||Sundarakanda ||

|| Sarga 55||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ पंचपंचाशस्सर्गः॥

लंकां समस्तां संदीप्य लांगुलाग्निं महाबलः।
निर्वापयामास तदा समुद्रे हरिसत्तमः॥1||

संदीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम्।
अवेक्ष्य हनुमान् लंकां चिंतयामास वानरः॥2||

तस्याभूत् सुमहांस्त्रासः कुत्सा चाsत्मन्यजायत।
लंकां प्रदहता कर्मकिंस्वित्कृतमिदं मया॥3||

धन्यास्ते पुरुषश्रेष्ठा ये बुध्या कोपमुत्थितम्।
निरुन्थन्ति महात्मानो दीप्तमग्निमिवांभसा॥4||

क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि।
क्रुद्धः परुषयावाचा नरः साधूनधिक्षिपेत्॥5||

वाच्या वाच्यं प्रकुपितो न विजानाति कर्हिचित्।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित्॥6||

यः समुत्पतितं क्रोधं क्षमयैव निरस्यति।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते॥7||

धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम्।
अचिन्तयित्वा तां सीतां अग्निदं स्वामिघातुकम्॥8||

यदि दग्ध्वात् इयं लंका नूनमार्याsपि जानकी।
दग्धा तेन मया भर्तुर्हतं कार्यमजानता॥9||

यदर्थमयमारंभः तत्कार्यमवसादितम्।
मया हि दहता लंकां न सीता परिरक्षिता॥10||

ईषत्कार्य मिदं कार्यं कृतमासीन्नसंशयः।
तस्य क्रोदाभिभूतेन मया मूलक्षयः कृतः॥11||

विनष्टा जानकी न्यूनं न ह्यदग्दः प्रदृश्यते।
लंकायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी॥12||

यदि तद्विहतं कार्यं ममप्रज्ञा विपर्ययात्।
इहैव प्राणसन्न्यासो ममापि ह्यद्य रोचते॥13||

किमग्नौ निपता म्यद्य अहोस्विद्बडबामुखे।
शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम्॥14||

कथं हि जीवता शक्यो मया द्रष्ठुं हरीश्वरः।
तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना॥15||

मया खलु तदे वेदं रोषदोषात्प्रदर्शितम्।
प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम्॥16||

धि गस्तु राजसं भावं अनीशमनवस्थितम्।
ईश्वरेणापि यद्रागान् मया सीता नरक्षिता॥17||

विनष्टायांतु सीतायां तावुभौ विनशिष्यतः।
तयोर्विनाशे सुग्रीवः सबंधुर्विनशिष्यति॥18||

एतदेव वचः श्रुत्वा भरतो भ्रातुवत्सलः।
धर्मात्मा सहशतृघ्नः कथं शक्ष्यति जीवितुम्॥19||

इक्ष्वाकु वंशे धर्मिष्ठे गते नाशमसंशयम्।
भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः॥20||

तदहं भाग्य रहितो लुप्त धर्मार्थ संग्रहः।
रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः॥21||

इति चिन्तयतः तस्य निमित्तान्युपपेदिरे।
पूर्वमप्युपलब्दानि साक्षात् पुनरचिन्तयत्॥22||

अथवा चारु सर्वांगी रक्षिता तेन तेजसा।
न नशिष्यति कल्याणी नाग्नि रग्नौ प्रवर्तते॥23||

न हि धर्मात्मनः तस्य भार्या ममित तेजसः।
स्व चारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः॥24||

नूनं राम प्रभावेन वैदेह्याः सुकृतेन च।
यन्मां दहनकर्माsयं नादहाद्दव्यवाहनः॥25||

त्रयाणां भरतादीनां भ्रातॄणां देवता च या।
रामस्य च मनः कान्ता सा कथं विनशिष्यति॥26||

यद्वा दहनकर्माsयं सर्वत्र प्रभुरव्ययः।
नमे दहति लांगूलं कथ मार्यां प्रदक्ष्यति॥27||

पुनश्चाचिन्तयत्तत्र हनुमान्विस्मितस्तदा।
हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम्॥28||

तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि।
अपि सा निर्दहेदग्निं नता मग्निः प्रदक्ष्यते॥29||

स तथा चिन्तयं स्तत्र देव्या धर्मपरिग्रहम्।
शुश्राव हनुमान् वाक्यं चारणानां महात्मनाम्॥30||

अहो खलु कृतं कर्म दुष्करं हि हनूमता।
अग्निं विश्रुजताsभीक्ष्‍णं भीमं राक्षसवेश्मनि॥31||

प्रपलायित रक्षः स्त्रीबालवृद्धसमाकुला।
जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरे॥32||

दग्धेयं नगरी सर्वा साट्टप्राकारतोरणा।
जानकी न च दग्धेति विस्मयोsद्भुत एव नः॥33||

स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः।
ऋषिवाक्यैश्च हनुमान् अभवत्प्रीतिमानसः॥34||

ततः कपिः प्राप्त मनोरथार्थः
तामक्षतां राजसुतां विदित्वा।
प्रत्यक्षतः तां पुनरेव दृष्ट्वा
प्रतिप्रयाणाय मतिं चकार॥35||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे पंचपंचाशस्सर्गः ॥


|| Om tat sat ||