्धां बहवः विशिष्टाः सर्वे रक्षोगणाः तत्र समेत्य इति एवं ऊचुः॥

Or is it Grand father Brahma the supreme four faced god, enraged and arrived in the form of a Vanara to kill the clan of Rakshasas. Or else the infinite , indescribable, unthinkable one Vishnu , the Supreme god of great glory assuming the form of a Vanara by virtue of his own Maya come here to destroy the Rakshasas. Seeing that the city with all its homes with trees including all creatures has been burnt , many eminent men and Rakshasa collected together and spoke to each other.

ततस्तु लंका सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा।
सपक्षिसंघा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम्॥40||
हा तात हापुत्त्रक कान्त मित्त्र हा जीवितं भोगयुतं सुपुण्यम्।
रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः॥41||

स॥ ततः सराक्षसा साश्वरथा स नागा सपक्षिसंघाः स मृगा स वृक्षा लंका सहसा प्रदग्धा दीना तुमुलं सुशब्दं रुरोद॥ हा तात हापुत्त्रक हा कान्त हा मित्र भोगयुतं सुपुण्यं हा जीवितं बहुधा ब्रुवद्भिः रक्षोभिः घोरतरः सुभीषः शब्दः कृतः ॥

Then with Lanka suddenly burnt along with Rakshasas, chariots with horses, with elephants with flocks of birds, with animals and trees , there arose a tumultuous piteous sound and they cried. Those Rakshasas speaking out in a terrific way made dreadful noise saying "Oh Father, Oh Son, Oh Dear,Oh Friend , that life which is enjoyable and pious has been destroyed '.

हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्त योधा।
हनूमतः क्रोध बलाभिभूता बभूव शापोपहतेव लंका॥42||
ससंभ्रमत्रस्त विषण्ण राक्षसाम् समुज्ज्वल ज्ज्वालहुताशनांकिताम्।
ददर्श लंकां हनुमान्महामनाः स्वयंभुकोपोपहता मिवावनिम्॥43||

स॥ हुताशनज्वालसमावृता हतप्रवीराः परिवृत्तयोधा हनूमतः क्रोधबलाभिभूता सा लंका शापोपहतेव बभूव॥महात्मनः हनुमान् ससंभ्रमत्रस्तविषण्णराक्षसाम् समुज्ज्वलज्ज्वाल हुताशनांकिताम् लंकां स्वयम्भूकोपोपहतां अवनिं इव लंकां ददर्श॥

Engulfed in the flame spread by the fire god, with its heroes dead, with its retreating troops, with the power of the anger of Hanuman, the city of Lanka appeared as if it was cursed. Higly sensitive Hanuman saw the city of Lanka which succumbed to flames of fire god , with the Rakshasas perplexed scared and sorrowful, looked as if the earth was hit by the anger of Brahma.

भुंक्त्वा वनं पादपरत्नसंकुलम् हत्वातु रक्षांसि महान्ति संयुगे।
दग्ध्वा पुरीं तां गृहरत्न मालिनीम् तस्थौ हनुमान् पवनात्मजः कपिः॥44||
त्रिकूटशृंगाग्रतले विचित्रे प्रतिष्टितो वानरराजसिंहः।
प्रदीप्त लांगूलकृतार्चिमाली व्यराजताssदित्य इवांशुमाली॥45||

स॥पवनात्मजः हनुमान् पादपरत्नसंकुलं वनं भुंक्त्वा संयुगे महन्ति रक्षांसि हत्वा गृहरत्नमालिनीं तां पुरीं दग्ध्वा तस्थौ॥विचित्रे त्रिकूट संगाग्रतले प्रतिष्टितः प्रदीप्तलांगूलकृतार्चिमाली वानरराजसिंहः अंशुमाली आदित्य इव व्यराजत॥

Hanuman the son of wind god having destroyed the grove full of excellent trees, having killed many Rakshasas, burning the city with rows of beautiful houses , stood there. On the wonderful peak of Trikuta , with a glowing tail, the lion among the Vanaras , shone like the Sun with its brilliant rays.

स राक्षसां स्तान् सुबहूंश्च हत्वा वनं च भंक्त्वा बहुपादपं तत्।
विसृज्य रक्षोभवनेषु चाग्निम् जगाम रामं मनसा महात्मा॥46||
ततस्तु तं वानरवीर मुख्यं महाबलं मारुततुल्य वेगम्।
महामतिं वायुसुतं वरिष्टं प्रतुष्टुवुर्देवगणाश्च सर्वे॥47||

स॥ महात्मा सः सुबहून् तान् राक्षसान् हत्वा बहुपादपम् तत् वनं च भंक्त्वा रक्षोभवनेषु अग्निं विश्रुज्य मनसा रामं जगाम॥ततः वानरवीरमुख्यं महाबलं मारुततुल्यवेगं महामतिं वरिष्टं तं वायुसुतं सर्वे देवगणाः प्रतुष्टुवुः॥

The great Vanara having killed many Rakshasas, having destroyed the grove with many trees , having set fire to many palaces of Rakshasas , reached Rama in his mind. Then all the Devas praised the mighty, very wise, efficient, chief of Vanara warriors, who has the speed of the wind god, who is the son of wind god.

भंक्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे।
दग्ध्वा लंकापुरीं रम्यां रराज स महाकपिः॥48||
तत्रदेवाः सगंधर्वाः सिद्धाश्च परमर्षयः।
दृष्ट्वा लंकां प्रदग्धां तां विस्मयं परमं गताः॥49||

स॥महातेजः महाकपिः वनं भंक्त्वा संयुगे रक्षांसि हत्वा रम्यां लंकपुरीम् दग्ध्वा रराज॥तत्र सगंधर्वाः देवाः सिद्धाश्च परमर्षयः दग्धां तां लंकां पुरीं दृष्ट्वा परमम् विस्मयम् गताः ॥

The very brilliant and great Vanara shone having destroyed the grove, having killed the Rakshasas in the battle, having burnt the beautiful city. Then all the Devas with Gandharvas , Siddhas , great Rishis, seeing the city of Lanka burnt were very much wonder struck.

तं दृष्ट्वा वानरश्रेष्ठं हनुमंतं महाकपिं।
कालाग्निरिति संचिन्त्य सर्वभूतानि तत्रसुः॥50||

स॥ वानरश्रेष्ठं महाकपिं तं हनुमंतं दृष्ट्वा कालाग्निः इति संचित्य सर्वभूतानि तत्रसुः॥

Seeing Hanuman the best of Vanaras as if he were the fire at the time of dissolution all the beings were terrified.

देवाश्च सर्वेमुनिपुंगवाश्च गंधर्वविद्याधरनागयक्षाः।
भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम्॥51||

स॥तत्र सर्वे मुनिपुंगवाश्च गण्धर्वविद्याधरनागयक्षाः महंति सर्वाणि भूतानि अतुल्यरूपां प्रां प्रीतिं जग्मुः॥

Then all the sages, Gandharvas, Vidyaadharas, Nagas , Yakshas, all the creatures experienced great happiness.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे चतुःपंचाशस्सर्गः ॥

Thus ends the Sarga fifty four of Sundarakanda in Ramayana the first poem ever composed in Sanskrit by the first poet sage Valmiki
||ओम् तत् सत् ||