||Sundarakanda ||

|| Sarga 57||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ सप्तपंचाशस्सर्गः॥

स चंद्र कुसुमं रम्यं सार्क कारण्डवं शुभं।
तिष्यश्रवणकादम्ब मभ्रशैवालशाद्वलम्॥1||
पुनर्वसु महामीनं लोहितांगमहाग्रहम्।
इरावत महाद्वीपं स्वातीहंसविलोळितम्॥2||
वातसंघातजातोर्मि चन्द्रांशुशिशिराम्बुमत्।
भुजंगयक्षगंधर्व प्रबुद्ध कमलोत्पलम्॥3||
हनुमान्मारुतगति र्महानौरिव सागरम्।
अपार मपरिश्रांतं पुप्लुवे गगनार्णवम्॥4||

स॥ स चंद्र कुसुमं रम्यं । सार्ककारंडवम् शुभं। तिष्यश्रवण कादम्बं। अभ्रशैवालशाद्वलम् । पुनर्वसुमहामीनं ।लोहितांग महाग्रहं । ईरावत महाद्वीपं।स्वातीहंसविलोळितम्। वातसंघात्जातोर्मि ।चन्द्रशिशुरांबुमत्। भुजंगयक्षगंधर्वप्रबुद्ध कमलोत्पलम्। अपारं गगनार्णवम् महनौः सागरं इव हनुमान् मारुतगतिः पुप्लुवे॥

Hanuman moved across the skies like a huge boat on the ocean . With sky as ocean the moon was like beautiful lotus, sun was like auspicious water fowl, Stars Tishya and Sravana were like sweet voiced swans. Clouds were like duckweeds and grassy spots. Star Punarvasu was like a large fish.The planet Mars was like a crocodile. Airavata was like a large island. Star Swati was like swan in water. The waves produced by wind for its billows. The cool moon beams for cold water. Nagas, Yakshas and Gandharvas in the skies together were like fully blossomed lotuses.

ग्रसमान इवाकाशं ताराधिप मिवोल्लिखन्।
हारन्निव स नक्षत्रम् गगनं सार्क मण्डलम्॥5||
मारुतस्यात्मजः श्रीमान्कपि र्व्योमचरो महान्।
हनुमन्मेघजालानि विकर्षन्निव गच्छति॥6||

स॥ मारुतस्य आत्मजः श्रीमान् महान् कपिः हनुमान् व्योमचरः आकासं ग्रसमानः इव ताराधिपं उल्लिखनिव सनक्षत्रं सार्कमंडलं गगनं हरन् इव मेघजालानि विकर्षन् इव गच्छति॥

The son of wind god, the illustrious Hanuman flying in the sky as if swallowing the space, scratching the moon, seizing the sun and along with stars, and drawing the clusters of clouds.

पाण्डुरारुणवर्णानि नीलमांजिष्टकानि च।
हरितारूण वर्णानि महाभ्राणी चकाशिरे॥7||
प्रविशन्नभ्रजालानि निष्पतं च पुनः पुनः।
प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते॥8||

स॥ पाण्डुरारुण वर्णानि नीलमंजिष्टकानि च हरितारुण वर्णानि महभ्राणि चकाशिरे॥अभ्रजालानि प्रविशन् पुनः पुनः निष्पतंश्चप्रच्छन्नश्च प्रकाशश्च चंद्रमाः लक्ष्यते॥

The white and black colors , blue and yellow colors greenish red color made appearance shining brilliantly. Entering the clouds and again and again disappearing he appeared like the bright moon.

विविधाभ्रघनापन्न गोचरो धवळांबरः।
दृश्यादृश्यतनुर्वीरः तदा चन्द्रायतेsम्बरे॥9||
तार्‍क्ष्ययमाणे गगने भभासे वायुनन्दनः।
दारयन्मेघबृन्दानि निष्प्रतं च पुनः पुनः॥10||
नदन्नादेन महता मेघस्वनमहास्वनः।

स॥तदा विविदाभ्रघनापन्नगोचरः धवळांबरः दृश्यादृश्य तनुः वीरः अम्बरे चन्द्रायते॥मेघवृंदानि दारयन् पुनः पुनः निष्पतंश्च महता नादेन मेघस्वन महास्वनः वायुनन्दनः गगने तार्‍क्ष्यायमानः बभासे॥

Then passing through the clouds the hero Hanuman clad in white appearing and disappearing looked like moon in the sky. Making way through the clouds again and again, disappearing and roaring like great clouds, Hanuman the delight of Vayu shone like Garuda in the skies.

प्रवरान् राक्षसान् हत्वा नाम विश्राव्यचात्मनः॥11||
अकुलां नगरीं कृत्वा व्यथयित्वा च रावणम्।
अर्थयित्वा बलं घोरं वैदेहीमभिवाद्य च॥12||
अजगाम महातेजाः पुनर्मध्येन सागरम्।

स॥ महातेजः प्रवरान् राक्षसान् हत्वा आत्मनः नाम विश्राव्य नगरीं अकुलं कृत्वा रावणम् व्यधयित्वा घोरं बलं अर्दयित्वा वैदेहीं अभिवाद्य च पुनः सागरं मध्येन आजगाम॥

The brilliant Hanuman having killed eminent Rakshasas, having made his name known , having made the city disoriented, having troubled Ravana, having tormented the terrific army , having offered salutation to Vaidehi again back in the middle of the ocean.

पर्वतेन्द्रं सुनाभं च समुस्पृश्य वीर्यवान्॥13||
ज्यामुक्त इव नाराचो महावेगोsभ्युपागतः।
सकिंचिदनुसंप्राप्तः समालोक्य महागिरिम्॥14||
महेन्द्रं मेघसंकाशं ननाद हरिपुंगवः।

स॥ वीर्यवान् पर्वतेंद्रं सुनाभं च समुस्पृश्य ज्यामुक्तः नाराचः इव महावेगः अभ्युपागतः॥सः हरिपुंगवः महागिरिं मेघसंकाशं महेंद्रं किंचित् अनुसंप्राप्तः समालोक्य ननाद॥

The hero Hanuman touched the lord of mountains from the center fondly , moved at great speed like an arrow released from a powerful bow string. Hanuman, the best of Vanaras coming a little near the Mahendra mountain which resembled mass of clouds thundered.

स पूरयामास कपिर्दिशो दश समन्ततः॥15||
नदन्नदेन महता मेघस्वनमहास्वनः।
स तं देशमनुप्राप्तं सुहृद्दर्शन लालसा॥16||
ननाद हरिशार्दूलो लांगूलं चाप्यकम्पयत्।
तस्य नानद्यमानस्य सुपर्ण चरिते पथि॥17||
फलतीवास्य घोषेण गगनं सार्कमण्डलम्।

स॥मेघस्वनमहास्वनः सः कपिः नदन् महता नादेन दश दिशः समन्ततः पूरयामास॥ तं देशं अनुप्राप्तः सुहृत् दर्शन लालसः सा हरिशार्दूलः ननाद। लांगूलं अकंप्यच॥सुपर्णचरिते पथि नानद्यमानस्य अस्य घोषेण सार्कमंडलं गगनं फलति इव ( अभूत्)॥

The roar of the Vanara which is like the thundering noise of clouds, filled all the ten directions. Having sighted that place anxious to see his friends, the tiger among Vanaras roared and shook his tail in joy. Travelling the path of Suparna , the roar of the roaring Hanuman seems to split the skies.

येतु तत्रोत्तरे तीरे समुद्रस्य महाबलाः॥18||
पूर्वं संविष्ठिताः शूराः वायुपुत्त्र दिदृक्षवः।
महतो वातनुन्नस्य तो यद स्येव गर्जितम्॥19||
शुश्रुवुस्ते तदा घोषं ऊरुवेगं हनूमतः।

स॥ तत्र समुद्रस्य उत्तरतीरे पूर्वं संविष्टिताः महाबलाः शूराः वायुपुत्रदिद्रुक्षवः ये ते तदा वातनुन्नस्य महतः तोयदय गर्जितं इव हनूमतः घोषं ऊरुवेगं शुश्रुवुः॥

There the powerful warriors waiting on the northern shores, waiting to see the son of wind god, then heard the roar and thundering sound of the clouds produced by sweeping motion of Hanuman thighs propelled by the speed of his movement.

ते दीनमससः सर्वे शुश्रुवुः काननौकसः॥20||
वानरेन्द्रस्य निर्घोषं पर्जन्य निनदोपमम्।
निशम्य नदतो नादं वानराः ते समन्ततः॥21||
बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकांक्षिणः।

स॥ दीनमनसः ते सर्वे वानरेंद्रस्य पर्जन्य निनदोपमम् निर्घोषं शुश्रुवुः॥सर्वे समन्ततः ते वानराः नदतः नादं निशम्य सुहृत् दर्सन कांक्षिणः उत्सुकाः बभूवुः॥

The Vanaras who were feeling dejected, heard the sound of Hanuman that sounded like thundering clouds. All the Vanaras hearing the sound of the one making the sound, anxious to see their friend became eager,

जांबवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः॥22||
उपामन्त्र्य हरीन् सर्वान् इदं वचनमब्रवीत्।
सर्वथा कृतकार्योsसौ हनुमान्नात्र संशयः॥23||
न ह्या स्याकृतकार्यस्य नाद एवं विधो भवेत्।

स॥ हरिश्रेष्ठः सः जाम्बवान् प्रीति संहृष्टमानसः सर्वान् हरीन् उपामन्त्र्य इदं वचनं अब्रवीत् ॥असौ हनुमान् सर्वथा कृतकार्यः । अकृतकार्यस्य अस्य नादः एवं विधः न भवेत् हि॥

The best of Vanaras Jambavan delighted very happy at heart called all Vanaras and said the following words. This Hanuman is always successful. If he has not then his sound will not be like this.

तस्य बाहूरुवेगं च निनादं च महात्मनः॥24||
निशम्य हरयो हृष्टाः समुत्पेतुः ततस्ततः।
ते नगाग्रान् नगाग्राणी शिखरात् शिखराणि च ॥25||
प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः।
ते प्रीताः पादपाग्रेषु गृह्यशाखाः सुविष्टिताः॥26||
वासां सीव प्रशाखाश्च समाविध्यन्त वानराः।

स॥ महात्मनः तस्य बाहूरुवेगं च निनादं च निशम्य हृष्टाः हरयः ततः ततः समुत्पेतुः॥ ते प्रहृष्टाः हनुमंतं दिद्रुक्षवः नगाग्रात् नगाग्राणि शिखरात् शिखराणि च समुपद्यंत॥ ते वानराः प्त्रीताः पादपाग्रेषु शाखाः गृह्य सुविष्टिताः प्रशाखाः वासांसीव समाविध्यंत॥

Hearing the sounds of speed of his arms and thighs the joyful Vanaras jumped in joy. The delighted Vanaras longing to see Hanuman jumped from one peak to another, from top of one tree to another. The Vanaras delighted jumped from the tree tops holding branches . They shook the branches like the clothes

गिरिगह्वरसंलीनो यथा गर्जति मारुतः॥27||
एवं जगर्ज बलवान् हनुमान् मारुतात्मजः।
तमभ्रघनसंकाश मापतन्तं महाकपिम्॥28||
दृष्ट्वा ते वानराः सर्वे तस्थुः प्रांजलयस्तदा

स॥ गिरिगह्वर संलीनः मारुतः यथा गर्जति (तथा) बलवान् मारुतात्मजः हनुमान् एवं जगर्ज॥तदा अभ्रघनसंकासं आपततंतं तं महाकपिं दृष्ट्वा ते वानरः प्रांजलयः तस्थुः॥

Like the wind in the mountain caves , Hanuman the powerful son of wind god roared. Seeing the approaching Hanuman who was resembling a heavy cloud , the Vanaras stood with folded hands.

ततस्तु वेगवां स्तस्य गिरेर्गिरिनिभः कपिः॥29||
निपपात महेन्द्रस्य शिखरे पादपाकुले ।
हर्षेणापूर्यमाणोsसौ रम्ये पर्वत निर्झरे॥30||
छिन्नपक्ष इवाssकाशात् पपात धरणी धरः।

स॥ ततः गिरिनिभः वेगवान् कपिः तस्य महेन्द्रस्य गिरेः पादपाकुले शिखरे निपपात॥हर्षेण आपूर्यमाणः असौ छिन्नपक्षः धरणीधरः इव रम्ये पर्वतनिर्झरे॥

There after the Vanara who resembled a mountain, descended with great speed on the peak of the Mahendra mountain full of trees. Full of immesaurable joy that Hanuman who is like a mountain with wings cut off, dropped on the bank of a mountain stream.

ततस्ते प्रीतमनसः सर्वे वानरपुंगवः॥31||
हनुमन्तं महात्मानं परिवार्योपतस्थिरे।
परिवार्य च ते सर्वे परां प्रीति मुपागताः॥32||
प्रहृष्टवदनाः सर्वे तमरोगमुपागतम्।
उपायनानि चादाय मूलानि फलानि च॥33||
प्रत्यर्चयन् हरिश्रेष्टं हरयो मारुतात्मजम्।

स॥ ततः सर्वे ते वानरपुंगवाः प्रीतिमनसः महात्मानं हनुमंतं परिवार्य उपतस्थिरे । परिवार्य च ते सर्वे परां प्रीतिं उपागताः॥सर्वे हरयः प्रहृष्टवदनाः मूलानि फलानि च उपायनानि आदाय आरोगं उपागतं हरिश्रेष्टं मारुतात्मजं प्रत्यर्पयन्॥

Then all the Vanara leaders delighted surrounded Hanuman and stood. All of them were extremely happy. All the Vanaras with happy faces brought fruits, roots and gifts for the best of Vanaras , the son of wind god, who returned unhurt.

हनुमांस्तु गुरून् वृद्धान् जांबवत्प्रमुखां स्तदा॥34||
कुमारमंगदं चैव सोsवन्दत महाकपिः।
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः॥35||
दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत्।

स॥ तदा महाकपिः हनुमांस्तु गुरून् वृद्धान् जांबवत् प्रमुखान् कुमारं अंगदं चैव अवन्दत॥विक्रान्तः पूज्यः सः ताभ्यां पूजितः कपिभिः प्रसादितः सीता दृष्टा इति संक्षेपेण निवेदयत्॥

Then the great Vanara Hanuman too bowed to elders , Jambavan and other leader and also Angada. The valiant Hanuman worthy of worship havng been honored and pleased revealed in brief that he saw Sita.

निषसाद च हस्तेन गृहीत्वा वालिनस्सुतम्॥36||
रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा।

स॥ तदा वालिनः सुतं हस्तेन गृहीत्वा महेन्द्रस्य गिरेः रमणीये वनॊद्देशे निषसाद च॥

The holding the hand of the son of Vali, he sat down at a beautiful place in the garden on the mountain Mahendra.

हनुमानब्रवीद्दृष्टः तदा तान् वानरर्षभान्॥37||
अशोकवनिकासंस्था दृष्टा सा जनकात्मजा।
रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता॥38||
एकवेणी धरा बाला रामदर्शन लालसा।
उपवासपरिश्रान्ता जटिला मलिना कृशा॥39||

स॥ तदा हृष्तः हनुमान् तान् वानरर्षभान् अब्रवीत्। अशोकवनिकासंस्था सुघोराभिः राक्षसीभिः रक्ष्यमाणा अनिन्दिता एकवेणी धरा बाला रामदर्शन लालसा उपवासपरिश्रांता जटिला मलिना कृशा सा जनकात्मजा दृष्टा॥

Then the delighetd Hanuman addressed the Vanara leaders. "I saw Sita in the Ashoka grove protected by fearsome Rakshasis. Blameless and wearing hair in a single plait, eager to see Rama , she is young emaciated due to fasting with soiled and matted hair"

ततो दृष्टेति वचनं महार्थं अमृतोपमम्।
निशम्य मारुतेः सर्वे मुदिता वानाराभवन्॥40||

स॥ ततः दृष्टा इति मारुतेः महार्थं अमृतोपमं वचनं निशम्य सर्वे वानराः मुदिता अभवत्॥

Then hearing those words " saw Sita" of great meaning, and like nectar, all the Vanaras were delighted.

क्ष्वेळन्त्यन्ये ननदन्तन्ये गर्जन्तन्ये महाबलाः।
चक्रुः किल किलां अन्ये प्रतिगर्जन्ति चापरे॥41||
केचिदुच्छ्रितलांगूलाः प्रहृष्टाः कपिकुंजराः।
अंचितायुतदीर्घाणि लांगूलानि प्रविवध्युः॥42||

स॥ महाबलाः अन्ये क्ष्वेळंति ।अन्ये नदन्ति ।अन्ये गर्जंति ।अन्ये किल्किलां चक्रुः ।अपरे प्रतिगर्जंति॥ प्रहृष्टाः केचित् कपिकुंजरः उच्छ्रितलांगूलाः आयतांचित दीर्घाणि लांगूलानि प्रविव्यधुः ॥

Then some powerful Vanaras howled. Some chattered. Some roared. Some others screamed. Some others echoed the roaring. Delighted some of the elephants among Vanaras lifted their tails and hit the ground with them

अपरे च हनूमंतं वानरावारणोपमं।
आप्लुत्य गिरिशृंगेभ्यः संस्पृशन्ति स्म हर्षिताः॥43||

स॥ अपरे वानराः हर्षिताः गिरिश्रुंगेभ्यः आप्लुत्य वारणोपमं हनूमंतं संस्पृशन्ति च॥

Other Vanaras delighted jumped down from the peaks of the mountains, touching the elephant like Hanuman.

उक्तवाक्यं हनूमन्तं अंगदः तम् अथाब्रवीत्।
सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम्॥44||
स त्वे वीर्ये न ते कश्चित्समो वानर विद्यते।
यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः॥45||

स॥ अथ अंगदः उक्तवाक्यं हनूमंतं सर्वेषां हरिवीराणां मध्ये उत्तमं वचनं अब्रवीत् ॥वानर ! यत् विस्तीर्णं सागरं अवप्लुत्य पुनः आगतः सत्त्वे वीर्ये ते समः कश्चित् ना विद्यते॥

Then Angada spoke to Hanuman with appropriate words in the middle of all Vanaras . Oh Vanara ! You have leaped such a wide ocean and returned. In strength and valor there is none to defeat you ,

अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः।
दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी॥46||
दिष्ट्या त्यक्ष्यति काकुत्‍स्थः शोकं सीतावियोगजम्।

स॥ सामिनि ते भक्तिः अहो । धृतिः अहो। दिष्ट्या त्वया रामपत्नी यशस्विनी देवी दृष्टा। दिष्ट्या काकुत्‍स्थः सीतावियोगजं शोकं तक्ष्यति॥

What reverence for the master. what fortitude. Luckily you have seen the illustrious wife of Rama. Luckily you can remove the sorrow of Kakutstha born out of separation from Sita.

ततोsज्ञ्गदं हनूमन्तं जांबवन्तं च वानराः॥47||
परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः।
श्रोतुकामाः समुद्रस्य लंघनं वानरोत्तमाः॥48||
दर्शनं चापि लंकायाः सीताया रावणस्य च।
तस्थुः प्रांजलयः सर्वे हनुमद्वदनोन्मुखाः॥49||

स॥ ततः वानराः प्रमुदिताः अंगदं हनूमंतं जांबवंतं च परिवार्य विपुलाः शिलाः भेजिरे॥ सर्वे वानरोत्तमाः समुद्रस्य लंघनं लंकायाः सीतायाः रावणस्य दर्शनं चापि श्रोतुकामाः प्रांजलयः हनुमद्वचनोन्मुखाः तस्थुः ॥

Then the Vanaras delighted went round Angada, Hanuman and Jambavan. Then out of joy they lay down on the rocks. Then all the Vanara leaders, wanting to hear about the leap across the ocean, meeting Sita in Lanka, meeting Ravana too directly from the lips of Hanuman kept watching with folded hands.

तस्थौ तत्राsज्ञ्गदः श्रीमान्वानरैर्बहुभिर्वृतः।
उपास्यमानो विबुधैः दिविदेवपतिर्यथा॥50||

स॥ तत्र श्रीमान् बहुभिः वानरैः वृतः अंगदः दिवि विबुधैः उपाश्यमानः देवपतिः यथा तस्थौ॥

There surrounded by many Vanaras Angada was shining like Indra , the lord of gods attended by the Devas.

हनूमता कीर्तिमता यशस्विना
तथांगदे नांगदबद्धबाहुना।
मुदा तदाsध्यासितमुन्नतं महान्
महीधराग्रं ज्वलितं श्रियाsभवत्॥51||

स॥ कीर्तिमता हनूमता तथा यशस्विना अंगदबद्धबाहुना अंगदेन तदा मुदा अध्यासितं उन्नतं महत् महीधराग्रं तदा श्रिया ज्वलितं अभवत् ॥

The mountain top graced by the famous Hanuman, Angada bedecked with armlets, seated gracefully appeared prosperous and splendid.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे सप्तपंचाशस्सर्गः ॥

Thus ends Sarga fifty seventh Sarga in Sundarakanda of Ramayan the first poem ever composed in Sanskrit by the first poet sage Valmiki.

|| om tat sat||