||Sundarakanda ||

|| Sarga 56||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ षट्पंचाशस्सर्गः॥

ततस्तु शिंशुपामूले जानकीं पर्युपस्थिताम्।
अभिवाद्याब्रवीदिष्ट्या पश्यामि त्वामिहाक्षताम्॥1||

स॥ ततः शिंशुपामूले पर्युपस्थितां जानकीं अभिवाद्य ब्रवीत् । दिष्ट्या त्वां अक्षतां इह पश्यामि॥

Then offering salutations to Sita sitting under the Simsupa tree, he said,' Luckily I am seeing you unharmed'.

ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः।
भर्तृस्नेहान्वितं वाक्यं हनुमंतं अभाषत॥2||
काममस्य त्वमेवैकः कार्यस्य परिसाधने।
पर्याप्तः परवीरघ्नः यशस्यः ते बलोदयः॥3||
शरैस्तु संकुलां कृत्वा लंकाम् परबलार्दनः।
मां नयेद्यदि काकुत्‍स्थः तत् तस्य सदृशं भवेत्॥4||
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः।
भवत्याहवशूरस्य तथा त्वमुपपादय॥5||

स॥ ततः प्रस्थितं हनुमंतं वीक्षमाणा सीता भर्तृस्नेहान्वितं वाक्यं अभाषत॥अस्य कार्यस्य परिसाधने कामं त्वं एकं एव पर्याप्तः । अस्य ते बलोदयः यशस्यः ॥ परबलार्दनः काकुत्‍स्थः शरैस्तु लंकां संकुलां कृत्वा यदि मां नयेत् तत् तस्य सदृशं भवेत् ॥तत् महात्मनः आहवशूरस्य तस्य विक्रांतं अनुरूपं यथा भवति तथा त्वं उपपादय ॥

Then seeing Hanuman who is all set to go, Sita spoke words showing her love to her husband. ' For this mission to be accomplished surely you alone are capable. With this you attain fame and strength. If the slayer of enemy forces, Kakutstha, creating distress all over Lanka with his arrows and takes me back that will be worthy of him. You act in a way that is worthy of him who is chivalrous in battle , who is a great soul'.

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्।
निशम्य हनुमांस्तस्या वाक्य मुत्तरमब्रवीत्॥6||

स॥ हनुमान् प्रश्रितं तत् हेतुसंहितं अर्थोपहितं तस्याः वाक्यं निशम्य हनुमान् वाक्यं उत्तरं अब्रवीत् ।

Hanuman hearing those properly inclined, meaningful words supported with reason, spoke in response.

क्षिप्रमेष्यति काकु‍त्‍स्थो हर्यृक्षप्रवरैर्वृतः।
यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति॥7||
एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः।
गमनाय मतिं कृत्वा वैदेहीं अभ्यवादयत्॥8||
ततस्स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः।
आरुरोह गिरिश्रेष्ठं अरिष्ठं अरिमर्दनः॥9||

स॥ काकुत्‍स्थः हर्यक्षु प्रवरैः वृतः क्षिप्रं एष्यति । यः युधि अरीन् विजित्य ते शोकम् व्यपनयिष्यति ॥वैदेहीं एवं अश्वास्य हनुमान् मारुतात्मजः गमनाय मतिं कृत्वा वैदेहीं अभ्यवादयत् ॥ततः कपिशार्दूलः स्वामिसंदर्शनोत्सुकः अरिष्ठं गिरिश्रेष्ठं अरिमर्दनः आरुरोह ॥

' Kakutstha will come quickly along with Vanara chiefs. He having won the enemies in the battle will remove your sorrow'. Thus having assured Vaidehi , Hanuman the son of wind god, having made up his mind to go offered salutations to Vaidehi. Then the tiger among Vanaras and crusher of foes, eager for meeting the Lord, ascended the best of mountains, Arishta.

तुंगपद्मकजुष्टाभिः नीलाभिर्वनराजिभिः।
सोत्तरीयमिवांभोदैः शृंगांतरविलम्बिभिः॥10||
बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः।
उन्मिषन्तमिवोद्दूतैः लोचनैरिव धातुभिः॥11||

स॥ तुंगपद्मकजुष्टाभिः नीलाभिः वनराजिभिः शृंगांतर विलम्बिभिः अंबोधैः स उत्तरीयं इव (अस्ति)॥शुभैः दिवाकरकरैः प्रीत्या बोध्यमानं इव (अस्ति) उद्धूतैः लोचनैरिव धातुभी उन्मिषन्तं इव ॥

The mountain was having forest ranges full of tall Padmaka trees and the dark ones. The clouds hanging between peaks looked like an upper garment. The auspicious Sun rays were as though affectionately waking up ( the mountain). The minerals pushed up by the wind were like eyes that are opening up.

तोयौघनिस्स्वनैर्मंद्रैः प्राधीत मिव पर्वतम्।
प्रगीतमिव विस्पष्टैः र्नानाप्रस्रवणस्वनैः॥12||
देवदारुभिरत्युच्चैः ऊर्ध्वबाहुमिव स्थितम्।
प्रपात जलनिर्घोषैः प्राकृष्ट मिव सर्वतः॥13||

स॥ मन्द्रैः तोयौघनिश्वनैः प्राधीतं इव विस्पष्टैः नानाप्रस्रवण स्वनैः प्रगीतं इव पर्वतम्॥ अत्युच्चैः देवदारुभिः ऊर्ध्वबाहुं इव स्थितं । प्रपात जलनिर्घोषैः सर्वतः प्राकृष्टं इव ।

The loud sounds of gurgling waters were like reciting (mantras) with specific sounds. The different kinds of sounds of water falls were as though the mountain was singing. The tall Devadarus were like one standing with the arms raised. The sounds of water falls all over were like reverberations.

वेपमान मिव श्यामैः कंपमानैः शरद्घनैः।
वेणुभिर्मारुतोद्दूतैः कूजन्तमिव कीचकैः॥14||
निश्स्वसन्तमिवामर्षात् घोरैराशीविषोत्तमैः।
नीहारकृतगंभीरैः ध्यायन्तमिव गह्वरैः॥15||

स॥ श्यामैः कंपमानैः शरद्घनैः वेपमानं इव। वेणुभिः कीचकैः मारुतोद्धूतैःकीचकैः कूजंतं इव ( अस्ति) ॥घोरैः आशीविषोत्तमैः निःश्वशंतं इव। नीहारकृत गंभीरैः गह्वरैः ध्यायन्तं इव ॥

The mountain appeared trembling with dark clouds of autumn. The hollow bamboos hit by the winds made sweet noises like bamboo flutes . (The mountain sounds were) like the hissing sounds of dreadful poisonous snakes. The caves majestically covered with mist were as though meditating.

मेघपादनिभैः पादैः प्रकान्तमिव सर्वतः।
जृंभमान मिवाकाशे शिखरैरभ्रमालिभिः॥16||
कूटैश्च बहुधा कीर्णैः शोभितं बहुकन्दरैः।
सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम्॥17||

स॥मेघपादनिभैः पादैः सर्वतः प्रकान्तमिव अभ्रमालिभिः शिखरैः आकाशे जृंभमाणं इव॥बहुधा कीर्णैः बहुकंदरैः कूटैश्च शोभितं । बहुभिः सालतालाश्वकर्णैश्छ वंशैश्च व्ततं॥

The ranges of foothills appearing like feet of the clouds and the peaks like garlands of clouds , it made one look like yawning. With many kinds of caves and moutain peaks it was delightful. It was covered with many Sala, Tala, and Aswakarna trees, as well as bamboos and reeds.

लतावितानैर्विततैः पुष्पवद्भिरलंकृतम्।
नानामृग गणाकीर्णं धातुनिष्यन्दभूषितम्॥18||
बहुप्रस्रवणोपेतं शिलासंचयसंकटम्।
महर्षियक्षगंधर्व किन्नरोरुगसेवितम्॥19||
लतापादसंघातं सिंहाध्युषितकन्दरम्।
व्याघ्रसंघसमाकीर्णं स्वादुमूलफलद्रुमम्॥20||

स॥विततैः पुष्पवद्भिः लतावितानैः अलंकृतं नानामृगगणाकीर्णं धातुनिष्यंदभूषितम् ॥बहुप्रश्रवणोपेतं शिलासंचयसंकटं महर्षि यक्ष गंधर्व किन्नरः उरुगः सेवितम्॥लतापादपसंघातं सिंहाध्युषितकन्दरम् व्याघ्र संघ समाकीर्णं स्वादुमूलफलाद्रुमम्||

It was spread with creepers filled with flowers and there were herds of many types of animals. the mountain was decorated with colorful minerals dropping down. With many waterfalls with heaps of rocks making the flow of water difficult, it was inhabited by sages, Yakshas, Gandharvas, Kinnaras and Nagas. With clusters of creepers and trees, trees bearing tasty fruits and roots , caves inhabited by lions were scattered all over.

तं आरुरोह हनुमान् पर्वतं पवनात्मजः।
रामदर्शन शीघ्रेण प्रहर्षेणाभिचोदितः॥21||
तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु।
सघोषाः समसीर्यन्त शिलाः चूर्णीकृतास्ततः॥22||

स॥ पवनात्मजः हनुमान् रामदर्शन शीघ्रेण प्रहर्षेण अभिचोदितः तं पर्वतं आरुरोह॥ ततः रम्येषु गिरिसानुषु तेन पादतलाक्रांताः शिलाः सुघोषाः चूर्णीकृताः समसीर्यन्त॥

Hanuman, the son of wind god, with joy and anxious to see Rama soon, ascended the mountain happily. The rocks on beautiful mountain ranges crushed under Hanuman's feet, making a loud noise rolled down reduced to powder.

स तं आरुह्य शैलेंद्रं व्यवर्थत महाकपिः।
दक्षिणादुत्तरं पारं प्रार्थयन् लवणांभसः॥23||
अधिरुह्य ततो वीरः पर्वतं पवनात्मजः।
ददर्श सागरं भीमं मीनोरगनिषेवितम्॥24||

स॥सः महाकपिः लवणांभसः दक्षिणात् उत्तरं पारं प्रार्थयन् तं शैलेंद्रं आरुह्य व्यवर्धत॥ततः वीरं पवनात्मजः पर्वत्ं अधिरुह्य मीनोरुगनिषेवितं भीमं सागरं ददर्श॥

The great Vanara wishing to cross the ocean from the southern tip to northren shore having climbed the mountain grew in size. Then the heroic son of wind god having climbed the mountain saw the fearsome ocean inhabited by fishes and snakes.

स मारुत इवाsकाशं मारुतस्याsत्मसंभवः।
प्रपेदे हरिशार्दूलो दक्षिणादुत्तरं दिशम्॥25||
स तदा पीडितस्तेन कपिना पर्वतोत्तमः।
ररास सह तैर्भूतैः प्रविशन् वसुधातलम्॥26||
कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः।

स॥ मारुतस्य आत्मसंभवः सा हरिशार्दूलः दक्षिणात् उत्तरं दिशं मारुतः इव आकाशं प्रपेदे॥स तदा तेन कपिना पीडितः सः पर्वतोत्तमः भूतैः सह वसुधातलं प्रविशन् कंपमानैः शिखरैः पतत्भिः द्रुमैः ररास॥

The son of wind god, tiger among the Vanaras, leaped in to the sky form the south towards north like wind god. Then pressured by the Vanara the best of mountains entered the earth along with all creatures , with its mountain tops shaken and trees falling making great sound.

तस्योरु वेगोन्मथिताः पादपाः पुष्पशालिनः॥27||
निपेतुर्भूतले रुग्णाः शक्रायुध हता इव।
कन्दरान्तरसंस्थानं पीडितानां महौजसाम्॥28||
सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे।

स॥ तस्य उरुवेगात् मथिताः पुष्पशालिनः पादपाः रुग्णाः शक्रायुधहता इव भूतले निपेतुः॥कन्दरान्तर संस्थानम् पीडितां महौजसां सिंहानां भीमः सः निनादः नभः भिन्दन् शुश्रुवे॥

Shaken by the force of his thighs , the blossoming trees fell on the ground like sick people struck down by Indra's thunderbolt. The terrific roar of lions residing in those crushed caves was heard cracking the sky .

स्रस्ताव्यावृत्त वसना व्याकुलीकृतभूषणाः॥29||
विद्याधर्यः समुत्पेतुः सहसा धरणी धरात्।
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः॥30||
निपीडित शिरोग्रीवा व्यचेष्टन्त महाहयः।

स॥ विध्याधर्यः त्रस्तव्यावृतवसना व्याकुलीकृत भूषणाः सहसा धरणी धरात् समुत्पेतुः॥अतिप्रमाणः बलिनः दीप्तजिह्वाः महाविषाः महाहयः निपीडितशिरोग्रीवाः व्यचेष्टन्त॥

The Vidhyadharas who were afraid , with their clothes slipped in fear with ornaments disarrayed at once flew from the mountain. Strong and highly poisonous snakes huge in size with glowing tongues were pressed on their heads and necks ( by hanuman taking a leap).

किन्नरोरग गंधर्वयक्षविद्याधरस्तदा॥31||
पीडितं तं नगरं त्यक्त्वा गगनमास्थिताः।
स च भूमिधरः श्रीमान् बलिना तेन पीडितः॥32||
स वृक्षशिखरोदग्रः प्रविवेश रसातलम्।

स॥ तदा किन्नरोरग गंधर्वयक्षविद्याधरः पीडितं तं नगवरम् त्यक्त्वा गगनं आस्थिताः॥बलिना तेन पीडितः सवृक्षशिखरोदग्रः श्रीमान् सः भूमिधरश्च रसातलं प्रविवेश॥

Then the Kinnars, Gandharvas, Yakshas, Vidyadharas left the pressured mountain and occupied the sky. Pushed by the powerful one , the mountain along with the trees and its peaks sank into the underworld.

दशयोजनविस्तारः त्रिंशद्योजनमुच्छ्रितः॥33||
धरण्याम् समतां यातः स बभूव धराधरः।

स॥ दशयोजनविस्तारः त्रिंशत् योजनं उच्छ्रितं धराधरः धरण्यां समतां यातः बभूव॥

Ten Yojana wide and thirty yojana high that mountain was levelled to ground.

स लिलिंग यिषुर्भीमं सलीलं लवणार्णवम्॥34||
कल्लोलास्फाल वेलान्त मुत्पपात नभो हरिः॥35||

स॥ स हरिः भीमं कल्लोलास्फालवेलां तं लवणार्णवम् सलीलं लिलिंघयिषुः नभः उत्पपात॥

The Vanara desiring to cross the ocean of salt water with huge waves dashing towards the shore leaped into the sky.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे षट्पंचाशस्सर्गः ॥

Thus ends the fifty sixth Sarga of Sundarakanda in Ramayana the first poem ever composed in Sanskrit by the first poet sage Valmiki.

|| om tat sat||