||Sundarakanda ||

|| Sarga 56||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ षट्पंचाशस्सर्गः॥

ततस्तु शिंशुपामूले जानकीं पर्युपस्थिताम्।
अभिवाद्याब्रवीदिष्ट्या पश्यामि त्वामिहाक्षताम्॥1||

ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः।
भर्तृस्नेहान्वितं वाक्यं हनुमंतं अभाषत॥2||

काममस्य त्वमेवैकः कार्यस्य परिसाधने।
पर्याप्तः परवीरघ्नः यशस्यः ते बलोदयः॥3||

शरैस्तु संकुलां कृत्वा लंकाम् परबलार्दनः।
मां नयेद्यदि काकुत्‍स्थः तत् तस्य सदृशं भवेत्॥4||

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः।
भवत्याहवशूरस्य तथा त्वमुपपादय॥5||

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्।
निशम्य हनुमांस्तस्या वाक्य मुत्तरमब्रवीत्॥6||

क्षिप्रमेष्यति काकु‍त्‍स्थो हर्यृक्षप्रवरैर्वृतः।
यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति॥7||

एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः।
गमनाय मतिं कृत्वा वैदेहीं अभ्यवादयत्॥8||

ततस्स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः।
आरुरोह गिरिश्रेष्ठं अरिष्ठं अरिमर्दनः॥9||

तुंगपद्मकजुष्टाभिः नीलाभिर्वनराजिभिः।
सोत्तरीयमिवांभोदैः शृंगांतरविलम्बिभिः॥10||

बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः।
उन्मिषन्तमिवोद्दूतैः लोचनैरिव धातुभिः॥11||

तोयौघनिस्स्वनैर्मन्त्रैः प्राधीत मिव पर्वतम्।
प्रगीतमिव विसृष्ठै र्नानाप्रस्रवणस्वनैः॥12||

देवदारुभिरत्युच्चैः ऊर्ध्वबाहुमिव स्थितम्।
प्रपात जलनिर्घोषैः प्राकृष्ट मिव सर्वतः॥13||

वेपमान मिव श्यामैः कंपमानैः शरद्घनैः।
वेणुभिर्मारुतोद्दूतैः कूजन्तमिव कीचकैः॥14||

निश्स्वसन्तमिवामर्षात् घोरैराशीविषोत्तमैः।
नीहारकृतगंभीरैः ध्यायन्तमिव गह्वरैः॥15||

मेघपादनिभैः पादैः प्रकान्तमिव सर्वतः।
जृंभमान मिवाकाशे शिखरैरभ्रमालिभिः॥16||

कूटैश्च बहुधाकीर्णैः शोभितं बहुकन्दरैः।
सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम्॥17||

लतावितानैर्विततैः पुष्पवद्भिरलंकृतम्।
नानामृग गणाकीर्णं धातुनिष्यन्दभूषितम्॥18||

बहुप्रस्रवणोपेतं शिलासंचयसंकटम्।
महर्षियक्षगंधर्व किन्नरोरुगसेवितम्॥19||

लतापादसंघातं सिंहाध्युषितकन्दरम्।
व्याघ्रसंघसमाकीर्णं स्वादुमूलफलद्रुमम्॥20||

तं आरुरोह हनुमान् पर्वतं पवनात्मजः।
रामदर्शन शीघ्रेण प्रहर्षेणाभिचोदितः॥21||

तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु।
सघोषाः समसीर्यन्त शिलाः चूर्णीकृतास्ततः॥22||

स तं आरुह्य शैलेंद्रं व्यवर्थत महाकपिः।
दक्षिणादुत्तरं पारं प्रार्थयन् लवणांभसः॥23||

अधिरुह्य ततो वीरः पर्वतं पवनात्मजः।
ददर्श सागरं भीमं मीनोरगनिषेवितम्॥24||

स मारुत इवाsकाशं मारुतस्याsत्मसंभवः।
प्रपेदे हरिशार्दूलो दक्षिणादुत्तरं दिशम्॥25||

स तदा पीडितस्तेन कपिना पर्वतोत्तमः।
ररास सह तैर्भूतैः प्रविशन् वसुधातलम्॥26|

कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः।
तस्योरु वेगोन्मथिताः पादपाः पुष्पशालिनः॥27||

निपेतुर्भूतले रुग्णाः शक्रायुध हता इव।
कन्दरान्तरसंस्थानं पीडितानां महौजसाम्॥28||

सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे।
स्रस्ताव्यावृत्त वसना व्याकुलीकृतभूषणाः॥29||

विद्याधर्यः समुत्पेतुः सहसा धरणी धरात्।
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः॥30||

निपीडित शिरोग्रीवा व्यचेष्टन्त महाहयः।
किन्नरोरग गंधर्वयक्षविद्याधरस्तदा॥31||

पीडितं तं नगरं त्यक्त्वा गगनमास्थिताः।
स च भूमिधरः श्रीमान् बलिना तेन पीडितः॥32||

स वृक्षशिखरोदग्रः प्रविवेश रसातलम्।
दशयोजनविस्तारः त्रिंशद्योजनमुच्छ्रितः॥33||

धरण्याम् समतां यातः स बभूव धराधरः।
स लिलिंग यिषुर्भीमं सलीलं लवणार्णवम्॥34||

कल्लोलास्फाल वेलान्त मुत्पपात नभो हरिः॥35||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे षट्पंचाशस्सर्गः ॥


|| Om tat sat ||