||Sundarakanda ||

|| Sarga 55||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ पंचपंचाशस्सर्गः॥

लंकां समस्तां संदीप्य लांगुलाग्निं महाबलः।
निर्वापयामास तदा समुद्रे हरिसत्तमः॥1||
संदीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम्।
अवेक्ष्य हनुमान् लंकां चिंतयामास वानरः॥2||

स॥ महाबलः हरिसत्तमः लंकां समस्तां संदीप्य तदा समुद्रे लांगूलाग्निं निर्वापयामास॥संदीप्यमानां विध्वस्तां त्रस्त रक्षोगणां लंका पुरीं आवेक्ष्य वानरः चिंतयामास॥

The mighty Hanuman having burnt whole of Lanka then tried to put off the fire on his tail in the ocean. Seeing the destroyed and burning city of Lanka as well as the panic stricken Rakshasas, Vanara started thinking.

तस्याभूत् सुमहांस्त्रासः कुत्सा चाsत्मन्यजायत।
लंकां प्रदहता कर्मकिंस्वित्कृतमिदं मया॥3||
धन्यास्ते पुरुषश्रेष्ठा ये बुध्या कोपमुत्थितम्।
निरुन्थन्ति महात्मानो दीप्तमग्निमिवांभसा॥4||

स॥ तस्य महान् त्रासः अभूत् ।आत्मनि कुत्सा च अजायत। लंकां प्रदहता मया इदं किंस्वित् कर्म कृतं॥ते पुरुषश्रेष्ठाः महात्मनः धन्याः ये उत्थितं कोफं बुद्ध्या निरुन्धन्ति दीपं अग्निं अंभसा इव॥

A great fear overtook him within in his mind. Self reproach was felt. ' By burning Lanka what did I do ?'. Those who put out the rising anger by their wisdom like a burning fire is put out by water, are blessed. They are best of men and great souls.

क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि।
क्रुद्धः परुषयावाचा नरः साधूनधिक्षिपेत्॥5||
वाच्या वाच्यं प्रकुपितो न विजानाति कर्हिचित्।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित्॥6||
यः समुत्पतितं क्रोधं क्षमयैव निरस्यति।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते॥7||

स॥ कृद्धः कः पापं न कुर्यात् । कृद्धः गुरून् अपि हन्यात् । कृद्धः नरः परुषयावाचा साधून् अधिक्षिपेत्॥प्रकुपितः कर्हिचेत् वाच्यावाच्यं न विजानाति । कृद्धस्य अकार्यं न अस्ति।अवाच्यं न विद्यते॥उरगः जीर्णां त्वचं यथा यः समुत्पतितं क्रोधं क्षमया एव निरस्यति सः वै पुरुषः उच्यते॥

' What sin the angry will not perform. The angry one will kill even the masters. The angry will insult good people with harsh words. An angry one will not know what can be said and what cannot be said. For the angry one there no act that is barred. No word that cannot be said. Like a snake sheds its skin, the one who drives away the rising anger with tolerance he alone is called a truly wise man'.

धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम्।
अचिन्तयित्वा तां सीतां अग्निदं स्वामिघातुकम्॥8||
यदि दग्ध्वात् इयं लंका नूनमार्याsपि जानकी।
दग्धा तेन मया भर्तुर्हतं कार्यमजानता॥9||
यदर्थमयमारंभः तत्कार्यमवसादितम्।
मया हि दहता लंकां न सीता परिरक्षिता॥10||

स॥ तां सीतां अचिन्तयित्वा अग्निदं स्वामिघातुकं सुदुर्बुद्धिं इव निर्लज्जं पापकृत्तमं माम् धिक् अस्तु॥इयं लंका दग्धा यदि आर्या जानक्यापि दग्धा । अजानता मया भर्तुः कार्यं हतं॥यदर्थं अयं (कार्यं) आरंभः तत् कार्यं अवसादितं। लंकां दहता मया सीता न परिरक्षिता॥

' Fie on me who without thinking about Sita set fire ( to Lanka) , betraying my master, with wicked mind and without shame. If this Lanka is burnt then respectable Janaki is also burnt. Without realizing I have destroyed master's mission. The purpose for which this was started that ( purpose) was destroyed. I burnt Lanka without saving Sita'.

ईषत्कार्य मिदं कार्यं कृतमासीन्नसंशयः।
तस्य क्रोदाभिभूतेन मया मूलक्षयः कृतः॥11||
विनष्टा जानकी न्यूनं न ह्यदग्दः प्रदृश्यते।
लंकायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी॥12||

स॥ इदं कार्यं ईषत्कार्यं कृतं आसीन्न क्रोदाभिभूतेन मया तस्य मूलक्षयः कृतः संशयः न ॥ नूनं जानकी विनष्टा। लंकायां कश्चित् उद्देशः अदग्दः न प्रदृश्यते हि । सर्वाः पुरी भस्मी कृता ॥

' This is a small work done. With anger generated I destroyed the root of my achievement. Surely Janaki was lost. There is no place that is not burnt in Lanka. All of the city is burnt'.

यदि तद्विहतं कार्यं ममप्रज्ञा विपर्ययात्।
इहैव प्राणसन्न्यासो ममापि ह्यद्य रोचते॥13||
किमग्नौ निपता म्यद्य अहोस्विद्बडबामुखे।
शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम्॥14||

स॥ मम प्रज्ञा विपर्ययात् तत् कार्यं विहतं यदि ममापि इहैव प्राणसन्यासः अद्य रोचते॥अद्य अग्नौ निपतामि । अहोस्वित् बडबामुखे अहो शरीरं सागरवासिनां सत्त्वानां दद्मि॥

' If because of my stupidity that mission was destroyed , then it is proper that I should also sacrifice my life here itself. Shall I jump in the fire. Shall I jump in the mouth of the submarine fire or offer my body as the food for the sea creatures'.

कथं हि जीवता शक्यो मया द्रष्ठुं हरीश्वरः।
तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना॥15||
मया खलु तदे वेदं रोषदोषात्प्रदर्शितम्।
प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम्॥16||

स॥ कार्यसर्वस्वघातिना मया जीविता हरीश्वरः द्रष्ठुं कथं वा शक्यः । पुरुषशार्दूलौ तौ वा ( कथं वा शक्यः)॥मया रोषदोषात् त्रिषु लोकेषु प्रथितं अनवस्थितं तत् इदं कपित्वं प्रदर्शितं खलु॥

' Having destroyed the whole mission how can I see the king of Vanaras. Or even the two tigers among men. Because of my yielding to fault of rising anger , I have exhibited the instability of the mind of monkeys, known in the three worlds'.

धि गस्तु राजसं भावं अनीशमनवस्थितम्।
ईश्वरेणापि यद्रागान् मया सीता नरक्षिता॥17||
विनष्टायांतु सीतायां तावुभौ विनशिष्यतः।
तयोर्विनाशे सुग्रीवः सबंधुर्विनशिष्यति॥18||

स॥ अनीशं अनवस्थितं राजसं भावं धिक् अस्तु । यत् ईश्वरेण अपि मया रागात् सीता न रक्षिता॥सीतायां विनष्टायां तौ वुभौ विनशिष्यतः । तयोः विनाशे सबन्धुः सुग्रीवः विनशिष्यति ।

' Fie upon the uncontrollable unstable excitable nature. Though powerful, I could not save Sita because of my anger. If Sita is destroyed those two will die. Their loss will result in the loss of Sugriva and all relatives'.

एतदेव वचः श्रुत्वा भरतो भ्रातुवत्सलः।
धर्मात्मा सहशतृघ्नः कथं शक्ष्यति जीवितुम्॥19||
इक्ष्वाकु वंशे धर्मिष्ठे गते नाशमसंशयम्।
भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः॥20||

स॥ एतत् एव वचः श्रुत्वा भ्रात्रुवत्सलः धर्मात्मा सहशत्रुघ्नः जीवितुं कथं शक्ष्यति॥धर्मिष्टे इक्ष्वाकुवंशे नाशं गते सर्वाः प्रजाः असंशयं शोकसंतापपीडिताः भविष्यंति॥

' Hearing those words about a loving brother, the righteous one along with Satrughna will perish. When the righteous Ikshvaku race perishes, all the people will be tormented by grief and remorse. No doubt '.

तदहं भाग्य रहितो लुप्त धर्मार्थ संग्रहः।
रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः॥21||
इति चिन्तयतः तस्य निमित्तान्युपपेदिरे।
पूर्वमप्युपलब्दानि साक्षात् पुनरचिन्तयत्॥22||

स॥ तत् भाग्यरहितः लुप्तधर्मार्थसंग्रहः रोषदोषपरीतात्मा अहं व्यक्तं लोकनाशनः॥ तस्य इति चिन्तयितः साक्षात् पूर्वं अपि उपलब्धानि निमित्तानि उपपेदिरे पुनः । सः अचिन्तयत् ॥

' Then I am the unfortunate one who failed to secure Dharma and Artha, who overwhelmed by anger is the cause of the destruction of the world'. While he was thinking like this, good omens as in the past appeared before him. He started thinking

अथवा चारु सर्वांगी रक्षिता तेन तेजसा।
न नशिष्यति कल्याणी नाग्नि रग्नौ प्रवर्तते॥23||
न हि धर्मात्मनः तस्य भार्या ममित तेजसः।
स्व चारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः॥24||

स॥ अथवा चारु सर्वांगी स्वेन तेजसा रक्षिता । कल्याणी न नशिष्यति । अग्निः अग्नौ न प्रवर्तते ॥ धर्मात्मनः अमित तेजसः तस्य भार्यां स्वचारित्राभिगुप्तां तां पावकः स्प्रष्टं न अर्हति हि॥

' Or else the lady of beautiful limbs is saved by her own brilliance. The auspicious lady can not perish. Fire cannot burn fire. The wife of the righteous one. a man of immense glory, who is protected by her own chastity cannot be touched by the fire'.

नूनं राम प्रभावेन वैदेह्याः सुकृतेन च।
यन्मां दहनकर्माsयं नादहाद्दव्यवाहनः॥25||
त्रयाणां भरतादीनां भ्रातॄणां देवता च या।
रामस्य च मनः कान्ता सा कथं विनशिष्यति॥26||
यद्वा दहनकर्माsयं सर्वत्र प्रभुरव्ययः।
नमे दहति लांगूलं कथ मार्यां प्रदक्ष्यति॥27||

स॥ दहनकर्मा अयं हन्यवाहनः माम् ना दहत् । इति यत् नूनं रामप्रभावेण \ वैदेह्याः सुकृतेन च॥या भरतादीनां त्रयाणां देवताः च रामस्य मनः कान्ता सा कथं विनशिष्यति ॥यद्वा सर्वत्र प्रभुः अव्ययः अयं दहनकर्मा मे लांगूलं न दहति अर्यां सीतां कथं प्रदक्ष्यति॥

This fire which consumes, which carries the oblations did not burn me. This is surely because of the power of Rama and the good deeds of Vaidehi. The one who is goddess for Bharat and the three , who is the dear one of Rama , how can she perish. If the fire which burns everything has not burnt my tail, how can he burn Sita ?.

पुनश्चाचिन्तयत्तत्र हनुमान्विस्मितस्तदा।
हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम्॥28||
तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि।
अपि सा निर्दहेदग्निं नता मग्निः प्रदक्ष्यते॥29||

स॥ तदा हनुमान् विस्मितः जलमध्ये हिरण्यनाभस्य गिरेः प्रदर्शनं तत्र पुनः अचिन्तयत्॥तपसा सत्यवाक्येन भर्तरि अनन्यत्वाच्च सा अग्निं निर्दहेत् अपि तां अग्निः नप्रदक्ष्यति॥

Then Hanuman thought of the appearance of mountain Hiranyanabha in the middle of the ocean, a wonderful phenomenon. 'By vrtue of her asceticism , adhering to truth, devotion to her husband, she may even burn (others) , but cannot be burnt'.

स तथा चिन्तयं स्तत्र देव्या धर्मपरिग्रहम्।
शुश्राव हनुमान् वाक्यं चारणानां महात्मनाम्॥30||
अहो खलु कृतं कर्म दुष्करं हि हनूमता।
अग्निं विश्रुजताsभीक्ष्‍णं भीमं राक्षसवेश्मनि॥31||

स॥ तत्र तथा देव्याः धर्मपरिग्रहं चिन्तयन् सः हनुमान् महात्मनां चारणानां वाक्यं शुश्राव॥राक्षसवेश्मनि आभीक्ष्नं भीमं अग्निं विसृजता हनुमता दुष्करं कर्म कृतं खलु अहो॥

As he was thinking so, he heard the words of the great Charanas . " In the Rakshasa palaces extremely fierce fire was spread by Hanuman , a marvelous task has been accomplished".

प्रपलायित रक्षः स्त्रीबालवृद्धसमाकुला।
जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरे॥32||
दग्धेयं नगरी सर्वा साट्टप्राकारतोरणा।
जानकी न च दग्धेति विस्मयोsद्भुत एव नः॥33||

स॥ प्रपलायित रक्षः स्त्रीबालवृद्धसमाकुला जनकोलाहद्माता आद्रिकन्दरे क्रन्दन्ती इव॥ (अयं ) नगरी सर्वा साट्टप्राकारतोरणा दग्धा । जानकी न दग्धा इति। नः विस्मयः अद्भुत एव॥

Crowded with children women and old ones running , the city was loud with wails of Rakshasas , it was as if the city was wailing."This city of Lanka along with its ramparts and arches is burnt. But Janaki is not burnt. It is surprising and wonderful".

स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः।
ऋषिवाक्यैश्च हनुमान् अभवत्प्रीतिमानसः॥34||

स॥ सः हनुमान् दृष्तार्थैः निमित्तैः महागुणैः करणेश्चैव ऋषिवाक्यैश्च प्रीतिमानसः अभवत् ॥

Then with appearance of omens , proofs seen, and the words of sages giving good tidings Hanuman became happy at heart.

ततः कपिः प्राप्त मनोरथार्थः
तामक्षतां राजसुतां विदित्वा।
प्रत्यक्षतः तां पुनरेव दृष्ट्वा
प्रतिप्रयाणाय मतिं चकार॥35||

स॥ ततः कपिः प्राप्तमनोरथार्थः तां राजसुतां अक्षतां विदित्वा तां पुनरेव प्रत्यक्षतः दृष्ट्वा प्रतिप्रयाणाय मतिं चकार॥

Then the Vanara having achieved the cherished goal , knowing that the princess is not burnt, thought of departing after seeing Sita.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे पंचपंचाशस्सर्गः ॥

Thus ends the Sarga fifty five of Sundarakanda in Ramayana the first poem ever composed in Sanskrit by the first poet sage Valmiki.

||ओम् तत् सत्||